संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १८२

प्रभासक्षेत्र माहात्म्यम् - अध्याय १८२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि मिश्रतीर्थमनुत्तमम् ॥
त्रिसंगमेति विख्यातं सौरं तीर्थमनुत्तमम् ॥१॥
सरस्वती हिरण्या च समुद्रश्चैव भामिनि ॥
त्रयाणां संगमो यत्र दुष्प्राप्यो दैवतैरपि ॥२॥
सर्वेषां तत्र तीर्थानां प्रधानं तीर्थमुत्तमम् ॥
सूर्यपर्वणि संप्राप्ते कुरुक्षेत्राद्विशिष्यते ॥३॥
स्नानं दानं जपस्तत्र सर्वं कोटिगुणं भवेत् ॥४॥
मंकीश्वरान्महादेवि यावल्लिंगं कृतस्मरम् ॥
एतस्मिन्नन्तरे देवि तीर्थानां दशकोटयः ॥५॥
कृमिकीटपतंगाश्च श्वपचा वा नराधमाः ॥
सोऽपि स्वर्गमवाप्नोति किं पुनर्भावितात्मवान् ॥६॥
तत्र पीतानि वस्त्राणि काञ्चनं सुरभिस्तथा ॥
ब्राह्मणाय प्रदातव्या सम्यग्यात्राफलेप्सुभिः ॥७॥
कृष्णपक्षे चतुर्दश्यां स्नात्वा यस्तर्पयेत्पितॄन् ॥
तर्पिताः पितरस्तेन यावच्चन्द्रार्कतारकम् ॥८॥
एतत्त्रिसंगमं देवि महापातकनाशनम् ॥
दुर्लभं त्रिषु लोकेषु वैशाख्यां तु विशेषतः ॥९॥
वृषो त्सर्गो विशेषेण तत्र कार्यो नरोत्तमैः ॥
सर्वपापविनाशाय पितॄणां प्रीतये प्रिये ॥१०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिसंगममाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥१८३॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP