संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १६७

उत्तरखण्डः - अध्यायः १६७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


अत्र तीर्थात्परं तीर्थं चंडेश इति विश्रुतम्
यत्र चंडेश्वरो देवो नित्यं तिष्ठति भूतिदः ॥१॥
यं दृष्ट्वा मुच्यते पापादज्ञानादथवा कृतात्
सर्वाभिर्देवताभिश्च मिलित्वा नगरं कृतम्
चंडेश इति विख्यातं नाम्ना चैव महेश्वरि ॥२॥
इति चंडेशतीर्थम्
अत्र तीर्थात्परं तीर्थं गाणपत्यं ततो भुवि
साभ्रमत्यां समीपे तु विख्यातं देवि निर्मितम् ॥३॥
तत्र स्नात्वा नरो देवि मुच्यते नात्र संशयः
मन्ये साभ्रमती तीरे जनानां हितकाम्यया ॥४॥
पृथिव्यां यानि तीर्थानि सागरांतानि यानि च
तानि सर्वाणि संत्यज्य तीर्थे वै परमाद्भुते ॥५॥
श्राद्धं करोति यस्तत्र रुद्रभक्त्या जितेंद्रियः
फलं प्राप्नोति शुद्धात्मा सर्वयज्ञसमुद्भवम् ॥६॥
पितॄनुदिश्य यत्किंचिद्गणतीर्थे प्रदीयते
तत्सर्वं जायते क्षिप्रं गणनाथप्रसादतः ॥७॥
तस्मिंस्तीर्थे नरः स्नात्वा वृषं विप्राय दापयेत्
सर्वलोकानतिक्रम्य स गच्छेत्परमां गतिम् ॥८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गणतीर्थंनाम सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP