संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १७०

उत्तरखण्डः - अध्यायः १७०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
अत्र तीर्थात्परं तीर्थं सङ्गमाख्यमिति श्रुतम्
अत्र साभ्रमती गंगा मिलिता सागरेण तु ॥१॥
तत्र स्नानं च दानं च कर्तव्यं विधिपूर्वकम्
यत्र स्नात्वा तु मुच्यंते महापातकिनोऽपि ये ॥२॥
तत्र श्राद्धं प्रकर्तव्यं स्वानां च हितमिच्छता
यत्र वै तु कृते श्राद्धे पितृलोके वसेद्ध्रुवम् ॥३॥
यत्र वै सागरो देवो नित्यं मिलति गंगया
ब्रह्महा तत्र मुच्येत किमन्यैरितरैरघैः ॥४॥
यत्र तीर्थं न जानंति लोका वै मंदबुद्धयः
तदा वै मम नाम्ना च कर्तव्यं तीर्थमुत्तमम् ॥५॥

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सङ्गमतीर्थंनाम सप्तत्यधिकशततमोऽध्यायः ॥१७०॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP