संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २२४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २२४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २२४ Translation - भाषांतर दिलीप उवाच-भगवन्सर्वमाचक्ष्व हरिभक्तिसुधामयम्शृण्वतो नैव तृप्तिर्मे विष्णुभक्तिं सुखावहाम् ॥१॥तापत्रयमहाज्वाला वह्निभिः सततं नृणाम्संतप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् ॥२॥विना किमन्यच्छरणं भवारण्ये भयानकेआचक्ष्व विस्तरेणाथ भक्तिभेदान्महामुनेउपास्यमानान्सततं मुनिभिः परमात्मनः ॥३॥वसिष्ठ उवाच-साधु पृच्छसि राजेंद्र संसारोत्तारणं नॄणांवैकुंठस्य परेशस्य भक्तिं नित्यसुखावहाम् ॥४॥इममेवं महाप्रश्नं कैलासशिखरे पुरापप्रच्छ गिरिजादेवी शंकरं लोकपूजितम् ॥५॥पार्वत्युवाच-देवदेव महादेव त्रिपुरघ्न सुरेश्वरविष्णुभक्तिं ममाचक्ष्व मुक्तिदां सर्वदेहिनाम् ॥६॥उपास्यभेदान्मंत्रांश्च तस्य पूजाविधींस्तथातस्य विष्णोः स्वरूपं च तद्विभूतिर्गुणादिकम् ॥७॥तस्य लोकस्वरूपं च यं प्राप्य न निवर्ततेसर्गस्थितिलयं येन करोति भगवान्हरिः ॥८॥यद्गत्वा न निवर्तंते तद्धामपरमं हरेःयेन केन च कृत्येन साधनेन परं पदम् ॥९॥प्राप्नुवंति नराः पापा विषयासक्तचेतसःविस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः ॥१०॥वसिष्ठ उवाच-इति पृष्टो महादेव्या हरस्त्रिपुरहा तदाउवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ॥११॥रुद्र उवाच-साधुसाधु महादेवि सर्वलोकहितैषिणिसाधु पृच्छसि मां देवि श्रीशमाहात्म्यमुत्तमम् ॥१२॥धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वतिपरितुष्टोऽस्मि ते भद्रे शीलरूपगुणैः सदा ॥१३॥अथ वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमाम्तन्मंत्राणां विधानं च स्वरूपं तस्य शार्ङ्गिणः ॥१४॥तत्वं नारायणो विष्णुर्वासुदेवस्सनातनःपरमात्मा परं ब्रह्म परं ज्योतिः परात्परः ॥१५॥अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरःनित्यः सर्वगतः स्थाणू रुद्रस्साक्षी प्रजापतिः ॥१६॥यज्ञो यज्ञपतिः साक्षाद्ब्रह्मणः पतिरेव चहिरण्यगर्भं सविता लोककृल्लोकभृद्विभुः ॥१७॥अकारवाच्यो भगवान् श्रीभू नीलापतिः प्रभुःउतामृतत्वस्येशानो यदन्नेनातिरोहति ॥१८॥सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात्स भूमिं सर्वतः स्पृत्वा ह्यत्यतिष्ठद्दशांगुलम् ॥१९॥अनंतः श्रीपती रामो गुणभृन्निर्गुणो महान्सर्वलोकेश्वरः श्रीमान्सर्वज्ञः सर्वतोमुखः ॥२०॥तस्य लोकप्रधानस्य जगन्नाथस्य पार्वतिमाहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते ॥२१॥अशक्यं तन्मया वक्तुं ब्रह्मणा सह दैवतैःसर्वोपनिषदामर्थं वेदांते परिनिश्चितम् ॥२२॥तस्योपासनभेदांश्च शृणु वच्मि पुनः पृथक्आद्यंतु वैष्णवं प्रोक्तं शंखचक्रांकनं हरेः ॥२३॥धारणं चोर्ध्वर्पुंड्राणां तन्मंत्राणां परिग्रहःअर्चनं च जपोध्यानं तन्नामस्मरणं तथा ॥२४॥कीर्तनं श्रवणं चैव वंदनं पादसेवनम्तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥२५॥तदीयानां च सेवाञ्च द्वादशीव्रतनिष्ठितम्तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥२६॥भक्तिः षोडशधा प्रोक्ता भवबंधविमुक्तयेसर्वेषामेव देवानां ममापि पुरुषोत्तमः ॥२७॥पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतःतस्मात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् ॥२८॥तच्चिह्नैरंकितः श्रीशपदंप्राप्नोत्यसंशयम्शंखचक्रांकनं कुर्याद्ब्राह्मणो बाहुमूलयोः ॥२९॥हुताग्निनैव संतप्य सर्वपापापनुत्तयेचक्रं वा शंखचक्रे वा तथा पंचायुधानि वा ॥३०॥धारयित्वैव विधिवद्व्रह्मकर्मसमारभेत्अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः ॥३१॥त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम्चक्रचिह्नविहीनस्तु यः पूजयति केशवम् ॥३२॥तत्सर्वं विफलं याति पूजामंत्रजपादिकम्अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ॥३३॥अंकयित्वा जपन्मंत्रं संसारान्मोक्षमाप्नुयात्सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ॥३४॥उपनीय विधानेन पश्चात्कर्मसु योजयेत्विष्णुचक्रविहीनं तु य श्राद्धे भोजयिष्यति ॥३५॥व्यर्थं भवति तत्सर्वं निराशाः पितरो गताःविष्णुचक्रांकितं विप्रं पूजयेच्छ्राद्धकर्मणि ॥३६॥विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेत्दद्याद्गोभूहिरण्यादि चक्रांकितभुजाय वै ॥३७॥यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वैअग्नितप्तेन चक्रेण बाहुमूले तु लांछिताः ॥३८॥सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम्हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ॥३९॥तस्य तीर्थानि यज्ञाश्च संप्राप्ता नात्र संशयःअधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥४०॥न तस्य किंचिदश्नीयादपि क्रतुसहस्रिणःअधृत्वा विधिना चक्रं ब्राह्मणो ज्ञानदुर्लभः ॥४१॥गर्हितस्सर्वलोकेषु ब्राह्मण्यात्प्रच्युतो भवेत्शङ्खचक्रधरो देवो हरिः पूज्यो यथात्मभिः ॥४२॥तथैव सर्वैस्संपूज्यो विप्रश्चक्रादिचिह्नितःसर्ववेदविदो वापि सर्वशास्त्रविशारदः ॥४३॥अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत्ऊर्द्ध्वपुंड्रविहीनस्तु शंख चक्रविवर्जितः ॥४४॥तं गर्दभे समारोप्य बहिः कुर्यात्स्वपत्तनात्प्रकृतिस्पर्शरहितो वासुदेवो जनार्दनः ॥४५॥तथैव ब्राह्मणो देवि विष्णुचक्रेण चिह्नितःतस्मात्प्रकृतिसंसर्गपापौघदहनं हरेः ॥४६॥प्रतप्तं बिभृयाच्चक्रं शंखं च भुजमूलयोःस्त्रीशूद्राणां सदा धार्य्ये चंदनेन सुगंधिना ॥४७॥बाहुमूले लिखेच्चक्रं तप्तं तु ब्राह्मणस्य वैतप्तेनैवांकनं कुर्याद्ब्राह्मणस्य विधानतः ॥४८॥श्रौतस्मार्त्तादिसिद्ध्यर्थं मंत्रसिद्ध्यै तथैव चहरेः पूजाधिकारार्थं चक्रं धार्यां विधानतः ॥४९॥वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव चप्रतपेच्चक्रशंङ्खाभ्यां हुत्वा होमं विधानतः ॥५०॥अन्यैर्न दाहयेद्गात्रं ब्राह्मणो हरिलांछनात्शंखचक्रगदाखड्गशार्ङ्गादन्यैर्हरेरपि ॥५१॥लक्षणेन दहेद्देहं नान्यदग्धोर्हतिक्रियाम्अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ॥५२॥श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम्वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥५३॥तस्मात्तु विधिना चक्रं धार्यं विप्रैः शुभाननेब्राह्मणा मंत्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये ॥५४॥अप्राकृतामहात्मानो विष्णुचक्रेण लांच्छिताःविष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृताः स्मृताः ॥५५॥सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतःविधिना वैष्णवं चक्रं धार्यं हि श्रुतिनोदनात् ॥५६॥दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम्वामे तु शंखं बिभृयादिति ब्रह्मविदो विदुः ॥५७॥एवम्महोपनिषदि प्रोक्तं चक्रादिधारणम्तथैव साम्नि यजुषि ऋचि प्रोक्तं शुभानने ॥५८॥प्र ते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राःमूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्येन्ये तावकान्यर्पयन्ति ॥५९॥चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम्तेन चक्रेण सन्तप्तास्तरेयुः पातकाम्बुधिम् ॥६०॥पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेस्सदाते नातप्ततनूर्येषां न ते यान्ति परं पदम् ॥६१॥तेन तप्ता तनूर्येषां ते प्रयांति परं परदम्पवित्रचरणं नेमिर्हरेश्चक्रं सुदर्शनम् ॥६२॥वासवं सामसहस्रारं प्राकृतघ्नं लोकद्वारं महौजसम्नामानि विष्णुचक्रस्य पर्यायेण निबोध मे ॥६३॥शुद्धेन वह्नितप्तेन ब्रह्मत्वेन पुनीहि नःयत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ॥६४॥येन देवाः पवित्रेण आत्मानं पुनते सदातेन सहस्रधारेण पावमान्यः पुनंतु माम् ॥६५॥प्रजापत्यं पवित्रं तु शतोद्यामं हिरण्मयम्वयं ब्रह्मविदस्तेन पूतं ब्रह्म पुनीमहे ॥६६॥सनेमिचक्रमजरं चक्षुरस्य महात्मनःअस्मिन्हि विधृते देवा महोन्नतपद ययौ ॥६७॥तस्माद्वै विधिवद्धार्याः शंखचक्रादिहेतयःब्राह्मणानां विशेषेण वैष्णवानां विशेषतः ॥६८॥धृतोर्द्ध्वपुंड्रः कृतचक्रधारी विष्णोः पदं ध्यायति यो महात्मास्वरेणमंत्रेण सदा हृदिस्थं परात्परं याति विशुद्धचेताः ॥६९॥ये कंठलग्नतुलसी नलिनाक्षमाला ये बाहुमूलपरिचिह्नितशंखचक्राःये वा ललाटफलके लसदूर्ध्वपुंड्रास्ते वैष्णवा भुवनमाशु पवित्रयंति ॥७०॥दिवस्पतेः सुविततं पवित्रं ये तु रक्षिणःन वहंति भुजे सम्यक्न हि शोचंति जन्तवः ॥७१॥ये वहंति भुजे चक्रं सस्थिरं विधिना द्रुतम्परं व्योम्नि तु ते स्थानमधितिष्ठन्ति तेजसा ॥७२॥होमाग्निसंतप्तपवित्रलांछिता मूले तु बाह्वोः परमात्मनो हरेःसंतारयित्वा भवसागरं महच्छुद्धं परं याति परेशलोकम् ॥७३॥अङ्कयेत्तप्तचक्राद्यैरात्मनो बाहुमूलयोःकलत्रापत्यभृत्येषु पश्वादिषु च अङ्कयेत् ॥७४॥इत्येवं श्रुतयस्सर्वाः कथयंति वराननेतथैव सेतिहासेषु पुराणेष्वपि कथ्यते ॥७५॥द्विविधं वैष्णवं प्रौक्तं बाह्यमाभ्यंतरं तथाशंखचक्रादिभिर्बाह्यमांतरं वीतरागता ॥७६॥बाह्याभ्यंतरसाम्यं यत्तद्वैष्णवमुदाहृतम्तस्माच्चक्रादिचिह्नं तु प्रथमं वैष्णवं स्मृतम् ॥७७॥आंतरं स्मरदोषादि विमुक्तं स्वात्मदर्शनम्सर्वभूतदयाशांतिरिंद्रियार्थेष्वलोलता ॥७८॥पुत्रदाराद्यसंगत्वं योगाभ्यासरतिस्तथाअनन्यभक्तियोगेन परेशस्याभिषेवणम् ॥७९॥तस्माच्चक्रादिहेतीनामंकनं वैष्णवं स्मृतम्चक्रादिचिह्नहीनत्वाद्वैष्णवत्वं न लभ्यते ॥८०॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सुदर्शनादिमाहात्म्यंनाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥२२४॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP