संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २२२ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २२२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २२२ Translation - भाषांतर नारद उवाच-आकर्णय शिबे राजन्वर्णयामि तवाग्रतःपुण्यं यशस्यमायुष्यं काश्या माहात्म्यमुत्तमम् ॥१॥इंद्रप्रस्थतटस्थायां काश्यामेकस्तु पादपःशिंशपाख्योभवेद्राजन् पुरा पुण्ययुगे कृते ॥२॥तत्रैको वायसो ह्यासीत्कृतनीडो वनस्पतौतस्याधस्तान्महासर्पं कोटरेव सति स्म ह ॥३॥एकदा तस्य काकस्य भार्यांडद्वयमालयेप्रतिमुच्य गता क्वापि न नीडे स्वे समागता ॥४॥स्वयमेव स काकस्तु पालयन्नंडकद्वयम्तामेव शिंशपामुच्चैरध्यतिष्ठन्महीपते ॥५॥अथैकदा निशीधे तु महावात्या समागताअभनक्शिंशपां राजन्मूलादपि दृढादपि ॥६॥वात्यया पात्यमानाया शिंशपायास्तदा तलेचूर्णितौ काकसर्पौ तौ गतप्राणौ बभूवतुः ॥७॥दिव्यांगास्ते त्रयो भूत्वा शिंशपा वायसादयःविमानत्रयमारूढा जग्मुः श्रीपतिकेतनम् ॥८॥शिबिरुवाच-देवर्षे केन पुण्येन प्राप्ता तैर्मुक्तिदा पुरीआसंस्ते के त्रयः पूर्वं सर्वं कथय नारद ॥९॥नारद उवाच-कुरुजांगलदेशीयो ब्राह्मणः श्रवणाभिधःतस्य भार्या कुडा नाम भ्राताभूच्च कुरंटकः ॥१०॥अस्नातभोक्ता नित्यं स कवलो मिष्टभुग्रहःश्रवणस्तेन दोषेण बभूव ग्रामवायसः ॥११॥कुरंटकस्तु तद्भ्राता नास्तिकोऽभवदुल्बणःश्रुतिस्मृतिपथोच्छेत्ता देवतानां च निंदकः ॥१२॥तेन दोषेण स मृतो ह्यभवत्कालकुंडलीसा कुंडा श्रवणस्य स्त्री बभूवोभयदोषभाक् ॥१३॥अतः सा स्थावरत्वं हि लब्ध्वासीदुभयाश्रयाएतत्ते कथितं भूप तद्वृत्तं पूर्वजन्मनि ॥१४॥अतः परं प्रवक्ष्यामि तेषां पुण्यं यतस्त्रयःप्रापुस्तेन पुरीं रम्यां काशीं वैश्वेश्वरीं नृप ॥१५॥ग्रामांतरादेकदा तौ प्रत्यायातौ निजालयम्कस्यचित्पथिकस्याथ कूपमग्नां पयस्विनीम् ॥१६॥अवलोक्य तदुद्धारं चक्रतुस्तेन नोदितौताभ्यांगदितमाकर्ण्य कुंडा साध्वित्यभाषत ॥१७॥ते त्रयस्तेनपुण्येन मरणं प्राप्य दुर्लभम्इंद्रप्रस्थतटस्थायां काश्यां वैकुंठमारुहन् ॥१८॥इयं काशी महेशस्य पुरी यद्यपि भूपतेतथाप्यस्यां मृतं जंतुर्वैकुंठे स्यात्सुखी हरेः ॥१९॥एतत्ते कथितं राजन्काश्या माहात्म्यमुत्तमम्किमन्यच्छ्रोतुमिच्छा ते विद्यते तद्वदस्व मे ॥२०॥शिबिरुवाच-मुने त्वया महेशस्य क्षेत्रत्रयमुदीरितम्काशी च शिवकांची च गोकर्णं च तथापरम् ॥२१॥एकस्य महिमा प्रोक्तो त्वया काश्या महामुनेगोकर्णशिवकांच्योश्च कथ्यतां यदि विद्यते ॥२२॥नारद उवाच-गोकर्णं केवलं शैवं क्षेत्रं परमपावनम्तस्मिन्मृतो नरो राजन्शिवः स्यान्नात्र संशयः ॥२३॥स्थले जलेंतरिक्षे च जंतुस्तत्र मृयेत चेत्तदा कैलासशिखरो शिवः संभूय दीव्यति ॥२४॥अत्र गोकर्णतीर्थे स्यान्मृतस्य न पुनर्भवःशिवेन स समं राजन्मुक्तिं यास्यति कर्हिचित् ॥२५॥अस्यापि तव माहात्म्यं गोकर्णस्य महामतेवर्णयामि यदाकर्णि मया ब्रह्ममुखात्प्रभो ॥२६॥प्रयागादेकगव्यूतौ गुरुतीर्थसमीपगःमर्यादापर्वतो योऽयं दृश्यते पुण्यदर्शनः ॥२७॥तत्रैकः कर्कटो नाम भिल्ल आसीत्सुदारुणःतस्य भार्या जरा नाम सा जघ्ने पतिपंचकम् ॥२८॥सा जरा विषसंयुक्तं षष्ठं कर्कटकं तदाअकरोन्मोदकं हंतुं तदा तेन स्वसुः श्रुतम् ॥२९॥निजाया मुखतो राजन्भिल्लेन च महात्मनाबालां तां हंतुमारेभे कर्कटो भृशदारुणः ॥३०॥खङ्गपाणिर्यदा याति तद्वधाय स भिल्लपःयावत्तावत्तु सा यायाज्ज्ञात्वा निजवधोद्यमम् ॥३१॥वनमभ्यद्रवद्भीता निजप्राणपरीप्सयातामनुद्रवता तेन कर्कटेन महीपते ॥३२॥अत्र गोकर्णतीर्थे तु गृहीता खङ्गपाणिनाशिरश्छित्वा तु खङ्गेन पातयित्वा जले वपुः ॥३३॥तस्य गोकर्णतीर्थस्य निजस्थानमगाच्च सःसा जरा तत्र गोकर्णे पापापि निधनं गता ॥३४॥कैलासशिखरे राजन्पार्वत्या अभवत्सखीअहं कथितवानेतत्तव गोकर्णवैभवम् ॥३५॥शिवकांच्याश्च माहात्म्यं पवित्रं वर्णयामि तेइंद्रप्रस्थतटस्थायां शिवकांच्यामपि प्रभो ॥३६॥गतिः सा परमा पुंसां गोकर्णे या मयोदिताअत्र श्रीमन्महादेवो विष्णुं सर्वसुरेश्वरम् ॥३७॥आराध्य भक्तराजत्वं लेभे ज्ञानं च तात्विकम्अतः सर्वे वयं पुत्रा ब्रह्मणस्तं महेश्वरम् ॥३८॥आराधयामः सततं सद्भक्तिज्ञानलिप्सयाअत्र बाणासुरो राजन्नारराध महेश्वरम् ॥३९॥निराहारो वर्षशतं तद्गुणत्वबुभूषयातस्मै प्रसन्नो भगवान्गणत्वं दत्तवान्निजम् ॥४०॥स्वयं च सर्वदा तस्य पुरपालो बभूवहइयं पुरी पुरा राजन्नासीद्विष्णोर्महात्मनः ॥४१॥दत्ता शिवाय तुष्टेन तपसा तस्य विष्णुनाअस्यामेकं पुरावृत्तं महदाश्चर्यकारकम् ॥४२॥विप्रस्य शिवभक्तस्य वैकुंठाप्तिर्यथाभवत्एकस्तु ब्राह्मणो राजन् हेरंबो नाम धार्मिकः ॥४३॥कायेन मनसा वाचा शिवपूजारतः सदाएकदा स महाभागः शिवतीर्थानि पर्यटन् ॥४४॥शिवभक्तः शिवे राजन्शिवकांच्यामिहागतःएनां मनोहरां चैव न तत्याज स बुद्धिमान् ॥४५॥पश्चात्तत्रैव तत्याज प्राणानस्या जलांतरेतत्रैव श्रीमहादेवगणास्तं ब्राह्मणोत्तमम् ॥४६॥नीत्वा कैलासमचलं चेलुस्तदनुशासनात्अथ मध्ये समायाता गणा वैकुंठतो हरेः ॥४७॥तेभ्यो बलात्समादातुं तं द्विजश्रेष्ठमुद्यताःआसीत्तेषां महयुद्धं गणानां हरिशर्वयोः ॥४८॥तत्र युद्धेन वैकेषां विजयो न पराजयःतत्र वैकुंठतो विष्णुरागतो गरुडासनः ॥४९॥कैलासाद्वृषभारूढो महेशश्च त्रिलोकधृक्तावन्योन्यं मुखं दृष्ट्वा विहस्य जगदीश्वरौ ॥५०॥पश्यतस्म महद्युद्धं नभस्येव गणैः कृतम्अथ स्वीयान्गणान्विष्णुः शैवांश्च दिवि युद्धतः ॥५१॥निवार्य तं द्विजं तार्क्ष्यमारोप्यागाच्छिवालयम्शिवेन तद्गणैश्चापि स्वकीयैरपि माधवः ॥५२॥वृतो गछन्पथि श्रीमान्स्तुतस्त्रिदशवंदितःगत्वा विवेश तं चागं महादेवपुरःसरः ॥५३॥तस्मै द्विजाय वै तस्य दर्शयन्रमणीयताम्अथ तस्मात्तु कैलासान्महादेवेन वंदितः ॥५४॥माधवः परया भक्त्या वैकुंठमगमत्तदाद्विजः सोऽपि महाभागस्तीर्थस्यास्य प्रसादतः ॥५५गोविंददर्शनं प्राप्य मुमुदे हरसन्निधौएतत्ते कथितं राजन्शिवकांच्यास्तु वैभवम् ॥५६॥तीर्थसप्तकनाम्नस्तु शृणुष्व सुसमाहितःतीर्थमेतन्महाराज चतुर्वर्गफलप्रदम् ॥५७॥दर्शनात्स्पर्शनाद्ध्यानात्स्मरणादपि भूपतेवसिष्ठादिभिरेतस्मिन्महर्षिभिरनुष्ठितम् ॥५८॥महत्तपस्तु सृष्ट्यर्थं तत्रासंस्तु क्षमा नृपमरीचिरपि धर्मात्मा पुत्रार्थं स्नानमाचरन् ॥५९॥अत्र लेभे महाभागः कश्यपं सुतमुत्तमम्अत्रिरत्रापि तपसा तोषयद्देवपुंगवान् ॥६०॥सोमं दुर्वाससं दत्तं तेभ्यो लेभे सुतत्रयम्अंगिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः ॥६१॥लेभे सुतांस्तुतद्वंश्या जाता आंगिरसा द्विजाःपुलहोऽपि सुतं लेभे दंभोलि गुणवत्तरम् ॥६२॥योऽगस्त्योभूत्पुरा राजंस्तीर्थेऽत्रैव निमज्जनात्पुलस्त्यस्यात्र तीर्थे वै पुत्रो लब्धो तपस्यतः ॥६३॥कुबेरोभून्महाभागो यः सखासीदुमापतेःक्रतोरपि सुता जाता वालखिल्याः सहस्रशः ॥६४॥तीर्थस्यास्य प्रसादेन ते सर्वे ह्यूर्ध्वरेतसःरजआदीन्सुताँ लेभे वसिष्ठोऽपि महातपाः ॥६५॥सप्तैव राजशार्दूल महिमा तस्य वर्णितःअन्यान्यपि च तीर्थानि संत्यनेकानि भूपते ॥६६॥कपिलाश्रमकेदारप्रभासादीनि वै प्रभौनियुतैरपि वर्षाणां तेषां च महिमा नृपअनंतेनापि नो वक्तुं शक्यते किमु मादृशैः ॥६७॥सौभरिरुवाच-एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिपुंगवःशिवं जगाम नभसो नारायणगुणान्गृणन् ॥६८॥शिबिरौशीनरो राजा शक्रप्रस्थस्य वैभवम्श्रुत्वा मुनिमुखाद्राजन्कृतार्थं स्वममन्यत ॥६९॥तत्र स्नात्वा हि विधिवदिंद्रप्रस्थे स भूपतिःविधाय सत्क्रियाः सर्वा जगाम निजपत्तनम् ॥७०॥इंद्रप्रस्थस्य माहात्म्यमेतत्तव मया विभोयमुनातीरतीर्थस्य वर्णितं जनपावनम् ॥७१॥नास्यादरं करिष्यंति कलौ श्रद्धाविवर्जिताःइंद्रप्रस्थस्य राजेंद्र सर्वतीर्थशिरोमणेः ॥७२॥अष्टादशपुराणानां श्रवणाद्भारतस्य चयत्फलं तन्महिम्नस्य शक्रप्रस्थस्य जायते ॥७३॥अरुणोदयवेलायां माघलक्षैकमज्जनात्यत्फलं तन्महिम्नोस्य श्रवणाच्छ्रद्धया भवेत् ॥७४॥श्रद्धयास्य तु माहात्म्यं यः शृणोति महीपतेतर्पितास्तेन पितरो देवाश्च मुनयस्तथा ॥७५॥कृच्छ्रातिकृच्छ्रपाराक चांद्रायण व्रतादिभिःयत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ॥७६॥अश्वमेधादियज्ञानां समस्तानां महीपतेयत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ॥७७॥सूत उवाच-एवं युधिष्ठिरो राजा श्रुत्वा शौनक सौभरेःइंद्रप्रस्थस्य माहात्म्यं स ययौ हस्तिनं पुरम् ॥७८॥ततो विनीय सद्भ्रातॄन्दुर्योधनपुरःसरान्इंद्रप्रस्थमगात्पुण्यं राजसूयचिकीर्षया ॥७९॥द्वारकायाः समागम्य गोविंदं कुलदैवतम्राजसूयेन यज्ञेन स इयाज महीपतिः ॥८०॥मुक्तिदं तीर्थमेतत्तु शपतोस्याप्यजायतइति मत्वा हरिस्तत्र शिशुपालं जघान ह ॥८१॥शिशुपालोऽपि तस्यैव तीर्थस्य मरणाद्भुविसायुज्यमगमत्कृष्णे निखिलार्थप्रदायके ॥८२॥शिशुपालो हतो यत्र विहितो यत्र चक्रतुःगदया तत्र भीमेन कृतं कुंडं सुविस्तरम् ॥८३॥भीमकुंडं तु विज्ञातं जातं तद्भुविपावनम्कालिंद्या दक्षिणे भागे गव्यूत्यर्धं महीतले ॥८४॥इंद्रप्रस्थगताया यत्कालिंद्याः स्नानतः फलम्तत्फलं तत्र कुंडे तु जायते नात्र संशयः ॥८५॥सूत उवाच-यस्मिन्क्षेत्रे स्थितो जंतुस्तं क्षेत्रमनुवत्सरम्प्रदक्षिणादिभिर्धर्मैः स्वापराधान्क्षमापयतेत् ॥८६॥प्रतिसंवत्सरं चैव परिक्रामति यो नरःक्षेत्रापराधदोषैश्च न स लिप्येत्तु पातकैः ॥८७॥प्रदक्षिणमकुर्वाणः क्षेत्रसिद्धिं न विंदतितस्मात्प्रदक्षिणा तीर्थे दातव्या च फलार्थिभिः ॥८८॥हरेर्नाम निसंजल्पन्प्रकरोति प्रदक्षिणाम्पदेपदे स लभते कपिलादानजं फलम् ॥८९॥चैत्रकृष्णचतुर्दश्यां शक्रप्रस्थप्रदक्षिणाम्यः करोति नरो धन्यः सर्वपापैः प्रमुच्यते ॥९०॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये इंद्रप्रस्थगत काशीगोकर्णशिवकांचीतीर्थसप्तक भीमकुंडवर्णनोनाम द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP