संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १८ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १८ Translation - भाषांतर श्रीनारद उवाच-अथ जालंधरः प्राह रक्षात्मानमितः शिवम्शिवाद्य त्वां क्षिपाम्याशु यत्रास्ते मधुसूदनः ॥१॥पश्चाद्ब्रह्माणमाकृष्य पातयिष्यामि सागरेधृतेषु युष्मासु यदा तदा सर्वेश्वरो ह्यहम् ॥२॥इत्युक्त्वा सैन्यसंभारं न्यस्य शुंभासुरादिषुभटैर्गुप्तं निशुंभाद्यैश्चतुरंगमनंतकम् ॥३॥शुंभो निशुंभः फेंकारो फेरुंडो धूम्रलोचनःकेतुर्बिडालजंघश्च राहुर्दुर्वारणो यमः ॥४॥कालासुरोऽथ लवणो भूमिरेतोंधकासुरःरक्तवीर्यादयश्चंडी चामुंडी दैत्यपुंगवाः ॥५॥सर्वानेवोद्यतान्दृष्ट्वा संख्ये दानवपुंगवान्रुरुधुः समरे राजन्वीरभद्रादयो गणाः ॥६॥ततो युद्धमभूद्धोरं तुमुलं लोमहर्षणम्पतंति प्रथमा यत्र दैत्याश्चापि क्षतातुराः ॥७॥अथ शुंभादिभिर्दैत्यैः सर्वशस्त्रैर्महामृधेहताः पेतुर्गणाश्चान्ये पलायांचक्रिरे नृप ॥८॥गणान्विजित्य समरे रुरुधुर्दानवाः शिवम्वर्षंतः शरधाराभिर्घना मेरुगिरिं यथा ॥९॥ततः पिनाकमाकृष्य वृषभोपरि भैरवःजघान बाणनिवहैर्दानवान्समरांगणेतीक्ष्णाग्रैस्तु क्षुरप्रौघैर्दानवानहनद्बली ॥१०॥केचिन्नंदिप्रहारेण पेतुः संग्राममूर्धनिबाणैश्च जर्जरान्कृत्वा शुंभादीन्वृषभध्वजः ॥११॥शेषं सैन्यं जघानाशु शस्त्रास्त्रैः समरांगणेगजैर्नरैर्हयैर्व्याप्तं पतितैः समरांगणम् ॥१२॥बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम्अथ मायामयीं गौरीं विदधे सिंधुनंदनः ॥१३॥सौंदर्यगुणसंपन्नां सर्वालंकारभूषिताम्जयां मायामयीं कृत्वा समुवाचाब्धिनंदनः ॥१४॥गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम्इत्युक्त्वा दैत्यपतिना ययौ मायामयी जया ॥१५॥रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद हपृष्टा हरेण सा प्राह मानसोत्तरपर्वतात् ॥१६॥हृता तव प्रिया देव पार्वती सिंधुसूनुनाश्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः ॥१७॥जये त्वमेहि वृषभं त्वां हरिष्यंति दानवाःततो वृषभमारुह्य जया चालिंग्य शंकरम् ॥१८॥प्राह प्रयामि पार्वत्या न जीवामि विना हरचंद्रं शंभुजटाविष्टं गृहीत्वा वृषभाद्द्रुतम् ॥१९॥अवारोहत सा माया मायाष्वक्तो रणं ययौततो गौरीं हृतां श्रुत्वा चिंतयामास शंकरः ॥२०॥दैत्यमायापरिष्वक्तो नात्मानं बुबुधे नृपएतस्मिन्नंतरे प्राप्तः सैन्येन महता वृतः ॥२१॥मायामृडानीं स्वरथे निधायार्णवजः शिवम्जालंधरजये तद्वदासीद्वादित्रनिस्वनः ॥२२॥चचाल वसुधा येन प्रतिनेदुर्महीधराःहरस्य दर्शयामास पार्वतीं सिंधुनंदनः ॥२३॥रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम्वियोगविधुरां दीनां तन्वीमातुरलोचनाम् ॥२४॥हा नाथ प्रिय रुद्रेति प्रजल्पंतीं पुनः पुनःप्रौढवैरिरथे दृष्ट्वा पाखंडिस्थां यथा श्रुतिम् ॥२५॥गौरीं दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मयाविललाप ततः शंभुर्दैत्यमायाविमोहितः ॥२६॥मोहो मे दानवैः कांते हृतासि त्वां कथं प्रियेशोकमोहप्लुतं दृष्ट्वा शंकरं सागरात्मजः ॥२७॥जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथासर्वप्रमाणशून्योऽसि स्मर शृंगारवर्जितः ॥२८॥ईश्वरोऽपि वराकस्त्वं संजातोंबिकया विनामा रोदीर्हि विरूपाक्ष ददामि तव वल्लभाम् ॥२९॥रक्षितोऽसि मया रुद्र गृहीत्वा पार्वतीं रणात्इत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरथादुमाम् ॥३०॥सैन्यं संप्रेषयामास शंकराभिमुखं किलहरोऽपि वृषभेणाशु तत्सैन्यं समधावत ॥३१॥गृहीतुं पार्वतीं पाहि त्राहित्राहीति जल्पतीम्यावद्गृह्णाति तां गौरीं करेण वृषभध्वजः ॥३२तावच्छुंभासुरः शीघ्रं गृहीत्वा चांबरे स्थितःशूलं मुमोच बलवान्हंतुं शुंभासुरं हरः ॥३३॥शुंभेन सा परित्यक्ता शूलोपरि पपात हरुदंती चारुसर्वांगी त्यक्ता शूलेन संयुता ॥३४॥पतिता शंकरस्याग्रे तथेत्युक्त्वा ममार चमायागौरीं मृतां दृष्ट्वा शोकमोहपरिप्लुतः ॥३५हा प्रियेति रुदन्रुद्रः पपात भुवि मूर्च्छितःक्षणं संज्ञामवाप्याथ रणभूमावुमापतिःशशाप शुंभप्रमुखान्गौरी युष्मान्हनिष्यति ॥३६॥नारद उवाच-अथ शुंभादयो दैत्या रणे देव्या निपातिताःमहेश्वरस्य शापेन गते मंन्वतरे नृप ॥३७॥शपित्वा तान्रुरोदाथ जल्पन्निर्गत्य शंकरःक्व गतासि प्रियेत्युक्त्वा दुःखितं मां रणांगणे ॥३८॥रतिं त्यक्त्वा वियोगार्तः श्रीकंठोऽहं त्वया कृतःवासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये ॥३९॥यज्ञे दक्षस्याग्निकुंडे शिरो देवि हुतं त्वयाभूयो हि भवती लब्धा कथं त्यजसि मां पुनः ॥४०॥उतिष्ठोतिष्ठ चार्वंगि गिरिजे मां प्रबोधयअत्रांतरे शिवं ज्ञात्वा दैत्यमायाविमोहितम् ॥४१॥देवतागणमध्यस्थो ह्यंतरिक्षादुपागमत्विलपंतमुवाचेदमदृश्यः कमलासनः ॥४२॥ब्रह्मोवाच-त्वं शोकमोहपितृमातृविवर्जितोऽसि दुःखं सुखं सुतकलत्ररिपुर्न चास्तिजातोऽसि नैव जनकेन जनिष्यमाणस्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः ॥४३॥एकोऽसि नाथ बहुधा कृतविग्रहोऽसि सूर्यो यथा जलधिवीचिषु दृश्यमानःध्यानेन यांति यमिनस्तव पादमूलं रूपं परं दुरवबोधमवाच्यमेव ॥४४नैषा प्रिया तव समानतया विपन्ना जालंधरेण रचितां जहि देव मायाम्सा पार्वती कमलकोशगता हि शंभो युद्धस्व वैरिनिवहं जहि पाहि चास्मान् ॥४५॥श्रुत्वेति ब्रह्मणो वाक्यमवबुद्धो महेश्वरःज्ञात्वा तां दानवीमायां मुमोच महती शिलाम् ॥४६॥तया जघान समरे दैत्यकोटिशतत्रयम्ततो वृषभमारुह्य क्रोधेन महता नृप ॥४७॥धनुः पिनाकं युद्धाय धूर्जटिर्जगृहे शरान्अथ मायापरित्यक्तं शर्वमालोक्य सिंधुजः ॥४८॥सुरेशमोहनं मायाजालमत्यद्भुतं नृपअन्यदाविश्चकाराशु भृशं मायामहाबलम् ॥४९॥जालंधरः कोटिभुजो बभूव वृक्षास्त्रशस्त्रैर्युयुधे वृषांकम्अथांतराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमंडिताम् ॥५०॥देवतायतनै रम्यैर्नानापुष्पसमाकुलैःमंडितां नृप भूमिं च चकारोदधिनंदनःनृत्यंति यत्राप्सरसो मेनकाद्या मनोहरा ॥५१॥विस्मृत्य शंभुस्तदपास्यकार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितःवादित्रगीतैर्भुवि मोहितो भृशं दैत्येंद्रमायामय तांडवेन सः ॥५२॥विमोहितं वीक्ष्य वृषस्थितं हरं नित्यं समुद्रः सह तांडवेनगीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम् ॥५३॥जंतून्क्षिप्त्वोदधौ तांश्च सहस्रं स ततोत्सवःक्व च ता देवताः सर्वाः क्व नंदिप्रमुखा गणाः ॥५४॥अपि त्वं माननीयोऽसि मोहितो दैत्यमाययाकिमद्य शंभो भगवन्नुपेक्ष्यते उदीर्यचक्रं जठरस्थितं च ॥५५॥वधाय चास्यैव कृतं महेश जालंधरं संहरते न चाजौइति कृष्णस्य वचनात्तत्स्मृत्वात्मानमीश्वरम् ॥५६॥आरुह्य वृषभं शीघ्रमाजगाम महारणम्तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः ॥५७॥रुरोध समरे राजन्क्रुद्धो जालंधरोऽसुरःहरस्य कुपितस्यासीत्सृष्टिसंहारकारकम् ॥५८॥रूपं तृतीयनेत्राग्नौ दानवाः शलभा यथारुपं दृष्ट्वा भगवतो रौद्रज्वालामयं नृप ॥५९॥शुंभादयस्तदा दैत्या राहुप्रभृतयश्च येरुद्रं निरीक्ष्य संत्रस्ताः पातालं विविशुर्भयात् ॥६०॥सेनाभटाननेकांश्च हतान्दृष्ट्वा महामृधेशुंभादीन्हतशेषांस्तान्दृष्ट्वात्मानं पलायितान् ॥६१॥तदा जालंधरः संख्ये एको गिरिरिवस्थितःपरमार्थं रुद्ररूपं हृष्टः साक्षाद्विलोकयन् ॥६२॥ततो जालंधरः प्राह महादेवं प्रहस्य चरूपं संहर येन त्वं दहसे सचराचरम् ॥६३॥शस्त्रेण कुरु संग्रामं त्यक्त्वा योगबलं निजम्इति जालंधरवचः श्रुत्वोवाच ततः शिवः ॥६४॥वरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणाईदृक्षमपि मद्रूपं दृष्ट्वा यन्निर्भयोऽधुना ॥६५॥अपि ब्रह्मांडमखिलं मद्रूपस्यास्य दानवतेजसो वीक्षणेनालं तत्र त्वमसि निर्भयः ॥६६॥नारद उवाच-इति शंभोः प्रसादं च मत्वा संसारनिस्पृहःजालंधरो हराद्वव्रे मुक्तिं सायुज्यतां पराम् ॥६७॥श्रीमहादेव उवाच-दिव्यं देहमिदं दैत्य भोगसिद्धियुतं तववृंदा मनोहरं रम्यमिहस्थं कालमश्नुते ॥६८॥मुहूर्तं परमात्मानं तमेकाकिनमव्ययम्अबुद्ध्वा त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि ॥६९॥वृंदा तव प्रिया राज्ञी हृता सा योगमाययाब्रह्मस्वरूपं विज्ञाय प्राप्ता तत्परमं पदम् ॥७०॥इदानीं दुर्ल्लभा सा च तत्पदं चैव दुर्ल्लभम्स्वर्गापवर्गयोर्मध्ये संसारे वरमाप्नुहि ॥७१॥जालंधर उवाच-देवमुक्तपदं लभ्यं कृतकृत्येन केनचित्इदानीं कृतकृत्योऽस्मि यत्त्वां पश्ये त्वया हतः ॥७२॥शिव उवाच-मत्स्थानं परमं क्षेत्रं यदि त्वं गंतुमुत्सुकःतर्हि मां कोपयस्वाशु दैत्यं हत्वा दृढैः शरैः ॥७३॥ततोऽहं त्वां हनिष्यामि मत्स्थानं यास्यसेऽनघमहेश्वरवचः श्रुत्वा प्राह जालंधरः शिवम् ॥७४॥त्वयि सर्वजगत्पूज्ये पूर्वं न प्रहराम्यहम् ॥७५॥नारद उवाच-एवमुक्तो जघानाशु सिंधुजं विशिखैः शिवःते शराः सिंधुपुत्रस्य देहलग्ना विभांति च ॥७६॥यथा लोहगिरिप्रांते वेणवो वह्निदीपिताःजालंधरो हरस्यांगं पूरयामास मार्गणैः ॥७७॥तैः शरैः शुशुभे रुद्रो यथा खं खेचराकुलम्जालंधरेशयोर्युद्धं तथा द्वंद्वमभून्नृप ॥७८॥हरादन्येन हंतास्ति न सोढान्योऽर्णवात्मजात्गिरिकोटिसहस्रैस्तु तदा पृथ्वीपुटोद्धृतैः ॥७९॥पूरयामास समरे सिंधुजः पार्वतीपतिम्ततः शूलेन निहतो रुद्रेणोरसि दानवः ॥८०॥निःससार मुखात्तस्य ज्वरो जंभो भयंकरःस च वीरज्वरोनाम सिंहवक्त्रो नराकृतिः ॥८१॥दैत्यदेहाद्विनिष्क्रांतं दृष्ट्वा सिंहमुखं ज्वरम्हुंकारमकरोद्घोरं शरभस्तत्र निर्ययौ ॥८२॥शिवस्य निःसृतेनासौ शरभेण निपातितःअजेयं शंकरं दृष्ट्वा वृषभेंद्रेण संयुतम् ॥८३॥आययौ वृषभाभ्याशे तरसा सागरात्मजःवृषं पुच्छे गृहीत्वा च भ्रामयामास चांबरे ॥८४॥जालंधरो महाबाहुश्चिक्षेप हिमवद्गिरौततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः ॥८५॥तद्धस्तेन गृहीत्वा च दैत्येशः शिवसन्निधौरथारूढो धनुर्गृह्य कालकेदारमब्धिजः ॥८६॥पूरयामास विशिखैः शिवमुर्वीतले स्थितम्उग्रः शस्त्राञ्छरान्छित्वा बाणै रथमचूर्णयत् ॥८७॥दशयोजनविस्तीर्णं सारथ्यश्व समन्वितम्जालंरोऽपि विरथो अभ्यधावन्मृधे शिवम् ॥८८॥तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणम्तद्दृष्ट्वाऽकांडकल्पांत शंकया तत्र सुःसुराः ॥८९॥सर्वास्त्रैस्तावदन्योन्यं जघ्नतुर्भीमविक्रमौपद्भिः पृथ्वीं चालयंतौ कंपयंतौ नभः स्वनैः ॥९०॥अथोत्कटं बलं दृष्ट्वा दानवेंद्रस्य शंकरःशस्त्रजालं जहाराशु योगमायाबलेन सः ॥९१॥ततः कोटिभुजो दैत्यो दंष्ट्रा भीषणलोचनःशस्त्रहीनोऽपि तरसा धावमानो हरं ययौ ॥९२॥विशालकरबंधेन बबंध समरे शिवम्ततस्तस्य कृपाणेन चिच्छेद करकाननम् ॥९३॥सिंधुजेन भुजाक्रांतो रुद्रोभून्नीललोहितःलीलया योधयामास रणेऽसौ सिंधुनंदनः ॥९४॥छिन्नहस्तोऽपि युयुधे स्वर्भानुः शिरसा यथानियुद्धेन नदीसूनुस्तोषयामास शंकरम् ॥९५॥परितुष्टोऽब्रवीच्छंभुर्वरं वरय दुर्लभम्जालंधरेणसोऽप्युक्तस्त्वं मे देह्यात्मनः पदम् ॥९६॥मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसिशीघ्रं प्रयच्छ मे सिद्धिं नोचेत्त्वां संहराम्यहम् ॥९७॥इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनोरसिततः सुदर्शनं चक्रं पुरा यन्निर्मितं स्वयम् ॥९८॥मुखादुद्गीर्य तद्धस्ते गृहीत्वा तोलयद्रुषासूर्यकोटिसहस्राभं ग्रसंतं सचराचरम् ॥९९॥तेन चक्रेण चिच्छेद शिरो जालंधरस्य चततस्तच्छीर्षमुत्प्लुत्य गगने शतयोजनम् ॥१००॥दंष्ट्रा शतकरालास्यं स्वर्भूमिनयनं च यत्व्याघ्रगत्या ततो यातं सदनं ब्रह्मणो नृप ॥१०१॥भूयः स्वर्गे ततो दृष्ट्वा मृडः शीर्षमधावतस्रवत्तद्रुधिरं भूरि प्रकुर्वद्भैरवस्वनम् ॥१०२॥ततो दिशः प्रणष्टास्ता गगनं विलयं गतम्न तेजसां प्रकाशोऽस्ति चचाल वसुधा भयात् ॥१०३॥आपतंतं जघानाशु रुद्रश्चक्रेण तच्छिरःद्विधा भूत्वाथ राजेंद्र पपात हिमवद्गिरौ ॥१०४॥ततो जालंधरस्याशु शिरसः शकले किलविशतः सर्वभूतानां पश्यतां स्म वृषाकपौ ॥१०५॥तस्य कंठात्समुद्भूता दैत्याः शतसहस्रशःते हतास्तेन चक्रेण कपर्दिकरशालिना ॥१०६॥जालंधरकबंधं तन्ननर्त रुधिरारुणम्पुनः पुनः समुद्भूतास्तस्य कंठात्तु दानवाः ॥१०७॥पुनः पुनर्बलवता छिन्नाश्चक्रेण शंभुनामेदसा सिंधुपुत्रस्य पूरिता सकला मही ॥१०८॥मेदिनी मेदसैवैषा ख्यातिं प्राप्ता तु पार्थिवयत्र दैत्यवरस्यास्य शोणितं शैलतां गतम् ॥१०९॥कैलासस्योत्तरे भागे तत्राभूच्छोणितं पुरम्अथ मांसचयान्दृष्ट्वा सर्वतो व्याप्य तिष्ठतः ॥११०॥तदा सस्मार देवेशश्चतुःषष्टिगणं रणेविज्ञानस्मरणाद्देव्यः संप्राप्ताः शंकरांतिकम् ॥१११॥कृतांजलिपुटाः प्रोचुः शिव किं करवामहे ॥११२॥महादेव उवाच-य एते दैत्यमांसस्य राशयो गिरिसन्निभाःभक्षयध्वं युताः शीघ्रं दत्तानुज्ञा मया तु वः ॥११३॥ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथावाराही चैव माहेंद्री सर्वाः स्वगणशोभिताः ॥११४॥एवं शंकरनिर्दिष्टा देव्यस्ता मांससंचयान्क्रूरेण चक्षुषालोक्य निन्युश्चादर्शनं क्षणात् ॥११५॥अथ जालंधरवपुः क्षीणं क्रांतं तु शक्तिभिःताभिर्ग्रस्ते शरीरे तु तस्य देहाद्विनिःसृता ॥११६॥प्रभासा शंकरं प्राप्ता जगामादर्शनं क्षणात्तत्तेजः सूर्यसंकाशं लयं प्राप्तं महेश्वरे ॥११७॥एवं स विलयं प्राप्तः त्रिदिशारिस्त्रिलोचनात्वृणुध्वं च वरं सर्वाः प्रीतः प्राह महेश्वरः ॥११८॥तदा ताः सर्वयोगिन्यः पप्रच्छुर्जगदीश्वरम्मर्त्यलोकेषु ये लोका भोगमोक्षवरेप्सवः ॥११९॥पूजयिष्यंति ते नित्यं स्वगृहे योगिनीगणम्तत्तेषां वांछितं सर्वं सिध्यतां त्वत्प्रसादतः ॥१२०॥महादेव उवाच-यः कश्चित्पूजयेन्नित्यं भक्तिभावसमन्वितःयुष्मद्गणं च तस्याहं वरदोऽस्मि धरातले ॥१२१॥मद्भक्तः केशवस्यापि द्वेष्टि यो योगिनीगणम्भैरवोऽहं तदा तस्य हरिष्ये सुकृतं कृतम् ॥१२२॥इति दत्तवरा हृष्टा योगिन्यो विभुना मृधेअत्रांतरे भवानीं तां सस्मार वृषभं हरः ॥१२३॥स्मृतमात्रा पार्वती सा वृषभश्चागमत्क्षणात्सखीगणसमायुक्ता संप्राप्ता हरवल्लभा ॥१२४॥संत्यक्त्वा भ्रामरीं मूर्तिं हरस्यार्द्धं समारुहत्गिरिजासहितो राजन्महेशो मुमुदे ततः ॥१२५॥योगिनीं प्रत्युवाचेदं पिबध्वं रुधिरं नृपजालंधरकबंधस्थं ताः श्रुत्वा जहृषुर्भृशम् ॥१२६॥मांसमेदोह्यसृक्पीत्वा योगिन्यो ननृतुर्मुदाततो हरः प्रसन्नोऽभूत्तासां क्रीडनवीक्षणात् ॥१२७॥स्वयं च भैरवं रूपं कृत्वा तन्मध्यगः पपौतीक्ष्णदंष्ट्रा महाकायास्तदासन्योगिनी गणाः ॥१२८॥ग्रसंतोऽद्यापि मांसानि काले चापि पिबंत्यसृक्तेन जालंधरो दैत्यो नोत्तिष्ठति रणे हतः ॥१२९॥ततस्तत्र समाजग्मुर्ब्रह्माद्या देवतागणाःऋषयो मरुतो देवा स्तुवंति स्म महेश्वरम् ॥१३०॥दिशः प्रसेदुः सुरभिर्ववौ मरुद्दिवः प्रपेतुर्भुवि पुष्पवृष्टयःकृताभिषेकस्य च तस्य निःस्वनान्संनादिता दुंदुभयोऽपि चक्रिरे ॥१३१॥उपरि परिमलांधैः सुस्वरं संपतद्भिर्मधुकरनिकुरं बैरुह्यमाणाभरेणअविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः ॥१३२॥हते तदा सिंधुसुते हरेण नाराचघातैस्त्रिजगत्तदा बभौप्रसूनवृष्टिर्ननृतुस्तदांगना जगुश्च यक्षाः सुरकिन्नराद्याः ॥१३३॥शंभुर्वैरिजयोत्थितेन यशसा स्फारांगकीर्तिर्गिरिंस्वं भेजे सुरसिद्धचारणगणैः संस्तूयमानः सदागौरी चापि जगाम चाशु गिरितः श्वेतःसखीसंवृता संचक्रुस्त्वभिसेवनं सुमनसां वर्षेण देवांगना ॥१३४॥देवोऽसौ करुणामयः सुरगणान्स्वे स्वे पदे स्थापयन्प्रादादन्यदपि स्वकं वसु ततो ज्ञात्वा पतिं शंकरःकिं वक्तव्यमतः परं यदि भवेदीशानुकंपा पराकोऽयं वा त्रिदिवो धरातलमिदं स्यादात्मसात्सर्वतः ॥१३५॥देवाः स्वराज्यमासाद्य यथापूर्वं चकाशिरेबुभुजुर्यज्ञभागांस्ते लोकपालत्वमाश्रिताः ॥१३६॥नारद उवाच-इति जालंधरस्योक्तं यथावदनुपूर्वशःचरितं लोकवीरस्य राजन्नत्यद्भुतं तव ॥१३७॥विष्णुस्त्यजति नाद्यापि क्षीराब्धिं यद्वशो नृपसर्वोऽपि भुंक्ते स्वं कर्म कर्म तद्विद्ध्यसंशयम् ॥१३८॥तुभ्यं दुःखनिरासाय प्रोक्तमाख्यानमुत्तमम्यावद्देहोस्ति कर्माणि सुखदुःखानि कर्मतः ॥१३९॥देही भुंक्ते वशो राजन्त्राणं न ज्ञानतः परम्कृष्णादीनां देहबंधे सुखदुःखादि वर्तते ॥१४०॥तत्रेतरेषां किं वाच्यं ये वैराग्यपराङ्मुखाःज्ञात्वेदृशीं कर्मगतिं सर्वेभ्यो बलवत्तमाम् ॥१४१॥धीरो भव प्रतीक्षस्व शुभकर्मागमं पुनःशत्रून्जित्वा तु समये स्वं राज्यं पुनराप्स्यसि ॥१४२॥इतिहासमिमं श्रुत्वा न दुःखै परिभूयतेधर्मार्थकाममोक्षाश्च यथावच्चात्र कीर्त्तिताः ॥१४३॥स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम्ब्राह्मणो ज्ञानमाप्नोति राज्यं प्राप्नोति क्षत्रियः ॥१४४॥वैश्यश्च बह्वीं संपत्तिं श्रुत्वा शूद्रः सुखं लभेत्यो राजा भ्रष्टराज्योऽपि रतः सन्नेव सत्पथि ॥१४५॥स राज्यं पुनराप्नोति श्रवणान्नित्यमस्य तुआकर्ण्यैतत्सतां राजन्श्राव्यमन्यन्न रोचते ॥१४६॥कलं च कोकिलालापं रूक्षं ध्वांक्षरुतं यथाआख्यानमेतदनघं श्रुत्वा सज्जनहृत्प्रियः ॥१४७॥हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानतःसंतोषयेद्वाचकं तु तस्मिंस्तुष्टे फलं लभेत् ॥१४८॥देवताश्च प्रसीदेयुरर्चिते वाचके गुरौअन्नदानानि दद्याच्च ब्राह्मणेभ्यः प्रपूजयेत् ॥१४९॥जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान्जायते विष्णुलोके यः शृणोत्याख्यानमुत्तमम् ॥१५०॥इति व्याजेन भो भूप तुलस्युत्पत्तिकारणम्ये शृण्वंति नरश्रेष्ठा न तेषां पातकं क्वचित् ॥१५१॥तुलसीमाहात्म्यमिदं पवित्रं पापनाशनम्श्रुत्वा तु लभते मोक्षमुक्त्वा चैव न संशयः ॥१५२॥स्वगृहे रोपिता चैव तुलसी पापनाशिनीदर्शनाद्ब्रह्महत्यापि नश्यते नात्र संशयः ॥१५३॥कार्तिके चैव माघे तु तुलस्या पूजयेद्धरिम्वैशाखे तु विशेषेण पूजनं च हरेः स्मृतम् ॥१५४॥एकेनैव प्रदक्षिणेन सकलं पापं गतं वै सदा ये शूद्राभुवि संति दाननिरताः कालेन शुद्धिं गताःतेपि स्युः सुरपूजनार्हतनवः पापाच्च दूरं गताः ये वैविष्णुजनाश्च दुर्लभतरा ह्यस्मिन्कलौ सांप्रतम् ॥१५५॥इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखंडे जालंधरोपाख्याने श्रीजालंधरवधमहोत्सवोनामाष्टादशोऽध्यायः ॥१८॥॥ N/A References : N/A Last Updated : November 15, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP