संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २६

उत्तरखण्डः - अध्यायः २६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
गुणाधिकेभ्यो विप्रेभ्यो दातुकामोऽपि मानवः
कानिकानि च लोकेऽस्मिन्दद्यात्सर्वं तथा वद ॥१॥
महादेव उवाच-
लोके तत्वं हि संज्ञाय शृणु देवर्षिसत्तम
अन्नमेवं प्रशंसंति सर्वमन्ने प्रतिष्ठितम् ॥२॥
तस्मादन्नं विशेषेण दातुमिच्छंति मानवाः
अन्नेन सदृशं दानं न भूतं न भविष्यति ॥३॥
अन्नेन धार्यते विश्वं जगत्स्थावरजंगमम्
अन्नमूर्जस्करं लोके प्राणाह्यन्ने प्रतिष्ठिताः ॥४॥
दातव्यं भक्ष्यमेवान्नं ब्राह्मणाय महात्मने
कुटुंबं पीडयित्वापि आत्मनो भूतिमिच्छता ॥५॥
नारदासौ विदांश्रेष्ठो यो दद्यादन्नमर्थिने
ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ॥६॥
आत्मीयभूतिमन्विच्छेत्काले द्विजमुपस्थितम्
श्रांतमध्वनि वर्त्तंतं गृहस्थं गृहमागतम् ॥७॥
अन्नदः प्राप्नुते विद्वान्सुशीलो वीतमत्सरः
क्रोधमुत्पतितं हित्वा दिवि चेह च यत्सुखम् ॥८॥
नाभिनिंदेच्च अतिथिं न द्रुह्याच्च कथंचन
ब्रह्मविदेऽर्पयेदन्नं तच्च दानं विशिष्यते ॥९॥
श्रांतायादृष्टपूर्वाय अन्नमध्वनि वर्तिने
यो दद्याच्च परिक्लिष्टं सर्वधर्ममवाप्नुयात् ॥१०॥
पितृदेवांस्तथा विप्रातिथींश्च महामुने
यो नरः प्रीणयेतान्नैस्तस्य पुण्यमनंतकम् ॥११॥
कृत्वापि सुमहत्पापं यो दद्यादन्नमर्थिने
ब्राह्मणाय विशेषेण स तु पापैः प्रमुच्यते ॥१२॥
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महत्फलम्
अन्नदानं च शूद्रे च ब्राह्मणे चावशिष्यते ॥१३॥
न पृच्छेद्गोत्रचरणं न च स्वाध्यायमेव च
भिक्षुको ब्राह्मणो ह्यत्र दद्यादन्नं प्रयाति च ॥१४॥
अन्नदस्य शुभा वृक्षाः सर्वकामफलान्विताः
संभवंतीह लोके च हर्षयुक्तास्त्रिविष्टपे ॥१५॥
अन्नदानेन ये लोकास्तान्शृणुष्वमहामुने
विमानानि प्रकाशंते दिवि तेषां महात्मनाम् ॥१६॥
नानासंस्थानरूपाणि नानाकामान्वितानि च
सर्वकामफलाश्चापि वृक्षा भुवनसंस्थिताः ॥१७॥
हेमवाप्यः शुभाः सर्वा दीर्घिकाश्चैव सर्वशः
घोषवंति च यानानि मुक्तान्यथ सहस्रशः ॥१८
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च
क्षीरं स्रवंत्यः सरितस्तथैवाज्यस्य पर्वताः ॥१९॥
प्रासादाः शुभ्रवर्णाभाः शय्याश्च कनकोज्वलाः
तदन्नं दातुमिच्छंति तस्मादन्नप्रदो भवेत् ॥२०॥
एते लोकाः पुण्यकृतामन्नदानं महत्फलम्
तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि ॥२१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे
उमापतिनारदसंवादे अन्नदानप्रशंसानाम षड्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP