संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २०७ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २०७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २०७ Translation - भाषांतर सौभरिरुवाच-धर्मात्मज निशम्यैतद्वचस्तस्य महात्मनःनारदस्य शिबी राजा प्रोवाचेदं विनीतवत् ॥१॥शिबिरुवाच-तिष्ठंत्यो मरुमार्गे ता राक्षस्यो मुनिपुंगवएतस्या द्वारिकायास्तु लेभिरे सलिलं कुतः ॥२॥नारद उवाच-शृणु राजन्कथां दिव्यां पूतां पापप्रणाशिनीम्विमलाख्यस्य विप्रस्य हिमवद्द्रोणिवासिनः ॥३॥एकस्तु हिमवद्द्रोण्यां विमलो नाम भूसुरःदेवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः ॥४॥हरिपादार्चनरतो वेदवेदांगधर्मवित्वासुदेवगुणग्राम पुराणश्रुतिमानसः ॥५॥वार्द्धके तस्य पुत्रोऽभूत्प्रसादाच्चक्रपाणिनःचकार हरिदत्तेति नाम्ना तं जनकस्तदा ॥६॥विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत्गुरोः सकाशाज्जग्राह छंदांसि हरिदत्तकः ॥७॥अधीत्य विधिवद्वेदान्दत्त्वा च गुरुदक्षिणाम्प्रवव्राज विरक्तः सन्समूलं चाश्रमद्वयम् ॥८॥ज्ञात्वा तत्कर्मतन्माता व्यलपत्पुत्रवत्सलास्नापयंती कुचद्वंद्वं पुत्रविश्लेषजाश्रुभिः ॥९॥मातोवाच-मामनाथां परित्यज्य तात यातोऽसि कुत्र वैपितरं च जराग्रस्तं षट्पदो बल्वजाविव ॥१०॥वार्द्धके त्वं मया प्राप्तः श्रीपतेः पादसेवयामां विहायाभजस्त्वं वै चरणं तस्य मुक्तये ॥११॥अहं मूढा ध्रुवं तात ध्रुवमाराध्य यद्धरिम्अध्रुवं वांछितवती भवन्तं तु सुखलब्धये ॥१२॥त्वं सुधीर्वत्स सर्वार्थं यद्विष्णुं भजसे स्वयम्अध्रुवं जगदेतद्वै मत्वासीस्त्वमपि ध्रुवम् ॥१३॥किं करोमि क्व गच्छामि माया ज्ञानं छिनत्ति मेसुफलोत्पादकं शास्त्री रंभामूलमिवोल्बणा ॥१४॥धन्यो दशरथो राजा यो मृतो रामशोकतःधिङ्मां पुत्रस्य विश्लेषाद्धारयंती स्वजीवितम् ॥१५॥आगच्छ दर्शंन देहि तात मां परितारयवद वेदमयीं वाणीं पितुरग्रे गुणार्णव ॥१६॥नारद उवाच-एवं विलप्य तन्माता राजन्सा पतिता भुविदलनाद्राहुदत्तानां लेखा चांद्रमसी यथा ॥१७॥अथाजगाम विप्रर्षिर्विमलो नृपसत्तमःदृष्ट्वा तां पतितां भूमौ किंकिमित्यभ्यभाषत ॥१८॥कस्मादियं कीर्णकेशव्यस्तवस्त्रविभूषणापतिता भुवि कल्याणं हरिदत्तस्य विद्यते ॥१९॥तस्यावयस्यास्ताः सर्वाः प्रोचुस्तं विमलं नृपवयस्या ऊचुः -अधीत्य वेदांस्ते पुत्रो दत्त्वा च गुरुदक्षिणाम् ॥२०॥नारायणपरो भूत्वा प्राव्रजद्धरिदत्तकःतस्य विश्लेषशोकेन पतितेयं धरातले ॥२१॥नारद उवाच-इत्याकर्ण्य वचस्तासां विमलो बुद्धिमत्तरःप्राबोधयन्निजां भार्यामिति वागमृतेन सः ॥२२॥विमल उवाच-उत्तिष्ठ जाये शृणु वाक्यमीरितं मया किमर्थं पतिता विषीदसिधन्यः सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् ॥२३॥धन्या त्वमप्यस्य जनि प्रदायिनी यस्याः सुतस्ते हरिपादभागभूत्संतारयिष्यत्यपि मामसंशयं कुलं कुलोत्थानपि पूरुषान्शुभे ॥२४॥क्व विश्वमेकतच्च पतच्चलं क्व सेवनं शाश्वतलोकदं हरेःमत्वेति भेजुर्भरतादयो नृपा यथा हरिं साध्वि तथैव ते सुतः ॥२५॥दारा धनागार शरीरबांधवा एते भवंति प्रतिजन्मदुःखदाःतावन्नयावद्धरिपादपल्लवं भजेत धीरोऽखिलकामवर्जितः ॥२६॥नारद उवाच-एवं प्रबोधिता तेन धीरेण धरणीतलात्उत्थाय निजभर्तारमब्रवीद्दीनया गिरा ॥२७॥भार्योवाचसर्वं जानाम्यहं कांत यत्त्वया साधुभाषितम्कुलधुर्यं न पश्यामि यतस्तप्यामि वै भृशम् ॥२८॥पुत्रे सति महत्तीर्थे किं वा केशवसेवयागृह एवावयोर्मृत्युश्चेत्स्याल्लोकद्वयं तदा ॥२९॥सत्पुत्रोत्पादने यत्नः कर्त्तव्यः खलु मानवैःतारयंति पितॄन्पुत्रा यतः संसारवारिधैः ॥३०॥स्रष्टारं सर्वजंतूनां धातारं पुत्रकाम्ययाभज वांछसि चेत्पुत्रं कुलधुर्यं महामते ॥३१॥नारद उवाच-इत्याकर्ण्यवचस्तस्याः प्रत्याह विमलो द्विजःब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया ॥३२॥इत्युक्त्वा चलितः सोऽथ हरिद्वारमगाद्द्विजःस्नात्वा तत्रापि विधिवदिंद्रप्रस्थमथागमत् ॥३३॥कतिभिर्वासरैर्वीर सायंकालेऽखिलार्थिदम्स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातटे ॥३४॥निशीथे स्वपतस्तस्य विमलस्यांतिके विधिःहंसमारुह्य देवेशस्तीर्थैः सर्वैरनुद्रुतः ॥३५॥आगत्योत्थापयामास विमलं पुत्रवांच्छकम्उवाच च सुरश्रेष्ठो वचनं मधुराक्षरम् ॥३६॥ब्रह्मोवाच-जाने समीतिं चित्तं त्वदीये मनसि स्थितम्न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु ॥३७॥एकदा मेरुशिखरे मिलिताः सर्वदेवताःतुष्टुवुर्मद्भवमुखा माधवं कार्यसिद्धये ॥३८॥स्तुतो स्मदादिविबुधैः कृपया भगवान्हरिःप्रसन्नोभूत्तदा विष्णुर्वृणुध्वमिति चाब्रवीत् ॥३९॥इत्युक्तास्तेन ते देवा यथाभिलषितं वरम्श्रीपतेः प्राप्य ते जग्मुः सर्वे स्वं स्वं निकेतनम् ॥४०॥मयोक्तमिति देवेश देहि मे वरमुत्तमम्प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदम् ॥४१॥ततः शतगुणं भूयाद्दिवतीयं क्षेत्रकं ममइंद्रप्रस्थगतं सम्यग्वृत्तं त्वत्तो मयानघ ॥४२॥इत्याकर्ण्य वचो मह्यं भगवानाह मां तदातथास्त्विति पुनर्वाचमुवाच श्रूयतां वचः ॥४३॥श्रीभगवानुवाचइंद्रस्य खांडवारण्ये इंद्रप्रस्थाभिधं शुभम्क्षेत्रं कलिंदजातीरे मत्तुल्यास्तत्र ये मृताः ॥४४॥विरिंचे रचिता तत्र स्वकीया द्वारकापुरीमया शतगुणांभोधी तीरस्थायाः पुरा गुणैः ॥४५॥तामुल्लंघ्य नरो यस्तु तीर्थमन्यन्निषेव्यतेन तीर्थफलमाप्नोति स पुमान्न मृषोदितम् ॥४६॥सर्वतीर्थोदितं पुण्यं शक्रतीर्थे लभेन्नरःद्वारका च पुरी मायातीर्थमन्यच्च रक्षति ॥४७॥यो निमज्ज्यान्यतीर्थेषु कृत्वा च विविधां क्रियाम्अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति स ध्रुवम् ॥४८॥इत्युक्त्वांतर्द्धधे विष्णुरहमप्यगमं स्वकम्लोकं द्विजेंद्र वैकुंठादधोभागे व्यवस्थितम् ॥४९॥प्रयागान्मामकात्क्षेत्रात्काशी शतगुणा स्मृताकाश्याः शतगुणं तीर्थं निगमोद्बोधकं तथा ॥५०॥तीर्थसप्तकमेतत्तु त्रयं तुल्यफलं स्मृतम्एतत्त्रयमनुल्लंघ्य यो गच्छति सितासितम् ॥५१॥तस्याहं वांछितं विप्र ददामि खलु नान्यथाकेचिदाहुः सप्तपुरी समपुण्या महर्षयः ॥५२॥अयोध्याद्याः शतं ताभ्य इंद्रप्रस्थं प्रचक्षतेत्वमत्रागत्य विप्रेंद्र सर्वकामफलप्रदे ॥५३॥तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुतेच्छयायावंति सर्वतीर्थानि ब्रह्मांडकलशोदरे ॥५४॥तेभ्यो परिमितं पुण्यं शतनामनि कीर्तितेसुतं ते कुलधौरेयं तीर्थमेतत्प्रदास्यति ॥५५॥स्नानाच्च तव गोविंदः प्रसन्नात्मा भविष्यतिनारद उवाच-इत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोधते ॥५६॥विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत्इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे ॥५७॥सुतं वंशकरं देहि मह्यंभक्ताय ते नमःइत्युक्ते तेन विप्रेण देववागभवत्तदा ॥५८॥देववागुवाच-पुत्रस्ते धर्म्मतत्वज्ञो वंशकर्त्ता भविष्यतिप्रसादादस्य तीर्थस्य सर्वतीर्थशिरोमणेः ॥५९॥याहि गेहं विलंबं मा सुकृतं तेन मज्जनम्नारद उवाच-इत्याकर्ण्य सतां वाणीं विश्वस्तः पुत्रजन्मनि ॥६०॥चचाल जलमादाय द्वारकायाः कमंडलौमार्गे तस्य सखा विप्रो मलयाचलकेतनः ॥६१॥मीलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतःतस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकम् ॥६२॥यद्भूतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिस्मयेउवाच स च धर्मात्मा सखे मम वचः शृणु ॥६३॥यावंति भारते क्षेत्रे तीर्थानि विहितानि मेतावंति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमम् ॥६४॥नीत्वा मां दर्शय सखे तत्तीर्थं सर्वकामदम्सखायस्ते वरा भूमावुपकुर्वंति ये सखीन् ॥६५॥न तैर्ननु समो लोके पितामाताऽथवा सुतःनिर्द्धनं पुरुषं लोके सर्वे मुंचंति बांधवाः ॥६६॥न मुंचंति सखायस्तु तस्य दुःखेन दुःखिताःसंसारार्णवनिर्मग्नान्सखीनुद्धरते सखा ॥६७॥उपदिश्य हरेर्भक्तिमार्गं जन्मेंधनानलम्अतस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे ॥६८॥दर्शयैतद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज ॥६९॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिंतायामुत्तरखंडे कालिंदीमाहात्म्ये सप्ताधिकद्विशततमोऽध्यायः ॥२०७॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP