उत्तरखण्डः - अध्यायः ११५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच
इत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियाम्
सायंसंध्यादिकं कर्तुं जगाम जननीगृहम् ॥१॥
एवं प्रभावः प्रोक्तोयं कार्तिकः पापनाशनः
विष्णुप्रियकरो नित्यं भुक्तिमुक्तिप्रदः सदा ॥२॥
हरिजागरणं प्रातः स्नानं तुलसिसेवनम्
उद्यापनं दीपदानं व्रतान्येतानि कार्तिके ॥३॥
पंचकैर्व्रतकैरेभिः संपूर्णं कार्तिकव्रतम्
फलं प्राप्नोति तत्प्रोक्तं भुक्तिमुक्तिफलप्रदम् ॥४॥
ऋषय ऊचुः
विष्णोः प्रियोऽतिफलदः प्रोक्तोऽयं रोमहर्षणे
कार्तिकस्य विधिः सम्यक्पावनः पापनाशनः ॥५॥
अवश्यमेव कर्त्तव्यः प्राप्य दुःखनिवारणः
मोक्षार्थिभिर्नरः सम्यग्भोगकामैरथापिवा ॥६॥
एवं स्थिते यथाकश्चिद्व्रतस्थः संकटे स्थितः
दुर्गारण्यस्थितो वापि व्याधिभिः परिपीडितः
कथं तेन प्रकर्तव्यं कार्तिकव्रतकं शुभम् ॥७॥
सूत उवाच
यस्मादत्यंतफलदं कर्तव्यं तु यथा नरैः
तत्सर्वं कथयिष्येऽहं शृणुध्वं मुनिपुंगवाः ॥८॥
विष्णोः शिवस्य वा कुर्यादालये हरिजागरम्
शिवविष्णुग्रहाभावे सर्वदेवालयेष्वपि ॥९॥
दुर्गारण्यस्थितो यश्च यदि वा यद्गतो भवेत्
कुर्यात्तदाश्वत्थमूले तुलसीनां वनेष्वपि ॥१०॥
विष्णुनामप्रधानानां गायनाद्विष्णुसन्निधौ
गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ॥११॥
वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत्
सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात् ॥१२॥
सर्वमेतल्लभेत्पुण्यं तेषां तु द्रव्यदः पुमान्
प्रशंसादर्शनाभ्यां हि तत्षडंशमवाप्नुयात् ॥१३॥
आपद्गतो यदाप्यंभो न लभेत्स्नपनाय सः
व्याधितो वा पुनः कुर्याद्विष्णोर्नामापमार्जनम् ॥१४॥
उद्यापनविधिं कर्तुं न शक्तो यो व्रते स्थितः
ब्राह्मणान्भोजयेच्छक्त्या व्रतसंपूर्णहेतवे ॥१५॥
यस्मादत्यंतफलदो न त्याज्यः सर्वदा नरैः
अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि ॥१६॥
तत्संतुष्ट्या सुसंतुष्टः सर्वदा स्यां न संशयः
अशक्तो दीपदाने तु परदीपं प्रबोधयेत् ॥१७॥
तेषां वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः
अभावे तुलसीनां तु पूजयेद्वैष्णवं द्विजम् ॥१८॥
यस्मात्संनिहितो विष्णुः स्वभक्तेष्वेव सर्वदा
सर्वाभावे व्रती कुर्याद्ब्राह्मणानां गवामपि ॥१९॥
सेवां वाश्वत्थवटयोर्व्रतसंपूर्णहेतवे ॥२०॥
ऋषय ऊचुः
कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ
सर्वेभ्योऽपि तरुभ्यस्तौ कस्मात्पूज्यतरौ कृतौ ॥२१॥
सूत उवाच
अश्वत्थरूपी भगवान्विष्णुरेव न संशयः
रुद्ररूपी वटस्तद्वत्पालाशो ब्रह्मरूपधृक् ॥२२॥
दर्शनं पूजनं सेवा तेषां पापहरा स्मृता
दुःखापद्व्याधिदुष्टानां विनाशकरणी ध्रुवम् ॥२३॥
ऋषय ऊचुः
कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः
एतत्कथय सर्वज्ञ संशयोऽत्र महान्हि नः ॥२४॥
सूत उवाच
पार्वतीशिवयोर्देवैः सुरतं कुर्वतोः किल
अग्निर्ब्राह्मणरूपेण प्रेषितो विघ्नकृत्पुरा ॥२५॥
ततः सा पार्वती क्रुद्धा शशाप त्रिदिवौकसः
रतोत्सवसुखभ्रंशात्कंपमाना रुषा तदा ॥२६॥
पार्वत्युवाच
कृमिकीटादयोप्येते जानंति सुरतं सुखम्
तद्विघ्नकरणाद्देवा ह्युद्भिज्जत्वमवाप्स्यथ ॥२७॥
सूत उवाच
एवं सा पार्वती देवानशपत्क्रुद्धमानसा
तस्माद्वृक्षत्वमापन्नाः सर्वे देवगणाः किल ॥२८॥
तस्मादिमौ विष्णुमहेश्वरावुभौ बभूवतुर्बोधिवटौ मुनीश्वराः
बोधिस्त्वगादार्किदिने स्पृशत्वमस्पृश्यतामर्कजविष्टियोगात् ॥२९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये अश्वत्थवटप्रशंसनंनाम पंचदशाधिकशततमोऽध्यायः ॥११५॥
N/A
References : N/A
Last Updated : November 20, 2020
![Top](/portal/service/themes/silver/images/up.gif)
TOP