संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २१३ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २१३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २१३ Translation - भाषांतर नारद उवाच-एतन्मधुवनं तात शिवे परमपावनम्देवराजाय तुष्टेन स्थापिता विष्णुना पुरी ॥१॥अत्र विश्रांतिनामेदं तीर्थं त्रिभुवनोत्तमम्विविदां मुक्तिदं पुंसां पवनं साधुसेवितम् ॥२॥नित्यं वसति विश्वात्मा विष्णुः श्रीकोलरूपधृक्अत्र तीर्थोत्तमे पुण्ये नृपविश्रांतिसंज्ञके ॥३॥बहुभिर्जन्मभिर्येन विष्णुराराधितः सदामरणं तस्य तीर्थेऽस्मिन्जायते किल भूपते ॥४॥कालिंद्या एव कूले तु द्वितीयं हरिणा कृतम्तीर्थे विश्रांतिसंज्ञं तु यत्र कंसो निपातितः ॥५॥एतद्द्वयं समं राजन्गुणैर्वैकुंठदातृभिःभाग्योदयेन केनापि लभ्यते सकलार्थदम् ॥६॥अथ तीर्थस्य माहात्म्यं कथयामि तवाग्रतःयच्छ्रुत्वा सर्वतीर्थेषु मज्जनाल्लप्स्यसे फलम् ॥७॥हिमाचलोपत्यकायां किरातनगरे शुभेब्राह्मणो नाम कुशलो राजन्नासीद्दरिद्रतः ॥८॥तस्य पत्नी दुराचारा दुराचारनरे रताकर्मणा मोहयामास पतिं सा बंधकी वरा ॥९॥पतिस्तया मोहितस्तु न निवारयितुं क्षमःतदाज्ञा तत्परो दीनः क्रयक्रीतइवाभवत् ॥१०॥लोका उपहरंति स्म तं द्विजं कुलटापतिम्उपहासभयात्सोऽपि निर्ययौ न गृहात् कुधीः ॥११॥महार्हाणि दुकूलानि भूषणानि च सा दधौजारैर्दत्तानि दुष्टात्मा हसितापि न लज्जते ॥१२॥वस्त्रं पुरातनं दास्यादुत्तीर्णं यच्छरीरतःअवज्ञापूर्वकं दुष्टा स्वभर्त्रे संप्रयच्छति ॥१३॥एवं तया कुलटया सोऽवज्ञातं स्वकः पतिःनितांतं दुःखमापन्नो विषमत्त्वामृतो निशि ॥१४॥सा भीता राजतः पापा ह्यनयात्स्वैरिणी तदाअनुयास्यामि भर्त्तारमित्युवाच मृषा वचः ॥१५॥तयैवं शिक्षिता सख्यः स्वकीयस्तां समीपगाःनिवारयामासुरिति कथयित्वा महीपतेः ॥१६॥सख्य ऊचुः -भो मृगाक्षि किमर्थं ते क्रियतेऽनर्थ ईदृशयत्सुवर्णनिभं कायं त्वं नाशयितुमुद्यता ॥१७॥भवत्या किं सुखं दृष्टममुष्या व्यवसायिनःदरिद्रस्यासमर्थस्य सखि स्वोदरपूरिणः ॥१८॥पालयैनं सुतं बालं त्वदृते कोऽस्य पालकःमरिष्यामो वयं सर्वा मृतायां त्वयि सुंदरि ॥१९॥गृहमेतदवेक्षस्व समुत्तिष्ठवराननेजीयादयं तव सुतोयस्त्रीभाविसुखप्रदः ॥२०॥वांछंति बांधवाः सर्वे त्वदीयास्तव जीवितम्उत्तिष्ठ निजबंधूनां कुरु चित्तं समीहितम् ॥२१॥रुदंति तव रागेण वयस्याः सकलाः सतिनिजवाक्यप्रदानेन वारयैताः सुदुःखिताः ॥२२॥नारद उवाच-इत्याकर्ण्य वचस्तासां दुष्टा सा धर्मविश्रुतम्उन्नमय्य मुखं प्राह श्रावयंती स्वबांधवान् ॥२३॥सख्युवाच-युष्माभिर्यद्वचो धर्मं प्रोक्तं जाने ऋतं ननुतथापि स्वपतिः स्त्रीभिर्मान्यो लोकद्वयप्रदः ॥२४॥यदुच्यते मया वाक्यं धर्मशास्त्रसमन्वितम्तद्वचः श्रूयतां सख्यो युक्तं चेदनुमोदत ॥२५॥या स्त्री निधनमापन्नं पतिमन्वेति तत्परापापापि सह तेनैव स्वर्गे वसति सा चिरम् ॥२६॥स्त्रीभिः पतिर्न हातव्यो निर्धनो रोगवानपिजीवन्मृतोऽनुगंतव्यः श्रुतिरेषा सनातनी ॥२७॥विचिंत्येति स्वमनसि सख्योन्वेमि स्वकं पतिम्वर्तिष्यते स्वभाग्येन करिष्येऽहं किमस्य वै ॥२८॥नारद उवाच-इत्युक्तास्तास्तया सख्यो दुष्टा दुष्टमतिप्रदाःऊचुस्तां धर्मवाक्येन समस्तजनमोहिनीम् ॥२९॥सख्य ऊचुः -जहि पूर्वं हि नः सुभ्रु पश्चादन्वेहि वल्लभेसमस्तास्त्वद्वियोगं न वयं सोढुं क्षमामहे ॥३०॥अस्मांस्तव विनिघ्नंत्या अनुयांत्याः स्वकं पतिम्धर्मोऽल्पपापबाहुल्यं स्वर्गप्राप्तिस्तु कीदृशी ॥३१॥जीवन्नयं पतिः स्वीयः साध्वयं प्रतिपालितःयदुक्तं पतिपत्नीभ्यां तत्त्वया विहितं सखी ॥३२॥यावत्स्वजीवनोपायं विधातुमयमक्षमःतावत्त्वदीयभाग्येन जीविष्यति सुतस्तव ॥३३॥नारद उवाच-इत्युक्ता सा निववृते स्वभर्त्तुरनुयानतःसुतेन कारयामास तदा तद्विरतिक्रियाम् ॥३४॥अथ कालेन कियता सुतोपनयने मतिम्कारयामास सा विप्रैर्दत्त्वा जारार्पितं धनम् ॥३५॥कृतोपनयनः कुंडः स तत्त्वज्ञानवान्शिशुःगृहान्निर्गम्य सपदि नारायणपरोऽभवत् ॥३६॥सतां संगतिमासाद्य त्यक्त्वा स्वं प्राकृतं वपुःआरुरोह निजं लोकमप्राप्यं योगिभिश्च तत् ॥३७॥अथ सा निर्गते पुत्रे मनो दुःखं चकार वैतस्मिन्नेव दिने राजन्भूयो जारैः सहारमत् ॥३८॥इति तै रममाणायां तस्यां जारैः समं नृपसमागता जरा काले लावण्यमदनाशिनी ॥३९॥त्यक्तोपपतिभिर्दृष्टा सा जराग्रस्तविग्रहाबभूव दूतिकान्यासं कुलशीलविनाशिनी ॥४०॥तदा ह्येकस्य विप्रस्य सवत्सां गामपाहरत्विक्रीता कियता राजन्द्रव्येण ननु सा तया ॥४१॥तयेति गमितः कालो दूतित्वेन कियान्नृपपश्चाच्छुष्करशरीरोऽस्या विगुणः समजायत ॥४२॥तस्याः कुष्ठे समुत्पन्ने गलितं ह्यंगपंचकम्हस्तौ पादौ च नृपते पंचमा नासिका तदा ॥४३॥एवंभूता यदाहारं न लभेत कुतश्चनतदा तु तत्रोदितया दास्या सा नीयता पणम् ॥४४॥तत्र सा पतिता पापा लोकान्संप्रार्थ्य दीनयागिरा धिगिति कुर्वाणा चक्रे स्वोदरपूरणम् ॥४५॥तदिहाभ्यासवर्त्त्ये को द्विजः सर्वागमार्थवित्तां विलोक्य महावाग्मी प्रोवाचेदं वचो नृप ॥४६॥जनानां दुःखदं पापमिहलोके परत्र चतस्मात्पापं न कर्त्तव्यं मानवैर्दुःखभीरुभिः ॥४७॥पापं कृत्वा जनो यस्तु प्रायश्चित्तं करोति वैन तदाचरिते भूयो न तत्फलमवाप्नुयात् ॥४८॥यः कृत्वा मुहुरेनांसि प्रायश्चित्तं करोति नतस्यास्या इव पापाया गतिरत्र परत्र च ॥४९॥अनया पापसंघातो लोकेऽत्र समुपार्जितःइहैव तत्फलं भुंक्ते भोक्ष्यते नरकेऽप्यसौ ॥५०॥सर्वशास्त्रेषु दृष्टं वै सर्वेषां पापकर्मणाम्प्रायश्चित्तं न च स्त्रीणां विन्मुखानां तु कर्मणः ॥५१॥नारद उवाच-इत्युक्त्वा स द्विजश्रेष्ठो नमस्कृत्य रविं ययौविष्णुं संस्मृत्य संस्मृत्य भीतस्तदवलोकनात् ॥५२॥एवं सा दुःखमापन्ना भुंजाना कर्मणः फलम्अर्जितस्य स्वयं राजन्मृता कतिपयैर्दिनैः ॥५३॥न तस्या अग्निसंस्कारः संजातः पापकर्मणःआकृष्य केशे सा नीता श्वपचैर्नगराद्बहिः ॥५४॥मरणावसरे तस्या यमभृत्याः समागताःप्रापप्य यातनादेहं तां निन्युर्भास्करेः पुरीम् ॥५५॥सौम्यः सधर्मिणां देवः साक्षाद्गुह्यस्तु पापिनाम्तस्या विलोकनाद्भूयः सोप्यभूद्वै पराङ्मुखः ॥५६॥भृत्यानाज्ञापयामास यम एव पराङ्मुखःरौरवे नरके घोरे पात्यतां सा मयेरिता ॥५७॥इत्युक्तास्ते तदा भृत्या नीत्वा तां घोररौरवेन्यपातयन्नधोववक्त्रां स्मरंतीं कर्म यत्कृतम् ॥५८॥एकमन्वंतरं यावत्सा स्थित्वा तत्र रौरवेपश्चाद्गोधा समुत्पन्ना श्मशाने मृतमांसभुक् ॥५९॥तत्रापि सा वर्षशतं लेभे दुःखं स्वकर्मणःफलं मृतकमांसे कुर्वत्याहारमुत्कटम् ॥६०॥एकदा स मुनेः पुत्रो योऽस्या कुक्षौ व्यजायतविप्रयोनौ समायातः श्मशाने तत्र पर्यटन् ॥६१॥मुनिपुत्रस्तु तां वीक्ष्य मृतानां क्रव्यमश्नतीम्ध्यात्वा क्षणं स्वमनसि बुबुधे तां स्वमातरम् ॥६२॥स उवाचात्मनात्मानं बुद्ध्वा तां निजमातरम्मुनिपुत्र उवाच-एतां तु तारयाम्यद्य दुस्तराद्दुःखवारिधेः ॥६३॥अहो न मुच्यते जंतुर्जातपापेन कर्मणाआत्मनोपार्जितेनैव भोगकालावधिं विना ॥६४॥अस्याः कालो व्यतीयाय निरये मानवाभिधःसांप्रतं च जनैस्त्वत्र वत्सराणां शतं गतम् ॥६५॥कियदग्रे च भोक्तव्यमेतया पापमुल्बणम्नारद उवाचइत्यालोच्य पुनर्दध्यौ ज्ञानेनामील्य चक्षुषी ॥६६॥दृष्ट्वा तस्या गतिं घोरां पापाया दिव्यचक्षुषापुनरात्मानमादेहं स द्विजप्रवरो नृप ॥६७॥मुनिपुत्र उवाच-अहो कल्पशतेनापि निस्तारोऽस्या न दृश्यतेविना सत्तीर्थमरणं शरणं वा रमापतेः ॥६८॥अथवा पिंडदानेन गयायां मत्कृतेन चविनास्याः सद्गतिं नैव कल्पकोटिशतैरपि ॥६९॥न घटेत द्वयं चास्या अस्यां योनौ कदाचनतत्तीर्थविषये मृत्युः सेवायां श्रीपते रतिः ॥७०॥अस्या उद्धारहेतुर्वै मग्नायाः पापसागरेभविता मत्कृतं श्राद्धं गयाया च हित्रकम् ॥७१॥नारद उवाच-इत्यालोच्य स धर्मात्मा ययौ स्वपितुराश्रमम्आचख्यौ पितरं सर्वं स्वमातुर्दुःखकारणम् ॥७२॥निशम्य पुत्रवचनं मातृदुःखनिवेदकम्उवाच स मुनिश्रेष्ठः पुत्रं प्रणतकंधरम् ॥७३॥मुनिरुवाच-हे तात मातरं स्वीयां शीघ्रमुद्धर दुर्गतेःनयविद्भूपतिः शत्रोर्जयलक्ष्मीमिवाहवे ॥७४॥न तारयति यः पुत्रो मातरं पितरं स्वकम्दुःखात्स याति नरकं यदि तारयितुं क्षमः ॥७५॥स्वपुत्रात्प्राप्य पानीयं पिंडाश्च वरतीर्थकेपितरो नरकात्स्वर्गं स्वर्गाद्यांति हरेः पदम् ॥७६॥तस्मादाशु समुत्तिष्ठ गच्छ खांडवकाननेतत्रास्ति यमुना पुण्या मुनिवर्यनिषेविता ॥७७॥तत्तीरेऽस्ति हरिप्रस्थं सर्वतीर्थमयं ततःपुण्यं मधुवनं तत्र विष्णुना स्थापितं स्वयम् ॥७८॥तत्र स्नात्वा तु विधिवत्कृत्वा नित्यक्रियां निजाम्तामुद्दिश्य कुरु श्राद्धं स्वप्रसूं च कुरु क्रियाम् ॥७९॥त्वया तत्र कृते श्राद्धे तस्याः सद्गतिमिच्छतासा प्राप्स्यति हरेर्लोकं हित्वा गोधांगमुल्बणम् ॥८०॥गयायां पिंडदानेन यत्फलं तात जायतेततः शतगुणं पुण्यं सद्भिर्मधुवने स्मृतम् ॥८१॥इदानीं वर्तते तात कन्याराशिगतो रविःपुत्र गत्वा कुरु श्राद्धं पूर्वानुद्दिश्य बांधवान् ॥८२इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये त्रयोदशाधिकद्विशततमोऽध्यायः ॥२१३॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP