संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २०६ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २०६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २०६ Translation - भाषांतर सौभरिरुवाच-धर्मराजशिबिः श्रीमानाकर्ण्य तद्वचो मुनेःनारदस्याब्रवीत्प्रीतमना इति तमुत्तमम् ॥१॥शिबिरुवाच-मुने तीर्थवरस्यास्य निगमोद्बोध कस्य तेमाहात्म्यं वर्णितं सम्यक्श्रुतं पापहरं मया ॥२॥इंद्रप्रस्थेत्र शतशः संति तीर्थानि वै मुनेअन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते ॥३॥नारद उवाच-इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका नृपअस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे ॥४॥काम्पिल्येऽथ द्विजः कश्चित् पुष्पेषुर्मूर्तिमानिवसर्वासां योषितां चित्तहारी स्यादग्रविभ्रमैः ॥५॥संगीतविद्याकुशलः कोकिलामधुरध्वनिःएकदा स करे वीणां धारयन्वादयन्मुहुः ॥६॥कंठेन कोकिलालाप मधुरेण नराधिपगायन्बभ्राम नगरे प्रतिरथ्यं महामतिः ॥७॥तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम्त्वक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः ॥८॥मोहितास्तस्य रूपेण कामवेगं न सेहिरेजाता स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः ॥९॥ब्रह्मणो मानसं येन लोभितं भारतीं प्रतिशिवस्यार्द्धशरीरं च पार्वत्यै येन दापितम् ॥१०॥ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपियः स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचंचलाः ॥११॥ताः स्मरावेशमासोढुं न साध्योपि विषेहिरेवक्तव्यमिति किं राजन्लोके कामो हि दुर्जयः ॥१२॥अथ तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसौप्रगायन्कंठवीणाभ्यां प्रगायन्स्वरमोहितः ॥१३॥तासां पतिसुतभ्रातृपितरोऽथ नराधिपआगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्प्रति ॥१४॥तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदंतिकेयदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे ॥१५॥राजापि तं समाहूय पप्रच्छ रहसि द्विजम्केन मंत्रेण भो विप्र मोहितास्ताः पुरस्त्रियः ॥१६॥तन्ममाचक्ष्व विप्रेंद्र दास्यामि बहु ते धनम्नोचेन्निष्कासयामि त्वां निजराज्यान्न संशयः ॥१७॥नारद उवाच-श्रुत्वेति नृपतेर्वाक्यं नृपतिं स द्विजोत्तमःउवाच सत्यं तस्याग्रे वचोरूपगुणार्णवः ॥१८॥द्विज उवाच-न मंत्रं नौषधं राजन्विद्यते मयि भिक्षुकेकिंतु ते नगरे सर्वा योषितो ह्यजितेंद्रियाः ॥१९॥रूपं मम समालोक्य श्रुत्वा गीतध्वनिं तथास्मरवेगं सहंते न राजंस्तव पुरे स्त्रियः ॥२०॥किं करोमि महाराज कोऽपराधोस्ति मे विभोपुराकृतमिवोल्लंघ्यं शासनं न महीपते ॥२१॥नारद उवाच-उशीनरशीबे राजन्नेवं कथयति द्विजेसर्वे पौराः समेत्याथ प्रावदन्निति भूपतिम् ॥२२॥पौरा ऊचुः -राजन्ननेन विप्रेण मोहिताः पौरयोषितःगृहेषु न हि तिष्ठंति ह्यस्माभिरनिवारिताः ॥२३॥यद्ययं मोहनः स्त्रीणां नगरे वत्स्यति प्रभोतदा देशांतराण्येव यास्यामो वयमद्य वैगतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः ॥२४॥तमनुप्रस्थितात्क्षेत्राद्गौरियं पापिनामिवविना तं शरणं यातं त्यक्तश्रीभिर्नरेश्वर ॥२५॥अथैनमनुयास्यंति वासिताभिर्वृषं यथाशून्यालये कथं लक्ष्मीर्यत्नतोप्यवतिष्ठति ॥२६॥धर्मोऽर्थश्च गृहं चैतत् त्रयं स्त्रीवशगं यतःकांताधर्म धनाधीना तयोर्नाशे न तिष्ठति ॥२७॥नारद उवाच-एवं वदत्सु पौरेषु स्त्रियस्तेषां समागताःराजांतिक उपाविष्टा इत्यूचुस्ताः परस्परम् ॥२८॥पौरस्त्रिय ऊचुःकामं वामाकृतिं विप्रमेनं प्राप्यमनांसि नःउल्लसंति दिवाधीशं कमलानीव वारिणि ॥२९॥संकुचंति विना तेन कुमुदानि यथेंदुनाआगच्छंतमिलित्वैनंधारयामोनृपाग्रतः ॥३०॥अवध्योऽयं वयं चास्य किं करिष्यति भूपतिःनारद उवाच-इत्युक्त्वा तास्त्वरावत्यो जगृहुस्तं द्विजोत्तमम् ॥३१॥पश्यतां निजभर्तॄणां राज्ञश्चैव पुरस्तदाऊचुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम् ॥३२॥शमयाशु विनाद्यत्वां स्थातुं नैव च शक्नुमःइत्याकर्ण्य वचस्तासां स विप्रः प्रत्युवाच ह ॥३३॥विप्र उवाच-भवतीनामहं पुत्रो भवत्यो मातरो ममगृहान्किमर्थमुत्सृज्य भवत्यः पर्यटंति हि ॥३४॥आराधयत नाथान्स्वान्यतो लोकद्वयं ध्रुवम्आराधितेषु पतिषु विष्णुः सर्वसुरेश्वरः ॥३५॥प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभम्या स्त्री स्वपतिमुत्सृज्य सेवतेऽन्यसुखेच्छया ॥३६॥सापवादमवाप्नोति याति घोरां च दुर्गतिम्उषित्वा तत्र कल्पांते यावत्सा पतिवंचना ॥३७॥पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यतेतस्मादपि पशुत्वं सा लभते बहुजन्मसु ॥३८॥ततो मुक्ता मनुष्यत्वे व्यंगा भवति तत्र साएवं पापगतिं ज्ञात्वा निवर्तध्वमतो जनात् ॥३९॥नो वा यास्यथ देहांते नरकं भृशदारुणम्यदिच्छंति भवंत्यो मे सुखं तन्नेह लप्स्यथपापमेव हि युष्माकं यतोधःपतनं नृणाम् ॥४०॥नारद उवाच-श्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृसुखानि चलज्जयानम्र मुख्यस्ता लतावातहता इव ॥४१॥तासां तु पुरनारीणां स्मराग्निर्भृशदारुणःशशाम तस्य शीतेन बटोर्वचनवारिणा ॥४२॥उत्थाय चेलुः सर्वास्ता विनिंदंत्य इति स्मरम्ब्रह्मशक्रादिदेवानामपि मोहकरं नृप ॥४३॥स्त्रिय ऊचुःधिगिमं पापकर्माणं शीलदारुकुठारकम्कामवामदृशां प्रीत्यै धन्यो येन हतः स्मरः ॥४४॥किं वदेम जगत्पूज्यां रुक्मिणीं जठरे ययाधृतः प्रद्युम्ननाम्नाऽसौ राहुः स्त्रीशीलचंद्रभुक् ॥४५॥स देवाधम आयाति यदि नो दृष्टगोचरम्भूयो ध्यानकृतेशान दृगग्नौ तं क्षिपामहे ॥४६॥येनायं जनितः पापो ह्यात्मारामेण विष्णुनाकृतः षोडशसाहस्रस्त्रीप्रियः का हि नः कथा ॥४७॥एवं विनिंद्य तं कामं तुष्टुवुस्तं द्विजोत्तमम्शीलं स्वस्य च तासां च रक्षितं येन भूपते ॥४८॥धन्या सामुष्य जननी ययायं ब्राह्मणोत्तमःस्मरजिन्निर्मितो लोके परधर्मस्य रक्षकः ॥४९॥धिगस्तु नो राजलोकैर्हसिताः स्मरनिर्जिताःयाभिर्वाक्यमनोभ्यां च जनितं पापमुल्बणम् ॥५०॥नारद उवाच-एवं विचिंतयंत्यस्ता एक्यमत्ययुताः स्त्रियःजग्मुः स्वंस्वं गृहं सर्वा द्विजवाक्येन बोधिताः ॥५१॥अथ राजापि कांपिल्यस्तं द्विजं वस्त्रभूषणैःसंपूज्य प्रेषयामास सद्गृहे संयतेंद्रियम् ॥५२॥अथागच्छति काले तु कारूषाधिपतिर्बलीकांपिल्याधिपतिं सैन्यैर्नगरं रुरुधे तदा ॥५३॥तयोर्युद्धमभूद्घोरं तेन युद्धे स घातितःनगरं लुठितं सर्वं हताः शूराश्च सर्वशः ॥५४॥ता स्त्रियः कालकूटं तु खादित्वा मरणं गताःप्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु ॥५५॥येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसःराक्षस्यो नगरे जाता महाकाया भयानकाः ॥५६॥तत्र ता निहिताः सर्वाः पुरनार्यो हनूमतायज्ञांश्च रसतो जिष्णोस्तिष्ठतां रथकेतने ॥५७॥पुनस्ता एव राक्षस्यो बभूवुर्मारवेध्वनिक्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः ॥५८॥एवं तेन तु पापेन वाङ्मनोविहितेन तुताभिर्जन्मद्वयं प्राप्तं राक्षसीयोनिमिश्रितम् ॥५९॥पापेन नाशितं तासां स नृपं नगरद्वयम्अतएव न कर्त्तव्यं परकांतनिषेवणम् ॥६०॥नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभोरोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वान त्याज्यः स्वपतिः स्त्रीभिः इच्छंतीभिस्तु सद्गतिम् ॥६१॥कथितमिदं मया मनोवचोभ्यां जनितमघं च यदन्यकांतभक्त्याफलमपि च यदेव लब्धमाभिस्तदपि शिबे बहुविस्तरेण तुभ्यम् ॥६२॥इंद्रप्रस्थगता न ये ममनघा या द्वारका दृश्यते तास्तस्या जलबिंदुदेहपतनात्पौरस्त्रियो रेभिरेस्वर्गं चित्तवचोऽन्यकांत भजनाज्जातं विमुच्वोल्बणं क्रव्यादत्वमवाप्य देववनिताभावं सुराह्लाददम् ॥६३इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्वारकावर्णंनंनाम षष्ठाधिकद्विशततमोऽध्यायः ॥२०६॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP