उत्तरखण्डः - अध्यायः ७२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
श्रीमहादेव उवाच-
ब्राह्मणा वा क्षत्रिया वा वैश्या वा गिरिकन्यके
शूद्रा वाथ विशेषेण पठंत्यनुदिनं यदि ॥१॥
धनधान्यसमायुक्ता यांति विष्णोः परं पदम्
श्लोकं वा श्लोकमर्द्धं वा पादं पादार्द्धमेव वा ॥२॥
पठनान्मोक्षमाप्नोति यावदाभूतसंप्लवम्
विन्यासेन युतं देवि विष्णोर्नामसहस्रकम् ॥३॥
ये पठंति नरश्रेष्ठास्ते यांति पदमव्ययम्
एककालं द्विकालं वा त्रिकालं वाथ यः पठेत् ॥४॥
धनायुर्वर्धते तस्य यावदिंद्राश्चतुर्दश
पुत्रान्पौत्रांस्तथालक्ष्मी संपदं विपुलां लभेत् ॥५॥
किमन्यद्बहुनोक्तेन भूयो भूयो वरानने
विष्णोर्नामसहस्रं तु परं निर्वाणदायकम् ॥६॥
पूजनं प्रथमं तस्य कृतं येन नरेण तु
संपूर्णं पूजिते विष्णौ तस्य पूजा च वार्षिकी ॥७॥
व्यग्रत्वं च न कर्त्तव्यं पठने तु विशेषतः
यदि चेत्क्रियते पाठे ह्यायुर्वित्तं च नश्यति ॥८॥
यावंति भुवि तीर्थानि जंबुद्वीपेषु सर्वदा
तानि तीर्थानि तत्रैव विष्णोर्नामसहस्रकम् ॥९॥
तत्रैव गंगा यमुना च वेणी गोदावरी तत्र सरस्वती च
सर्वाणि तीर्थानि वसंति तत्र यत्र स्थितं नामसहस्रकं तत् ॥१०॥
इदं पवित्रं परमं भक्तानां वल्लभं सदा
ध्येयं हि दासभावेन भक्तिभावेन चेतसा ॥११॥
परं सहस्रनामाख्यं ये पठंति मनीषिणः
सर्वपापविनिर्मुक्तास्ते यांति हरिसंनिधौ ॥१२॥
अरुणोदयकाले तु ये पठंति जपंति च
आयुर्बलं च तेषां श्रीर्वर्द्धते च दिनेदिने ॥१३॥
रात्रौ जागरणे प्राप्ते कलौ भागवतो नरः
पठनान्मुक्तिमाप्नोति यावदिंद्राश्चतुर्दश ॥१४॥
एकैकेन तु नाम्ना वै हरौ तुलसिकारणात्
पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका ॥१५॥
मार्गे च गच्छमानास्तु ये पठंति द्विजातयः
न दोषा मार्गजास्तेषां भवंति किल पार्वति ॥१६॥
शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु
ये शृण्वंति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः ॥१७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे सहस्रनाममहिमानाम द्विसप्ततितमोऽध्यायः ॥७२॥
N/A
References : N/A
Last Updated : November 20, 2020
![Top](/portal/service/themes/silver/images/up.gif)
TOP