संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ३० उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ३० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३० Translation - भाषांतर नारद उवाच-ब्रह्मन्संवत्सराख्यस्य दीपस्य विधिमुत्तमम्सर्वव्रतप्रधानस्य माहात्म्यं प्रवदस्व मे ॥१॥येन व्रतानि सर्वाणि कृतान्येव न संशयःसर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत् ॥२॥महादेव उवाच -वदामि तव देवर्षे रहस्यं पापनाशनम्यच्छ्रुत्वा ब्रह्महा गोघ्नो मित्रघ्नो गुरुतल्पगः ॥३॥विश्वासघाती क्रूरात्मा मुक्तिमाप्नोति शाश्वतीम्शतं कुलानामुद्धृत्य विष्णोर्लोकं स गच्छति ॥४॥तदहं कथयिष्यामि दीपव्रतमनुत्तमम्संवत्सरप्रमाणस्य विधिं माहात्म्यमेव च ॥५॥हेमंते प्रथमे मासि प्राप्य ह्येकादशीं शुभाम्ब्राह्मे मुहूर्त्ते चोत्थाय कामक्रोधविवर्जितः ॥६॥नदीसंगमतीर्थेषु तडागेषु सरित्सु चस्नानं समाचरेत्तत्र गृहे वा नियतात्मवान् ॥७॥स्नातोऽहं सर्वतीर्थे तत्स्नानं देहि मे सदा ॥८॥स्नानमंत्रःदेवान्पितॄंश्च संतर्प्य कृतजप्यो जितेंद्रियःततः संपूजयेद्देवं लक्ष्मीनारायणं प्रभुम्पंचामृतेन संस्नाप्य ततो गंधोदकेन च ॥९॥स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पतेमां समुद्धर देवेश घोरात्संसारबंधनात् ॥१०॥ततः संपूजयेद्देवं लक्ष्म्या सह जनार्दनम्मंत्रैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि ॥११॥अतो देवेति गंधादि पौरुषेणापि वा पुनःनमो मत्स्याय देवाय कूर्मदेवाय वै नमः ॥१२॥नमो वाराहदेवाय नरसिंहाय वै नमःनमोऽस्तु बुद्धदेवाय कल्किने च नमोनमः ॥१३॥नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमःनमः सर्वात्मने तुभ्यं शि रइत्यभिपूजयेत्केशवादीनि नामानि तैर्वा संपूजयेद्धरिम् ॥१४॥वनस्पतिरसो दिव्यः सुरभिर्गंधवाञ्छुचिःधूपोऽयं देवदेवेश नमस्ते प्रतिगृह्यताम् ॥१५॥ धूपमंत्रः -दीपस्तमो नाशयति दीपः कांतिं प्रयच्छतितस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः ॥१६॥ दीपमंत्रः -नैवेद्यमिदमन्नाद्यं देवदेव जगत्पतेलक्ष्म्या सह गृहाण त्वं परमामृतमुत्तमम् ॥१७॥ नैवेद्यमंत्रः -अर्घ्यं दद्यात्ततो भक्त्या एवं ध्यात्वा जनार्दनम्फलेन चैव हस्तेन शंखेनादाय चोदकम् ॥१८॥जन्मांतरसहस्रेण यन्मया पातकं कृतम्तत्सर्वं नाशमायातु प्रसादात्तव केशव ॥१९॥इति अर्घमंत्रः -ततः कुंभं नवं शुभ्रं घृतपूर्णं समानयेत्लक्ष्मीनारायणस्याग्रे तैलपूर्णमथापि वा ॥२०॥तस्योपरि न्यसेत्पात्रं ताम्रं मृन्मयमेव चनवतंतुसमां वर्तिं तस्मिन्पात्रे तु निर्वपेत् ॥२१॥ततः प्रबोधयेद्दीपं स्थाप्य कुंभं सुनिश्चलम्पुष्पगंधादिभिः पूज्य ततः संकल्पयेच्छुचिः ॥२२॥मंत्रेणानेन देवर्षे असमीरेषु धामसुकामो भूतस्य भव्यस्य सम्राडेको विराजते ॥२३॥दीपः संवत्सरं यावत्मयायं परिकल्पितःअग्निहोत्रमविच्छिन्नं प्रीयतां मम केशव ॥२४॥ततो जितेंद्रियो भूत्वा श्रुतिज्ञानपरायणःनालपेत्पतितान्पापांस्तथा पाखण्डिनो नरान् ॥२५॥रात्रौ जागरणं गीतं नृत्यवाद्यादिकैस्तथापुण्यपाठैश्च विविधैर्धर्माख्यानैरुपोषणैः ॥२६॥ततः प्रभातसमये कृतपूर्वाह्णिक क्रियःब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्या प्रपूजयेत् ॥२७॥स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत्एवं संवत्सरं यावदहोरात्रं दृढव्रतः ॥२८॥दीपं पलसुवर्णेन तदर्द्धार्द्धेन वा पुनःवर्तिस्तु राजती प्रोक्ता द्विपलार्द्धार्द्धिकापि वा ॥२९॥घृतपूर्णं तथा कुंभं ताम्रपात्रसमन्वितम्लक्ष्मीनारायणो देवो यथाशक्त्या हिरण्मयः ॥३०॥कार्यो भक्तिमता पुंसा मुक्तिद्वारमभीप्सताततो निमंत्रयेद्विद्वान्ब्रह्मणान्साधुसत्तमान् ॥३१॥द्वादशोत्तमपक्षे तु विप्रान्षण्मध्यमे तथाअन्यथा कारयेत्त्रीन्वा एकं कर्मकरं द्विजम् ॥३२॥सपत्नीकं द्विजं शांतं क्रियावंतं विशेषतःइतिहासपुराणज्ञं धर्मज्ञं मृदुमेव च ॥३३॥पितृभक्तं गुरुपरं देवब्राह्मणपूजकम्पादार्घदानविधिना वस्त्रालंकारभूषणैः ॥३४॥संपूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत्लक्ष्मीनारायणं देवं दीपवर्तियुतं तथा ॥३५॥ताम्रपात्रोपरिस्थाप्य घृतकुंभेन संयुतम्ब्राह्मणाय ततो दद्याद्ध्यात्वा नारायणं परम्मंत्रेणानेन देवर्षे तमहं कथयामि ते ॥३६॥अविद्या तमसा व्याप्ते संसारे पापनाशनःज्ञानप्रदो मोक्षदश्च तस्माद्दत्तो मयानघ ॥३७॥ इति दीपमंत्रः -दक्षिणां च यथाशक्त्या दत्त्वा विप्राय भक्तितःभोजयेद्ब्राह्मणान्पश्चाद्घृतपायसमोदकैः ॥३८॥वस्त्रैराच्छादयेत्पश्चात्सपत्नीकं तथा द्विजम्शय्यां सोपस्करां दद्याद्धेनुं चैव सवत्सकाम् ॥३९॥तेभ्यस्तु दक्षिणां दद्याद्यथावित्तानुसारतःसुहृत्स्वजनबंधूश्च भोजयेत्पूजयेत्तथा ॥४०॥एवं महोत्सवं कुर्याद्दीपव्रत समापनेततो विसर्जयेत्पश्चात्प्रणिपत्य क्षमापयेत् ॥४१॥एवं कृते तु यत्पुण्यं तथा सांक्रांतिकैश्च यत्संवत्सराख्य दीपस्य तत्फलं प्राप्यते नरैः ॥४२॥मासव्रतैश्च यत्पुण्यं तत्पुण्यं प्राप्यते नरैःसंवत्सरस्य दीपस्य व्रतेन चरितेन च ॥४३॥दानव्रतैर्यथासंख्यैर्यश्च योगव्रतैस्तथातत्फलं समवाप्नोति दीपे सांवत्सरे कृते ॥४४॥गोभूहिरण्यदानानि गृहादीनां विशेषतःयत्फलं लभते विद्वान्तत्फलं दीपदो भवेत् ॥४५॥दीपदः कांतिमाप्नोति दीपदो धनमक्षयम्दीपदो ज्ञानमाप्नोति दीपदः परमं सुखम् ॥४६॥दीपदानाच्च सौभाग्यं विद्यामत्यंतनिर्मलाम्आरोग्यं परमामृद्धिं लभते नात्र संशयः ॥४७॥दीपदः सुभगां भार्यां सर्वलक्षणसंयुताम्पुत्रान्पौत्रान्प्रपौत्रांश्च संततिं चाक्षया लभेत् ॥४८॥ब्राह्मणः परमं ज्ञानं क्षत्रियो राज्यमुत्तमम्वैश्यो धनपशून्सर्वाञ्छूद्रः सुखमवाप्नुयात् ॥४९॥कुमारी चापि भर्तारं सर्वलक्षणसंयुतम्प्राप्नोति परमायुश्च पुत्रान्पौत्रांश्च पुष्कलान् ॥५०॥वैधव्यं नैव युवती कदाचिदपि पश्यतिन वियोगमवाप्नोति दीपदानप्रभावतः ॥५१॥नाधयो व्याधयश्चैव जायंते दीपदानतःभयात्प्रमुच्यते भीतो बद्धो मुच्येत बंधनात् ॥५२॥ब्रह्महत्यादिभिः पापैर्दीपव्रतपरायणःमुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा ॥५४॥चांद्रायणानि कृच्छ्राणि चरितानि न संशयःयेन सांवत्सरो दीपो बोधितः शाश्वतो हरेः ॥५५॥ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम्यैः संपूज्य हरिं भक्त्या दीपःसांवत्सरः कृतः ॥५६॥येऽपि संवर्त्तयंतीह दीपवर्तिविलोकनाःते यांति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥५७॥येन तैलं च वर्तिं च यथाशक्त्या प्रदीपकेप्रक्षेपयंति सततं ते यांति परमां गतिम् ॥५८॥गच्छंतं दीपकं शांतिं न शक्नोति प्रबोधितुम्कथयत्यन्यलोकानां तेऽपि तत्फलभागिनः ॥५९॥स्तोकं स्तोकं च भिक्षित्वा तैलं दीपार्थमेव चकरोति दीपकं विष्णोः पुण्यं तेनापि लभ्यते ॥६०॥दीपं प्रज्वाल्यमानं तु यः पश्यत्यधमो नरःकृतांजलिपुटो विष्णोर्विष्णुलोकमवाप्नुयात् ॥६१॥दीपप्रज्वालने बुद्धिं यो दद्यात्कुरुते स्वयम्सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥६२॥अत्राप्युदाहरंतीममितिहासं पुरातनम्यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ॥६३॥सरस्वत्यास्तटे रम्ये सिद्धाश्रम इति श्रुतःतत्रोवास द्विजः पूर्वं कपिलो नाम वेदवित् ॥६४॥व्रतोपवासनिरतो दरिद्र श्रोःत्रियस्तथाभिक्षावृत्त्या च कुरुते कुटुंब परिपालनम् ॥६५॥व्रतोपवासनियमैर्विष्णुमाराधयत्यसौविष्णुं संपूज्य विधिवद्दीपं बोधयते सदा ॥६६॥समादाय च तत्तैलं स्वगृहे पूज्य केशवम्दीपं भक्त्या च परया बोधयेद्धरितुष्टये ॥६७॥एवं प्रवर्त्तमानस्य कपिलस्य महात्मनःमार्जारस्तीक्ष्णंदंष्ट्रस्तु मूषकान्भक्षयेत्सदा ॥६८॥तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम्कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः ॥६९॥भक्षिता बहवस्तेन मूषका द्विजवेश्मनिये ये तैलार्थमायांति वर्त्यपाहरणाय च ॥७०॥तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परःएवं प्रवर्तमानस्य कदाचित्कालपर्ययात् ॥७१॥एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिःसोपवासः सपत्नीकः पूजयामास चाच्युतम् ॥७२॥ततो जागरणं चक्रे स्तुतिनृत्यपरायणःअर्द्धरात्रे तु संप्राप्ते निद्रया मोहितो द्विजः ॥७३॥मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमःलक्षयामास नैवेद्यं गृहकोणे स्थितः सदा ॥७४॥अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम्मंदतेजसि दीपे तु वर्त्यपाहरणोचिताम् ॥७५॥समुत्पत्य पदाक्रम्य तदा सा बिलमाविशत्तस्याः पादेन वै वर्त्या दीपः संबोधितो भृशम् ॥७६॥तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदाब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीम् ॥७७॥मार्जारोऽपि च तां रात्रीमजाग्रच्चाखुभक्षकःततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः ॥७८॥ततश्च पारणं चक्रे विप्रो बंधुजनैः सहएवं प्रवर्त्तमानस्य कपिलस्य महात्मनः ॥७९॥बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम्आरोग्यं परमामृद्धिमवाप महतीं श्रियम् ॥८०॥दीपव्रतप्रभावेन कपिलो मोक्षमागतःसंभेद्य मंडलं पुण्यं सवितुः शशिनस्तथा ॥८१॥दीपज्योतिःस्वरूपेण परमात्मा नियुक्तवान्मूषिकापि च कालेन ममार बिलमध्यतः ॥८२॥विमानवरमासाद्य विष्णुलोकं जगाम सामार्जारोऽपि च कालांते मृतः स्वर्गं जगाम सः ॥८२॥विमानवरमारुह्य देवगंधर्वसेवितम्अप्सरोभिः परिवृतो विद्याधरगणैर्युतः ॥८३॥स्तूयमानो महातेजा जयशब्दादि मंगलैःस्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः ॥८४॥कल्पकोटिसहस्राणि कल्पकोटिशतानि चभुक्त्वा च विपुलान्भोगान्ततो राजाभवद्भुवि ॥८५॥सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकःरूपवान्सुभगश्चैव महाबलपराक्रमः ॥८६॥तस्य प्रियतमा भार्या सर्वलक्षणसंयुताभर्तृभक्ता तथा शीला नाम्ना सा रूपसुंदरी ॥८७॥सर्वासां चैव नारीणां मध्ये सा सुभगाभवत्पुत्राश्च बहवो जातास्तथा दुहितरो घनाः ॥८८॥एवं विहरतोस्तद्वद्दंपत्योः प्रीतिपूर्वकम्आगतः कार्त्तिको मासो हरिनेत्रावबोधकृत् ॥८९॥तस्मिन्दीपाः प्रबोध्यंते नारायणपरायणैःकृच्छ्रचांद्रायणादीनि व्रतानि नियमास्तथा ॥९०॥क्रियंते विष्णुभक्तैश्च संसारभयभीरुभिःअथ प्रबोधिनीं प्राप्य राजा राज्ञीमथाब्रवीत् ॥९१॥भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहेकरिष्याम्यद्य पूजां च सोपवासो जितेंद्रियः ॥९२॥स्नात्वा च पुष्करे तीर्थे पुंडरीकाक्षमच्युतम्पूजयिष्यामि देवेशं लक्ष्म्या सह जनार्दनम् ॥९३॥इति सा वांछितं श्रुत्वा भर्तुः प्रियहिते रताउवाच वचनं गुह्यं भर्त्तारं चारुहासिनी ॥९४॥रूपसुंदर्युवाच-ममापि हृदये कामः समुत्पन्नो नराधिपरूपसौंदर्यवांछा च हृदये मम वर्त्तते ॥९५॥पुष्करं प्रथमं तीर्थं गंतुमिच्छे त्वया सहततो राजा तया सार्द्धमागतः पुष्करं तदा ॥९६॥हस्त्यश्वरथवृंदैश्च समागत्य पुरोहितैःततः स्नात्वा तथा ध्यायन्तर्पयन्पितृदेवताः ॥९७॥पूजयामास देवेशं पुंडरीकाक्षमच्युतम्दीपमालाकुले तत्र सर्वतः सुमनोहरे ॥९८॥ददर्श लिखितं तत्र मार्जारं देवतालयेतं दृष्ट्वा प्राकृतं कर्म जन्म स्मृत्वा नृपस्तदा ॥९९॥मुखपंकजमालोक्य प्रियायाः प्रजहास चरूपसुंदर्युवाच-मम सन्मुखमालोक्य भर्तः किं स्मितकारणम् ॥१००॥कथयामास हृष्टात्मा प्राक्तनं कर्मणः फलम्राजोवाच-अहमासं पुरा देवि मार्जारो ब्राह्मणालये ॥१०१॥भक्षिता मूषकास्तत्र मया शतसहस्रशःततो नारायणस्याग्रे दीपः संरक्षितो यतः ॥१०२॥व्याजेनापि मया देविप्राप्तं तत्कर्मणः फलम्विष्णुलोकमनुप्राप्य राज्यं प्राप्तं मयाधुना ॥१०३॥रूपसुंदर्युवाच-ममापि स्मरणं जातं प्राकृतस्य च जन्मनःमूषिका चाहमप्यासं क्षुद्रा ब्राह्मणवेश्मनि ॥१०४॥कार्तिके च प्रबोधिन्यां मंदीभूते च दीपकेवर्त्यग्राहरणार्थाय निर्गताहं तदा बिलात् ॥१०५॥दृष्ट्वा नारायणं देवं पूजितं कुसुमैस्तथानिद्राभिभूतं विप्रं च वर्त्तिः कृष्टा मया तदा ॥१०६॥उत्थितस्त्वं यदा तत्र मां गृहीतुं कृतक्षणःदृष्ट्वा त्वं च प्रणष्टाहं प्रविष्टा बिलमध्यतः ॥१०७॥विशंत्या मम पादेन दीपवर्त्तिर्विजृंभितातैलपात्रं च नमितं तेनाहं सुखभागिनी ॥१०८॥तन्मया राजराजेंद्र दीपं चैव प्रकाशितम्इदानीं च मया प्राप्तं रूपलावण्यमुत्तमम् ॥१०९॥त्वं च भर्त्ता तथा राज्यं पुत्राश्चैवंविधं सुखम्दीपप्रबोधनाज्जातं ज्ञानमत्यंत दुर्ल्लभम् ॥११०तस्मात्सर्वप्रयत्नेन दीपव्रतमनुत्तमम्आवां हि परया भक्त्या कुर्वश्चैव विशेषतः ॥१११॥तदेतत्कर्मणः प्राप्तं फलं राज्यादिसंपदःपूर्वजन्मस्मृतं चापि सर्वपापक्षयस्तथा ॥११२॥तस्मात्सर्वप्रयत्नेन विधिमंत्रादिपूर्वकम्दीपव्रतं कृतं पुंभिः पुण्यं चंद्रार्कतारकम् ॥११३॥इति श्रुत्वा वचो राजा चक्रे दीपव्रतं तदाप्रियया सह देवर्षे सम्यक्श्रद्धासमन्वितः ॥११४॥तस्मिंस्तु पुष्करे तीर्थे कृत्वा दीपव्रतं तु तौअवापतुः परां मुक्तिं देवदानवदुर्ल्लभाम् ॥११५॥एतद्दीपस्य माहात्म्यं ये शृण्वंति नरा भुविसर्वपापविनिर्मुक्ताः प्रयांति हरिमंदिरम् ॥११६॥ये च कुर्वंति पुरुषाः स्त्रियो वा भक्तितत्पराःते सर्वे पापनिर्मुक्ता यांति ब्रह्मसनातनम् ॥११७॥दीपव्रतमिदं विद्वन्कथितं ते विमुक्तिदम्सर्वसौख्यप्रदं धन्यं महाव्रतमिदं तव ॥११७॥नेत्ररोगा विनश्यंति यथा पापप्रभावजाःआधयो व्याधयः सर्वे नश्यंते हि कृतेक्षणात् ॥११८॥न दारिद्र्यं न शोकं च न मोहो न च विभ्रमःगृहे लक्ष्मीः समायाति जन्मजन्मनि वाडव ॥११९॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे दीपव्रतमाहात्म्यंनाम त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : November 18, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP