संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २१० उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २१० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २१० Translation - भाषांतर नारद उवाच-एवं प्रबोध्य तान्सर्वान्वचोभिः पारमार्थिकैःस हंसः कारयामास क्रियास्तस्यात्मसंभवाः ॥१॥अंतर्वत्नी मुकुंदस्य निर्बंधं कुर्वती वधूःअनुगंतुं स्वभर्तारं विदुषा तेन वारिता ॥२॥तस्यास्थीनि समादाय तेन सन्यासिना समम्तद्भ्राता प्रययौ गंगाजले पातयितुं नृप ॥३॥विप्रसन्यासिनौ तौ हि कतिभिर्वासरैर्नृपसार्थलोकवशात्प्राप्तौ इंद्रप्रस्थेऽत्र सत्पदे ॥४॥इंद्रप्रस्थांतरावर्तिन्येषा या कोशला नृपअत्र सुप्तौ निशायां तौ यमुनातीरभूतले ॥५॥आत्मनोरुभयोर्मध्ये न्यस्यास्थिपटसंपुटम्मार्गखेदपरिक्रांतौ दशां सौषुप्तिकीं गतौ ॥६॥निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चनएकः श्वा तत्र संप्राप्तः पक्वान्नादि जिहीर्षया ॥७॥बभ्राम सर्वशिविरे जिघ्रन्पाकस्थलीं मुहुःभाजनानि लिहन्मूर्ध्नि क्व च दंडाहतिं सहन् ॥८॥केनचित्ताडितो मूर्ध्नि निशब्दं विद्रुतस्ततःप्रतिचक्रुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा ॥९॥यत्रावकंडितः स श्वा दंडग्रावेष्टकादिभिःपुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया ॥१०॥भोगेच्छया यथा वेश्या स्नेहवान्निर्द्धनो जनःभ्रमन्नेवं स चात्रापि यत्र सुप्तौ हि तावुभौ ॥११॥सारमेयस्तयोर्मध्याज्जह्रे स पटसंपुटम्नीत्वा स कियतीं भूमिं दंतैस्तत्पटसंपुटम् ॥१२॥विदार्यास्थीनि तत्स्थानि निर्मांसान्यवलोक्य सःएतस्याः कोशलायास्तु जलमध्ये समाक्षिपत् ॥१३॥क्षिप्तमात्रेषु तेनास्थिष्वेतदंबुनि भूपतेदिव्यं विमानमास्थाय मुकुंदोऽत्र समागतः ॥१४॥दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदाउवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप ॥१५॥मुकुंद उवाचवेदायन गुरो तुभ्यं नम आशीस्तवानुजप्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै ॥१६॥अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम्एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः ॥१७॥त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतःअहं गच्छन्विमानेन दिव्येन त्रिदशालयम् ॥१८॥नमस्कृतो भवानेतत्तीर्थ चायं सहोदरःदृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम् ॥१९॥नारद उवाच-श्रुत्वैवं वचनं तस्य मुकुंदस्य गुरुस्तदावेदायनो विमानस्थं तमूचे गतविस्मयः ॥२०॥देवायन उवाच-मुकुंदाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान्कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम् ॥२१॥किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपःकीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद ॥२२॥मुकुंद उवाच-कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनुतीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना ॥२३॥यदाहं तेन निहतश्चंडकेन दुरात्मनानापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः ॥२४॥पिंगाक्षा रक्तकेशाश्च श्यामदेह नखाधराःवामना दीर्घचरणा ह्रस्वनासाश्च दंतुराः ॥२५॥नीयतां नीयतामेष धर्मराजस्य शासनात्पुरीं संयमनीमेवमूचिरे ते परस्परम् ॥२६॥इत्युक्त्वा यातना देहे मां निवेश्य महारुषानिबध्य दारुणैः पाशैर्जघ्नुर्लोहस्य मुद्गरैः ॥२७॥तैरहं नीयमानस्तु मार्गे ह्युत्तप्तवालुकेअरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः ॥२८॥प्रोचुश्च ते ध्रुवं कृत्वा निर्भर्त्स्येति च मां बहुयमदूता ऊचुःत्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्म निश्चलम् ॥२९॥किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखम्तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया ॥३०॥तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान्इत्युक्त्वा मां मुहूर्तेन बहुयोजनसंस्थिताम् ॥३१॥पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमःप्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः ॥३२॥आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन्दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः ॥३३॥यम उवाच-भो सभ्या मामकीं वाचं शृण्वंतु सुसमाहिताःयदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः ॥३४॥तदा मामित्युवाचासौ ब्रह्मा लोकपितामहःब्रह्मोवाच-अधर्मिणां नराणां त्वं शास्ता संयमनीपतिः ॥३५॥यथापराधमाधत्स्व दंडं चंडकरात्मजपित्रोरपोषको यस्तु समर्थो गुरुध्रुक्तु यःएतौ महापातकिनौ निपात्यौ निरयेषु ते ॥३६॥सर्वेषु यावद्वर्षाणां प्रत्येकमयुतं भवेत्एतयोर्न त्वया कार्या दया जातु ककुप्पते ॥३७॥यम उवाच-इत्यहं ब्रह्मणो वाक्यात्स्वगुरुद्रुहि मानवेन करोमि क्रियां सभ्यास्तथा पित्रोरपोषके ॥३८॥ब्राह्मणोऽयं गुरुद्रोही तद्द्रोहादपमृत्युताम्प्राप्तो मच्छासनाद्भृत्यैरानीतो दर्शनाक्षमः ॥३९॥भो भृत्याः प्रथमं घोरे रौरवे वत्सरायुतेपात्यतां च पुनस्तस्मान्निःसार्य्यान्यत्र पात्यताम् ॥४०॥तावंतमेव कालं वै पापोऽयं गुरुलोपकःनरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतम् ॥४१॥मुकुंद उवाच-वेदायन गुरो स्वामिन्भृत्यास्ते यमशासनात्नीत्वा मां रौरवे घोरे पाशैर्बध्वा न्यपातयन् ॥४२॥तत्राहं तां व्यथां गुर्वी लब्धवानतिदारुणाम्यथाकोऽपि क्षणस्तात नीतो मे युगवत्तदा ॥४३॥त्रिंशद्दिनानि तन्नीतं दुःखं मे तत्र तिष्ठताएकत्रिंशतमे ह्यस्मिन्दिनेऽहं निर्गतस्तदा ॥४४॥पतितेष्वस्थिखंडेषु तीर्थेऽस्मिन्नुतमोत्तमेगुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत ॥४५॥तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गतिर्मयासुखं स्वर्गे निवत्स्यामि यावदिंद्राश्चतुर्दश ॥४६॥यमस्य नगरे तस्मिन्याः प्रजा निवसंति वैपापिनां भयदायिन्यो धर्मिणां ता मनोहराः ॥४७॥सिंहास्या गजकोलास्या महादंष्ट्रोन्नतोदरीःबिडालास्याः पिंगकेश्यो भामिन्यो दीर्घपत्कराः ॥४८॥तीर्थस्यास्य प्रसादेन निःपापोहं यदाभवम्तदा मया प्रजा दृष्टा दिव्यरूपा यमालये ॥४९॥सर्वास्ताः सत्यवादिन्यो विनयाचारसंचिताःदिव्याभरणधारिण्यो दिव्यांबरविभूषिताः ॥५०॥इत्येतत्कथितं तात यत्पृष्टोऽहं त्वयानघअनुजानीहि मां गंतुममरेशपुरीं प्रति ॥५१॥नारद उवाच-इत्याकर्ण्य स सन्यासी स्वशिष्योक्तं वचस्तदाभूयः पप्रच्छ धर्मात्मा मुकुंदं तं द्विजं नृप ॥५२॥वेदायन उवाच-बाल्यावधि गुरुस्नेहं मत्तोऽधीतं त्वयाखिलम्शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः ॥५३॥विहिता मम शुश्रूषा भावेन भवतोत्तमात्वयि संति सतां साधो गुणाः शमदमादयः ॥५४॥गुरुलोपकृतं पापं कथं ते समजायतएतदाख्याहि मे तात यथा जानामि तत्वतः ॥५५॥मुकुंद उवाच-जन्मोपवीतकन्यानां धातारो निगमस्य चयज्ञोपवीतदातुश्च नाज्ञाभंगः कृतो मया ॥५६॥श्वश्रुश्वशुरयोः सेवा भृत्येनेव कृता मयातवापि शास्त्रदातुश्च नाज्ञाभंगः कृतो मया ॥५७॥पुरोधा यः कुलाचार्यो वेदवेदांतपारगःतस्यापराद्धं केचिन्मे तत्र त्वं श्रोतुमर्हसि ॥५८॥यद्यस्माकं कुले पुत्रो जायते धर्मकोविदतदा पुरोधसे धेनुमेकां वा तस्य दक्षिणाम् ॥५९॥दत्त्वा संच्छिद्यते नालमिति वंशस्य नः स्थितिःपुरा ममैव पुत्रे तु जातमात्रे शुभेऽहनि ॥६०॥कुलक्रिया मया तात न कृता मूढबुद्धिनातस्याश्चाकरणेनैव गुरुलोपकरोऽभवम् ॥६१॥निवेदितमिदं सर्वं गुरुलोपाद्यथा ममपापमासीदनुज्ञा मे देहि यामि सुरालयम् ॥६२॥वेदायन उवाच-इंद्रप्रस्थांतरावर्तिन्येषा या कोशला शुभास्मृतिरस्याः प्रसादेन दृश्यते पूर्वजन्मनः ॥६३॥केन पुण्येन तीर्थेऽस्मिन्नस्थीनि पतितानि तेमुकुंदाख्याहि चैतस्य स्मृतिरस्ति तवानघ ॥६४॥मुकंद उवाच-एकस्तु ब्राह्मणः कश्चित्सायं मद्गृहमागतःतस्मै स्थानं मया दत्तं भोजनं च यथाविधि ॥६५॥सोऽपि भुक्त्वा यथाकामं सुष्वाप शयने शुभेनिशीथे तस्य सर्वांगे ज्वरोऽभूदति दारुणः ॥६६॥तेन पीडितसर्वांगो निद्रां लेभे न स द्विजःप्रभात एव तत्याज प्राणान्मृत्यावुपस्थिते ॥६७॥तस्य दाहादि कर्माणि विहितानि मया गुरोतदस्थीनि च गंगायां पातितानि विधानतः ॥६८॥तेन पुण्येन मेस्थीनि पतितानि शिवप्रदेतीर्थेऽस्मिन्कोशले नाम्नि ब्रह्मदेवविनिर्मिते ॥६९॥नारद उवाच-स्वचरितमितिराजन्स द्विजः प्रोच्य सद्यः सुरसुभगशरीरो द्यां ययौ यानगत्याइदमकथित मया तं तस्करात्प्राप्य मृत्युं व्यलभत दिवमेतत्तीर्थराजप्रसादात् ॥७०॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मुकुंदोपाख्याने दशाधिकद्विशततमोऽध्यायः ॥२१०॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP