संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १६९

उत्तरखण्डः - अध्यायः १६९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महेश उवाच
ततःपरं देवनदी वार्त्रघ्नी संगमात्किल
प्रविष्टा भद्रया सार्द्धं सागरं वरुणालयम् ॥१॥
समुद्रोऽपि तया तावदागम्य प्रियकाम्यया
साभ्रमत्यानुरागेण कृतवान्प्रियमेलनम् ॥२॥
भद्रा वापि सुभद्रा या वयस्या सा नदी पुरा
सहायमकरोन्मार्गे साक्षात्श्रीरूपधारिणी ॥३॥
तयोस्तुसंगमः पुण्यः सागरस्योत्तरे तटे
तत्र तीर्थे नरः स्नात्वा मृष्टं वारि ददाति यः ॥४॥
नमस्कृत्य वराहाय वारुणं स्थानमाप्नुयात्
प्रविश्य भगवान्विष्णुस्तेन मार्गेण सागरम् ॥५॥
जित्वा वै दानवान्सर्वान्देवानां परिपंथिनः
देवो यज्ञवराहश्च संक्षोभ्य मकरालयम्
क्रीडित्वा सुचिरं कालं कर्दमालेन निर्ययौ ॥६॥
पार्वत्युवाच
देव यज्ञवराहस्य साभ्रमत्यां प्रवेशनम्
निर्गमं कर्दमालेन ब्रूहि त्वं मम विस्तरात् ॥७॥
महादेव उवाच
अंतर्भू क्रीडितमिदं वराहस्य हरेः पुरा
तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि ॥८॥
योऽयं वै भगवान्साक्षाद्धृतवान्सूकरं वपुः
देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः ॥९॥
धृत्वा वै पृथिवीं देवीं निर्गतः कर्दमालयम्
तत्र तीर्थं महज्जातं वराहाख्यं तु सुंदरि ॥१०॥
तत्र स्नाति नरो यस्तु मुक्तिभाक्स न संशयः
अत्र श्राद्धं प्रकुर्वीत पितॄणां मुक्तिहेतवे
विमुक्तस्तैः समं लोकं प्रयाति सुखदं महत् ॥११॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर
खंडे वाराहतीर्थंनामैकोनसप्तत्यधिकशततमोऽध्यायः ॥१६९॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP