उत्तरखण्डः - अध्यायः १४४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच
ब्रह्मवल्ली महत्तीर्थं ततो गच्छेत्सुरेश्वरि
तस्य तीर्थस्य स्वरूपं साक्षाच्छृणु सुरोत्तम ॥१॥
यत्र साभ्रमती तोयं ब्रह्मवल्ल्यंभसा सह
युज्यते ब्रह्मतीर्थं तत्प्रयागेन समं स्मृतम् ॥२॥
तत्र पिंडप्रदानेन तृप्तिर्द्वादशवार्षिकी
पितॄणां जायते नूनं ब्रह्मणो वचनं यथा ॥३॥
गयाश्राद्धसमंपुण्यंब्रह्मवल्ल्यांविशेषतः
यत्रज्ञात्वाप्रकुर्वंतिपितरस्तृप्तिमाप्नुयुः ॥४॥
गोदानंभूमिदानंचअन्नदानंतथैवच
एतद्दानसमं पुण्यं ब्रह्मवल्ल्यां विशेषतः ॥५॥
अत्रैव सनकाद्यास्तु स्नात्वा च विधिपूर्वकम्
परंब्रह्मपदध्यानाद्विष्णुलोकमवाप्नुयुः ॥६॥
पुष्करे चैव गंगायां क्षेत्रे चामरकंटके
तत्र गत्वा तु देवेशि यत्फलं लभते नरः ॥७॥
तत्फलं समवाप्नोति ब्रह्मवल्ल्यां विशेषतः
चंद्र सूर्योपरागे च दानं ये ददते नराः ॥८॥
तत्फलं समवाप्नोति ब्रह्मावल्ल्यां सुरेश्वरि
दिव्यरूपधरास्ते च शंखचक्रगदाधराः ॥९॥
तेऽपि स्वर्गे हि गच्छंति स्नानं कृत्वा सुरेश्वरि
धृत्वा तुलसिजां मालां नारायणमनुस्मरन्
वैकुंठं दिव्यमानंदं याति वै पदमव्ययम् ॥१०॥
इति ब्रह्मवल्लीतीर्थमाहात्म्यम्
वृषतीर्थं ततो गच्छेत्खंडतीर्थेऽतिविश्रुतम्
तत्र स्नात्वा दिवं गावो गोलोकं च पुराश्रिताः ॥११॥
खंडरूपेण धर्मेण या गावो लोकमातरः
शापाद्भ्रष्टावितास्तेन खंडतीर्थमथोच्यते ॥१२॥
पार्वत्युवाच
शापो हि लोकमातॄणां गवां कस्य पुराऽभवत्
कथं लोकात्परिभ्रष्टाः कथं धर्मेण रक्षिताः ॥१३॥
महादेव उवाच
पुरा वृषेण गोलोके क्रीडता सह मातृभिः
मुक्तं तथा शकृन्मूत्रं पतितं हरमूर्द्धनि ॥१४॥
ततस्तासां ददौ शापं तेन दोषेण वै हरः
नष्टसंज्ञा स्वलोकाच्च गावो यास्यथ मेदिनीम् ॥१५॥
गावः शप्ता भगवता संप्रसाद्य पुनर्हरम्
प्राप्स्यामहे पुनर्लोकं इति देवं ययाचिरे ॥१६॥
यदा साभ्रमती तीर्थे ब्रह्मवल्ली समीपतः
खंडसंज्ञह्रदे स्नात्वा स्वर्गं वै प्राप्स्यथ ध्रुवम् ॥१७॥
ततस्तस्मिन्ह्रदे स्नात्वा गावो गोपतिना सह
स्वर्गं गता शुद्धतमा महादेवसमीपतः ॥१८॥
गोह्रदे तु नरः स्नात्वा कृत्वा वै पितृतर्पणम्
गवां लोकमवाप्नोति दाहप्रलयवर्जितम् ॥१९॥
तत्र स्थित्वा निराहारो गोपिंडं च ददाति वै
स नरः सुखमेधेत यावदिंद्राश्चतुर्दश ॥२०॥
गवांकोटिप्रदानेन यत्फलं प्राप्यते ध्रुवम्
तत्फलं समवाप्नोति खंडतीर्थे न संशयः ॥२१॥
गृहीत्वा वृषमूत्रं च तीर्थं यः पिबते नरः
तत्क्षणादेव शुद्धिः स्यात्खंडतीर्थे न संशयः ॥२२॥
खंडतीर्थात्परं तीर्थं न भूतं न भविष्यति
ये गच्छंति सुरश्रेष्ठ ते नराः पुण्यभागिनः ॥२३॥
तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत्
वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः ॥२४॥
पूजनाद्वै न संदेहो गोलोके तु वसेच्चिरम्
तत्र गत्वा विशेषेण सौवर्णी गां ददंति ये ॥२५॥
ते नरा भुंजते सौख्यं यावदिंद्राश्चतुर्दश
दशधेनुं ततः कृत्वा यो ददाति द्विजातये ॥२६॥
खंडतीर्थे सुरश्रेष्ठे तदनंतफलं स्मृतम्
तत्र गत्वा तु कर्त्तव्यं पिप्पलारोपणं बुधैः ॥२७॥
तत्कृते सति देवेशि पितृलोकं स गच्छति
पंच वामलकीर्दिव्या ये कुर्वंति प्ररोपणम् ॥२८॥
इहलोके सुखं भुक्त्वा हरिलोकं व्रजंति ते ॥२९॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर
संवादे खंडतीर्थंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥१४४॥
N/A
References : N/A
Last Updated : November 21, 2020
![Top](/portal/service/themes/silver/images/up.gif)
TOP