संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ५

उत्तरखण्डः - अध्यायः ५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
कः पितृव्यः सिंधुसूनोः किं वृत्तं तस्य विग्रहे
युयुधे स कथं दैत्यस्तन्मे कथय नारद ॥१॥
नारद उवाच-
शृणु त्वं नृपशार्दूल पितृव्यः क्षीरसागरः
जालंधरस्य तं देवैः प्रमथ्य धनमाहृतम् ॥२॥
श्रीचंद्रामृतनागाश्वपूर्वं तस्य सुरासुरैः
तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालंधरोऽसुरः ॥३॥
कदाचित्प्रेषयामास दूतं दुर्वारणं बली
शिक्षयित्वा तु वक्तव्यं देवेंद्रभवनं प्रति ॥४॥
अथ स्यंदनमारुह्य ययौ दुर्वारणो दिवि
प्रवेष्टुकामो भवनं द्वारस्थैर्द्वारि निवारितः ॥५॥
दूत उवाच-
जालंधरस्य दूतोऽहं आगतः शक्रसंनिधौ
गत्वा तत्र भवंतो मां विज्ञापयितुमर्हथ ॥६॥
इति तस्य वचः श्रुत्वा तदैव तु शचीपतिम्
गत्वा च प्रणिपत्याह दूतो देवागतो भुवः ॥७॥
दौवारिको महेंद्रेण प्रत्युक्तो दूतमानय
हस्ते गृहीत्वा तं दूतं वासवांतिकमानयत् ॥८॥
दुर्वारणो देवसभां प्रविष्टः प्रव्यलोकयत्
हरिं देवैस्तु यस्त्रिंशत्कोटिभिः परिवेष्टितम् ॥९॥
स्वर्णसिंहासनं दिव्यं चामरानिलसेवितम्
शचीप्रेमरसोत्फुल्लनयनाब्जसहस्रकम् ॥१०॥
दुर्वारणोऽथ देवेशं विलोक्य गुरुणा सह
प्रणनामात्मगर्वेण प्रहसन्नयनश्रियम् ॥११॥
निर्दिष्टमासनं भेजे दूतो जालंधरस्य सः
कस्य त्वं केन कार्येण प्राप्तः प्राहेति तं हरिः ॥१२॥
दूतो जालंधरस्याहं स जगाद पुरंदरम्
स राजा सर्वलोकानां तस्याज्ञां शृणु मन्मुखात् ॥१३॥
पितृव्यो मम दुग्धाब्धिस्त्वया कस्माद्विलोडितः
मंदराद्रिविधानेन हृतं कोशं महाधनम् ॥१४॥
श्रीचंद्रामृतनागाश्वं तन्मणिं विद्रुमादिकम्
देहि सर्वं तथा स्वर्गं शीघ्रं त्यज पुरंदर ॥१५॥
स त्वं मद्वचनात्तूर्णं कुरु सर्वं यथोचितम्
तं क्षमापय भूपाल यदि जीवितुमिच्छसि ॥१६॥
अथ प्रहस्य मघवा प्राह दुर्वारणं प्रति
शृणु दूत समासेन सिंधोर्मथनकारणम् ॥१७॥
पुरा हिमवतः सूनुर्मैनाको नाम मे रिपुः
स कुक्षौ विधृतस्तेन सागरेण जडेन च ॥१८॥
दग्धं चराचरं येन वह्निना हयरूपिणा
स चापि विधृतस्तेन सागरेण दुरात्मना ॥१९॥
धर्मद्विषां दानवानामसौ वै आश्रयः प्रभुः
नित्यं दधि घृतं क्षीरं दानवेभ्यः प्रयच्छति ॥२०॥
अतएवायमस्माभिः दुर्वारण विलोडितः
दंडितश्च गतश्रीको देवैरथ पुरातनैः ॥२१॥
शृणु दूत सबंधेन मम विप्रेण शोषितः
कुंभोद्भवेन किंचैष दुःसंगे नैव बाध्यते ॥२२॥
सोऽपि युद्धार्थमस्माभिः सर्वसैन्येन संवृतः
आगमिष्यति वै नाशं गमिष्यति तदैव हि ॥२३॥
इतीरयित्वा विरराम वृत्रहा सरित्पतेरात्मजदूतमुच्चकैः
शशंस चागत्य समुद्रसूनोर्देवेश्वरेणोक्तमशेषमादितः ॥२४॥
नारद उवाच-
महेंद्र वचनं श्रुत्वा निजदूतमुखेन च
समुद्रसूनुः संक्रुद्धः सर्वं सैन्यं समाह्वयत् ॥२५॥
रसातलस्थिता दैत्याः ये च भूतलवासिनः
आययुः सबलास्तत्र जालंधरमथाज्ञया ॥२६॥
प्रयाणप्रक्रमे सिंधुसूनोः सैन्यस्य गर्जितैः
स्फुटंति नभसो राजन्पातालमखिला दिशः ॥२७॥
हयनागोष्ट्रवदना बिडालमुखभीषणाः
व्याघ्रसिंहाखुवदना विद्युत्सदृशलोचनाः ॥२८॥
सर्पकेशा महादेहाः केचित्खङ्गतनूरुहाः
अन्ये च परिधावंति गर्जंति जलदस्वनैः ॥२९॥
रथगजहयपत्तिसंकुलं समरविनोदकदंब भासुरम्
अब्जशतसहस्रकोटिनायकं बलमखिलं च तदा रराज राजन् ॥३०॥
शतयोजनविस्तीर्णं विमानं हंसकोटिभिः
युक्तं भूतिसहस्रौघं सर्ववस्तुप्रपूरितम् ॥३१॥
तद्विमानं समारुह्य सद्यो जालंधरो ययौ
मध्याह्ने मंदरं प्राप्तः प्रथमेऽह्नि बलैः सह ॥३२॥
खंडितं शिबिकावाहैर्दलितं भूरिकुंजरैः
द्वितीये दिवसे मेरुं संप्राप्तो बलसंयुतः ॥३३॥
इलावृत्ते तु शिखरे तस्थौ तत्कटकं महत्
अथ दैत्याधिपैर्भग्नं खांडवं नंदनं वनम् ॥३४॥
शिखराणि विशीर्णानि मेरोर्दानवपुंगवैः
संतानकेषु वृक्षेषु बद्धा हिंदोलमंचकान् ॥३५॥
सिद्धांगनाभिः सहिता रेमिरे दैत्यपुंगवाः
कुचकुंकुमतांबूल चंदनागरुभूषणैः ॥३६॥
केशपाशच्युतैः पुष्पैः मेरोः संपूरिता नदी
सुमेरोः पूर्वदिग्भागो गजैस्तस्य विघट्टितः ॥३७॥
दक्षिणं च रथैश्चेरुरुत्तरं पश्चिमं भटैः
अथ प्रस्थापयामास दैत्याञ्जालधरोऽसुरः ॥३८॥
महेंद्रशिखरं चान्ये ययुर्दुंदुभिनिःस्वनैः
राजराजपुरीं भंक्त्वा यमस्य वरुणस्य च ॥३९॥
अन्येषां लोकपालानामाययुस्तेऽमरावतीम्
अथोत्पाताभवन्नाके दिव्यभौमांतरिक्षगाः ॥४०॥
रजः पपात बहुलं तमस्तोमो विजृंभते
तदा पपात कुलिशं करादिंद्रस्य निष्प्रभम् ॥४१॥
दृष्ट्वा निमित्तानि भयावहानि नाके महेंद्रो गुरुमित्युवाच
किं कुर्महे कं शरणं च यामस्तं पश्य युद्धं समुपस्थितं च ॥४२॥
ततो वाचस्पतिर्वाक्यमुवाच त्रिदशाधिपम्
चरणौ पाहि शरणं विष्णोर्वैकुंठवासिनः ॥४३॥
इत्युक्तो गुरुणा देवैः साकं वैकुंठमंदिरम्
जगामाखंडलः शीघ्रं शरणं कैटभद्विषः ॥४४॥
शशंस वासुदेवाय विजयो द्वारपालकः
जालंधरभयत्रस्ताः सर्वे देवाः समागताः ॥४५॥
श्रीरुवाच-
न वध्योऽसौ मम भ्राता देवार्थे युध्यता त्वया
शापितो देव मत्प्रीत्या वधार्हो न भविष्यति ॥४६॥
इति श्रीवचनं श्रुत्वा विष्णुस्त्रैलोक्यपालकः
अथारुरोह गरुडं पक्षक्षेपावृतांबरम् ॥४७॥
वैकुंठभवनात्तूर्णं निर्गतस्त्रिदशान्हरिः
जालंधरभयत्रस्तान्गतकांतीनथैक्षत ॥४८॥
ददृशुस्ते सुराः सर्वे हरिं सांद्रघनोपमम्
शार्ङ्गशंखगदापद्मविभूषितचतुर्भुजम् ॥४९॥
स्तोत्रं पठित्वा पुरतः प्राहेंद्रः सरितांपतेः
जालंधरेणात्मजेन भग्नं देव त्रिविष्टपम् ५०॥
तदिंद्रवचनं श्रुत्वाऽभयं दत्वा दिवौकसाम्
विजेतुमसुरं देवैः सह रेजे सुरांतकृत् ॥५१॥
अथानीतं मातलिना रथमारुह्य वासवः
वासुदेवस्य पुरतः प्रययौ विधृताशनिः ॥५२॥
वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ
स्वाहाप्रियो दक्षिणतः स च मेषं समास्थितः ॥५३॥
आरुह्यैरावतं नागं जयंतः शक्रनंदनः
उच्चैःश्रवसमिंद्रश्च उभौ भगवतः पुरः ॥५४॥
धातार्यमा च मित्रश्च वरुणोंशो भगस्तथा
इंद्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ॥५५॥
ततस्त्वष्टा ततो विष्णू रेजे धन्यो जघन्यजः
इत्येते द्वादशादित्या इंद्रस्य पुरतः स्थिताः ॥५६॥
वीरभद्रश्च शंभुश्च गिरिशश्च महायशाः
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥५७॥
भुवनाधीश्वरश्चैव कपाली च विशांपते
स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः ॥५८॥
श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा
प्राणापानौ सजीवौ च मरुतोऽष्टौ तदग्रतः ॥५९॥
विवस्वानपि तन्मध्ये ययौ द्वादशमूर्तिभिः
धनदः शिबिकारूढः किंनरेशो ययौ तदा ॥६०॥
रुद्राश्च वृषभारूढा मारुतो मृगवाहनः
ययुः सैन्यस्य पुरतः त्रिशूलपरिघायुधाः ॥६१॥
गंधर्वाश्चारणा यक्षाः पिशाचोरग गुह्यकाः
सर्वसैन्यस्य पुरतः सर्वशस्त्रभृतो ययुः ॥६२॥
पूर्वापरौ तोयराशी समाक्रांतौ च सैनिकैः
तस्मिन्ससार भूमिराट्वराहवपुषा हरिः ॥६३॥
स्वर्गादागत्य वेगेन दैत्यसैन्यजिघांसया
सुमेरोरुत्तरो भागः सुरसैन्येन संवृतः ॥६४॥
सेनाभारोद्भुतकरस्तस्थौ जालंधरस्य च
आश्रित्य दक्षिणं भागं तूर्णं कनकशृंगतः ॥६५॥
अहोरात्रेण विहिता वर्षे तस्मिन्निलावृते
मेरुमंदरयोर्मध्ये युद्धभूमिः प्रतिष्ठिता ॥६६॥
तत्रात्मजयदां भूमिं कविप्रोक्तां मुदायुताः
जग्मुस्ते दानवास्तूर्णं गुरुप्रोक्तां ययुः सुराः ॥६७॥
रथप्रवीरैः परितश्च संप्लवैर्गजैर्घनाकारमदप्रवाहिभिः
अश्वैरनंतैर्गरुडाग्रगामिभिः पदातिभिः सारणभूर्भृता बभौ ॥६८॥
ततो वादित्रनिर्घोषः सेनयोरुभयोरभूत्
कोलाहलश्च वीराणामन्योन्यमभिगर्जताम् ॥६९॥
अथ दानवदेवानां संग्रामोऽभूद्भयावहः
सर्वसैन्यस्य संमर्दो यथा त्रिभुवनक्षयः ॥७०॥
भयक्रांता महाश्रांता श्रुतिर्विलपती मुहुः
स्वरथाकाररहितं शरैः संपूरितं तदा ॥७१॥
रोमांचिता बभौ द्यौश्च रजोवस्त्रं विधुन्वती
रौद्रैर्विहंगमारावैस्त्रासादाक्रंदतीव हि ॥७२॥
देवेंद्रेण तदाज्ञप्ता मेघाः संवर्तकादयः
गजानुच्चैः समारुह्य तेऽसुरान्युयुधुर्मृधे ॥७३॥
देवानामश्वारोहाश्च जाता गंधर्वकिन्नराः
रथिनः साध्यसिद्धाश्च गजिनो यक्षचारणाः ॥७४॥
पदातिनः किंपुरुषाः पन्नगाः पवनाशनाः
रोगाणामधिपो राजन्यक्ष्मा च यमनायकः ॥७५॥
तत्र दानवरोगाणां संग्रामोऽभूत्सुदारुणः
पतिता लुलुठुर्भूमौ दैत्याः शूलज्वरामयैः ॥७६॥
दानवैर्निहता रोगाः पेतुः समरमूर्द्धनि
पलायांचक्रिरे केचित्व्याधयो भूधरान्प्रति ॥७७॥
औषध्यस्तत्र सहजा वैशल्यकरणीमुखाः
ताभिर्विशल्याः सैन्येषु युयुधुर्यमकिंकराः ॥७८॥
दानवैर्निहताः सर्वे शरमुद्गरपट्टिशैः
पदातयः पत्तिगणैः खङ्गैस्तीक्ष्णैः परश्वधैः ॥७९॥
कोटिशो जघ्नुरन्योन्यं रुधिरारुणविग्रहाः
अश्वचारा हयैस्तूर्णैश्चिक्षिपुर्गगने तदा ॥८०॥
संश्लिष्य जघ्नुरन्योन्यं रुधिरारुणविग्रहाः
समूहो रथिनां भीमो रथौघैश्छाद्य मेदिनीम् ॥८१॥
विव्यधुर्निशितैर्बाणैर्धनुर्मुक्तैर्महारथान्
मदक्षीणकपोलांगाः करैर्बद्धा करान्दृढम् ॥८२॥
गजान्प्रतिगजाः क्रुद्धाः पातयंति महीतले
कोपि दैत्यो रथं दोर्भ्यामुत्क्षिप्योत्थाय खं ययौ ॥८३॥
अश्वचारान्हयान्नागान्पातयामास भूतले
स्कंधे गृहीत्वा तरसा ययौ जालंधरं प्रति ॥८४॥
कक्षयोर्वै गजौ गृह्य तृतीयं जठरोपरि
चतुर्थं मस्तके गृह्य रणे धावति कश्चन ॥८५॥
उत्पाट्य कोशतः खङ्गं विधूय विमलांबरम्
ययौ सहस्रशो देवान्पातयित्वा रणेऽसुरः ॥८६॥
काचित्पीनस्तनी तन्वी खेचरीरति लंपटा
आगत्य गगनात्तूर्णं निन्ये दैत्यं रणांगणात् ॥८७॥
चुचुंब सा तद्वदनं तीक्ष्णनाराचकीलितम्
देवसैन्यं ततो बद्ध्वा कालनेमिर्ननर्त्त ह ॥८८॥
ततो जनार्दनः क्रुद्धो निर्ययौ कालनेमिनम्
यमो दुर्वारणं वीरं स्वर्भानुश्चंद्रभास्करौ ॥८९॥
केतुं वैश्वानरो देवो ययौ शुक्रं बृहस्पतिः
आश्विनौ संयतौ तत्र दैत्यमंगारपर्णकम् ॥९०॥
संह्रादं शक्रपुत्रश्च निर्ह्रादं धनदो ययौ
निशुंभश्चावृतो रुद्रैः शुंभो वसुभिराहवे ॥९१॥
मेघाकारं स्थितं जंभं विश्वेदेवाः समाययौ
वायवो वज्ररोमाणमथ मृत्युर्मयं ययौ ॥९२॥
नमुचिं वासवो व्यग्रं शक्तिहस्तोऽभ्यधावत
अन्यैरपि सुरैर्दैत्याः स्वस्ववीर्यसमैर्वृताः ॥९३॥
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे युधिष्ठिरनारदसंवादे देवदानवयुद्धंनाम पंचमोध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP