संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|

उत्तरखण्डः - अध्यायः १९९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः-
कालिंद्याश्चैव माहात्म्यं वद सूत सविस्तरम्
यस्मै प्रकाशितं येन तदाख्यानसमन्वितम् ॥१॥
सूत उवाच-
एकदा पांडुतनयः शुश्रूषुः सौभरेः शुभम्
ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् ॥२॥
युधिष्ठि रउवाच-
ब्रह्मन्मार्तंडतनया तीर तीर्थेषु यच्छुभम्
तीर्थं तद्वद वैकुंठ जन्मभूमिपरात्परम् ॥३॥
सौभरिरुवाच-
एकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ
गच्छंतौ खांडवं पश्यन्पश्यतः सुमनोहरम् ॥४॥
तत्रावतीर्णो नभस उपविष्टौ तटे शुभे
कालिंद्याः क्षणविश्रांतौ स्नातुं विविशतुर्जले ॥५॥
शिबिरौशीनरो राजा मृगयांतौ चरन्वने
दृष्ट्वा तान्निर्गमापेक्षी निषसाद सरित्तटे ॥६॥
तौ मुनी विधिवत्स्नात्वा परिधायांबराणि च
वंदितौ शिरसा राज्ञा तेनोपाविशतां तटे ॥७॥
तत्रालोक्य सुवर्णस्य शिबिर्यूपान्सहस्रशः
नारदं गर्वरहितः पर्वतं च जगाद सः ॥८॥
शिबिरुवाच-
कथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः
केनात्र विहितो यज्ञः सुरेणाथ नरेण वा ॥९॥
मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येऽत्र कः पुमान्
को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः ॥१०॥
नारद उवाच-
पुरा हिरण्यकशिपुर्जित्वा शक्रादिदेवताः
त्रैलोक्यराज्यमासाद्य सो खर्वं गर्वमाददे ॥११॥
प्रह्लादस्तस्य तनयो नारायणपरायणः
तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमंगलः ॥१२॥
तद्द्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा
हत्वा दैत्यपतिं स्वर्गराज्यं स्वःपतयेऽर्पितम् ॥१३॥
स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत्
मूर्ध्नाभिवंद्य तत्पादौ नारायणगुणान्स्मरन् ॥१४॥
इंद्र उवाच-
गुरो नृसिंहरूपेण हरिणा लोकधारिणा
दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः ॥१५॥
स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो
न विधेयो विलंबोऽत्र त्वया नो हितकारिणा ॥१६॥
बृहस्पतिरुवाच-
अस्ति ते खांडववनं रम्यं परमपावनम्
केतक्यशोकबकुलमधुमत्त मधुव्रतम् ॥१७॥
तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी
ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदम् ॥१८॥
तत्तीरे यज देवेश केशवं बहुभिर्मखैः
यदीच्छसि स्वकीयानां कल्याणं त्वं निरंतरम् ॥१९॥
नारद उवाच-
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम्
शिवप्रदमिमं शक्रः स्वकीयवनमागमत् ॥२०॥
गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा
अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम् ॥२१॥
गुरुणा नोदितः शक्रो सप्तर्षीन्ब्रह्मणः सुतान्
वसिष्ठादीन्द्विजान्वृत्वा यजति स्म जगत्पतिम् ॥२२॥
तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहागतः
क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः ॥२३॥
देवत्रयीं सतां वीक्ष्य शक्रो वक्रमतिस्तदा
उत्थायासनतस्तूर्णं ववंदे मुनिभिः सह ॥२४॥
वाहनेभ्योऽवरुह्याशु तदंतेषूपविश्य ते
आसनेषु सुहैमेषु बभुर्वेदीष्विवाग्नयः ॥२५॥
सितरक्तांगयोः शंभु ब्रह्मणोर्हरिराबभौ
नीलच्छविः पीतवासास्तडित्वानिव शृंगयोः ॥२६॥
शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे
अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम् ॥२७॥
इंद्र उवाच-
विहितोऽयं मया देव यज्ञोऽद्य सफलोऽभवत् ॥२८॥
यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः
एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयीमयी ॥२९॥
गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा
यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो ॥३०॥
नाविर्भवति भूतानां हृत्सु भक्त्या तथा भवान्
एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणी ॥३१॥
बभूवुः सुखिनो देवाः प्रह्लादकृतया तया
वयं विषयिणो देव त्वन्मायावृतचेतसः ॥३२॥
न जानीमः स्वरूपं ते यथावत्पादसेवकाः
भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू ॥३३॥
एतस्यैव गुरुत्वेन यतो नातः पृथक्युवाम्
यत्किंचिदुच्यते वाचा मनसा च विचिंत्यते
अस्यैव माया तत्सर्वे तद्द्वयीदूरवर्त्तिनः ॥३४॥
प्रपंचजातं यदिदं विलोक्य तेन सत्यमित्येव विचिंतयेन्न सः
भजंति विष्णोश्चरणं तरंति ते यदंबुमूर्ध्ना हर धार्यते त्वया ॥३५॥
विधेस्य भूयादनुजन्मपादयो रतिर्मदीया कमलाभयोर्भृशम्
यदीक्षण क्षोभितया तया जगत्समस्तमेतन्महदादि जायते ॥३६॥
भवादृशो नास्ति कृपापरोपरो विपक्षपक्षे वितनोषि यत्सुखम्
स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता ॥३७॥
नारद उवाच-
इत्यभिष्टूय देवेशं केशवं प्रणतोऽग्रतः
तस्थौ तद्वाक्यशुश्रुषा दत्तचित्तो महीयते ॥३८॥
एवमाकर्ण्य मुनय स्तुतिं तस्य रमापतेः
कृतामिंद्रेण सदसि साधुसाध्विति चाब्रुवन् ॥३९॥
शतमन्यो वर्षशतं ये कुर्वंति महत्तपः
न तेषामीदृशी भक्तिर्यादृशी तव माधवे ॥४०॥
न योगः सुलभोष्टांगः ख्यातिर्येनाधिगम्यते
समत्वेन च तत्त्यागस्तद्भक्तिः शरणं नृणाम् ॥४१॥
स्वधर्मार्जितवित्तैर्यद्यथा विधि विधीयते
कर्मतस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः ॥४२॥
न निंदेद्देवतामन्यां विष्णुबुद्ध्यां च यो नमेत्
न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः ॥४३॥
ये शृण्वंति हरेर्गुणानहरहः कुर्वंति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं येऽमुं यजंते तथा ॥४४॥
ये दास्येन नमंति चैनममुना कुर्वंति ये मित्रतां ये च स्वं च निवेदयंति नहि ते वांच्छंति मुक्त्यादिकम् ॥४५॥
इंद्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम्
न कामये किमप्यास्मत्कृतकृत्यो भविष्यति ॥४६॥
नारद उवाच-
मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य
हरिरनिशगुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे ॥४७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
कालिंदीमाहात्म्ये इंद्रयागविधिनोनाम एकोनद्विशततमोऽध्यायः ॥१९९॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP