संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ४७

प्रभासक्षेत्र माहात्म्यम् - अध्याय ४७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि देवं गुरुनिषेवितम्॥
उमायाः पूर्वदिग्भागे सिद्धेशाग्नेयगोचरे ॥१॥
संस्थितं तु महल्लिंगं देवाचार्य प्रतिष्ठितम् ॥
आराध्य परया भक्त्या लिंगं वर्षसहस्रकम् ॥२॥
तोषयामास देवेशं भवं शर्वमुमापतिम् ॥
प्राप्तवानखिलान्कामानप्राप्यानकृतात्मभिः ॥३॥
देवानां चैव पूज्यत्वं प्राप्य ज्ञानमथैश्वरम्॥
ग्रहत्वं च तथा प्राप्य मोदते दिवि सांप्रतम् ॥४॥
तं दृष्ट्वा मानवो भक्त्या न दुर्गति मवाप्नुयात्॥
बृहस्पतिकृतं लिंगं ये पश्यंति नरोत्तमाः ॥५॥
बृहस्पतिकृता पीडा नैव तेषां हि जायते ॥
तत्र शुक्लचतुर्दश्यां गुरुवारे तथा प्रिये ॥६॥
संपूज्य विधिवल्लिंगं सम्यग्राजोपचारतः ॥
अथवा भक्तिभावेन प्राप्नुयात्परमं पदम् ॥७॥
स्नानं पलसहस्रेण पंचामृतरसेन यः ॥
करोति भक्त्या मर्त्यो वै मुच्यते स ऋणत्रयात् ॥८॥
मातृकात्पैतृकाद्देवि तथा गुरुसमुद्भवात् ॥
सर्वपापविशुद्धात्मा निर्द्वंद्वो मुक्तिमाप्नुयात् ॥९॥
एवं संक्षेपतः प्रोक्तं माहात्म्यं गुरुदैवतम् ॥
शृणुयाद्यस्तु भावेन तस्य प्रीतो गुरुर्भवेत् ॥१०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृहस्पतीश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP