संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ११८

उत्तरखण्डः - अध्यायः ११८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच
पुनः प्रोवाच भगवान्महादेवो वृषध्वजः
श्रोतारमुपसंगम्य भक्तियुक्तं षडाननम् ॥१॥
ईश्वर उवाच
कार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमः
अस्मिन्मासे त्रयस्त्रिंशद्देवाः संनिहिताः कलौ ॥२॥
ऊर्जे मासि महाभागौ भोजनानि द्विजातये
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥३॥
गोप्रदानानि दास्यंति सर्वभावेन सुव्रत
सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥४॥
ब्राह्मणायात्र ये कन्यां दास्यंति विधिवन्नराः
वैकुंठे वसतिस्तेषां यावदिंद्राश्चतुर्दश ॥५॥
रोमकाले तु संप्राप्ते सोमो भुंक्ते तु कन्यकाम्
ऋतुकाले तु गंधर्वा वह्निस्तु कुचदर्शने ॥६॥
तावद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत्
विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः ॥७॥
दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥८॥
कन्यावरप्रमाणाया एष एव विधिः स्मृतः
यावंति चैव रोमाणि कन्यायाश्च तनौ सुत ॥९॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते
सहस्रमेव धेनूनां शतं चानुडुहां समम् ॥१०॥
दशानुडुत्समं यानं दशयानसमो हयः
हयदानसहस्रेभ्यो गजदानं विशिष्यते ॥११॥
गजदानसहस्राणां स्वर्णदानं च तत्समम्
स्वर्णभारसहस्राणां विद्यादानं च तत्समम् ॥१२॥
विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते
भूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते ॥१३॥
गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते
अन्नाधारमिदं सर्वं जगत्स्थावरजंगमम् ॥१४॥
तस्माद्देयं प्रयत्नेन कार्तिके शिखिवाहन
त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ॥१५॥
कार्तिकेय उवाच
अन्यानपि महादेव धर्मान्मे वक्तुमर्हसि
यान्कृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेत् ॥१६॥
सूत उवाच
इतिपृष्टस्तदा शंभुः पुनर्वक्तुं प्रचक्रमे
यावत्किं बहुधा स्तुत्वात्तच्छृणुध्वं तपोधनाः ॥१७
ईश्वर उवाच
परान्नं वर्जयेद्यस्तु कार्तिके नियमे कृते
परान्नवर्जनादेव लभेच्चांद्रायणं फलम् ॥१८॥
तं प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्
दिनेदिने तु कृच्छ्रस्य फलंप्राप्नोति मानवः ॥१९॥
कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु
कार्तिके वर्जयेत्कांस्यं संघान्नं च विशेषतः ॥२०॥
राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात्
षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते ॥२१॥
तन्मुक्तो जायते पापो विष्ठाशी ग्रामसूकरः
प्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते ॥२२॥
अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम्
न कार्तिकसमो मासो न दैवं केशवात्परम् ॥२३॥
न वेदसदृशं शास्त्रं न तीर्थं गंगया समम्
न सत्यं न समं वृत्तं न कृतेन समं युगम् ॥२४॥
न तृप्ती रसना तुल्या न दानसदृशं सुखम्
न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् ॥२५॥
अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम्
कर्मभ्रष्टः स विज्ञेयो हीनयोनिषु जायते ॥२६॥
कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियः
समुद्रगा नदी पुण्या दुर्लभा स्नानशालिनाम् ॥२७॥
कुलशीलवतीकन्या दुर्लभा दंपती नृणाम्
दुर्लभा जननी लोके पिता चैव विशेषतः ॥२८॥
दुर्लभं साधुसन्मानं दुर्लभो धार्मिकः सुतः
दुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनम् ॥२९॥
दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकव्रतम्
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चंद्रसूर्ययोः ॥३०॥
यत्फलं लभते वत्स तत्फलं भूमिशायिनः
भोजनं द्विजदंपत्योः पूजयेच्च विलेपनैः ॥३१॥
कंबलानि च रत्नानि वासांसि विविधानि च
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ॥३२॥
उपानहा वातपत्रं कार्तिके देहि पावके
यः करोति नरो नित्यं कार्तिके पत्रभोजनम् ॥३३॥
न दुर्गतिमवाप्नोति यावदिंद्राश्चतुर्दश
सर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ॥३४॥
न चापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात्
ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ॥३५॥
मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहन
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ॥३६॥
ऐश्वरं वर्जयेत्पत्रं ब्रह्माविष्णुरनुत्तमः
सर्वपुण्यमवाप्नोति शेषपत्रेषु भोजनात् ॥३७॥
भोजनान्मध्यपत्रे तु कपिलापयसस्तथा
प्राशनान्मुनिशार्दूल नरो नरकमाप्नुयात् ॥३८॥
अज्ञानाद्भुंजते यस्तु शूद्रो वा कपिलापयः
कपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके ॥३९॥
तिलदानं नदीस्नानं सर्वदा साधुदर्शनम्
भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् ॥४०॥
मौनी पालाशभोजी च जलस्नायी सदा क्षमी
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ॥४१॥
जागरं कार्तिके मासि यः करोत्यरुणोदये
दामोदराग्रे सेनानीर्गोसहस्रफलं लभेत् ॥४२॥
पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणा
कार्तिके तत्फलं पुंसां परदीपप्रबोधनात् ॥४३॥
बोधनात्परदीपस्य वैष्णवानां च सेवनात्
कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ॥४४॥
नदीस्नानं कथाविष्णोर्वैष्णवानां च दर्शनम्
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ॥४५॥
पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ॥४६॥
प्रयागो माघमासे तु पुष्करं कार्तिके तथा
अवंती माधवे मासि हन्यात्पापं युगार्जितम् ॥४७॥
धन्यास्ते मानवा लोके कलिकाले विशेषतः
कुर्वंति स्कंद नित्यं ये सर्वथा हरिसेवनम् ॥४८॥
किं दत्तैर्बहुभिः पिंडैर्गयाश्राद्धादिभिर्मुने
तारितास्तेन पितरो नरकाच्च न संशयः ॥४९॥
क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात्
कल्पकोटिं दिवं प्राप्य वसंति त्रिदशैः सह ॥५०॥
कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः
जन्मकोटिषु विप्रेंद्र न तेषां कमला गृहे ॥५१॥
दष्टा मुष्टा विनष्टास्ते पतिताः कलिकंदरे
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ॥५२॥
पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम्
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ॥५३॥
अपराधसहस्राणि तथा सप्तशतानि च
पद्मेनैकेन देवेशः क्षमेत प्रणतोऽर्चितः ॥५४॥
तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम्
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ॥५५॥
तुलसीगंधमिश्रं तु यत्किंचित्क्रियते सुत
कल्पकोटिसहस्राणि प्रीतो भवति केशवः ॥५६॥
मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत्
तुलसीं षण्मुखप्रीत्या न तस्य स्पृशते कलिः ॥५७॥
कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेत्
सर्वरोगैस्तथा पापैर्मुक्तो भवति षण्मुख ॥५८॥
विष्णोरंगारशेषेण यस्यांगं स्पृशते सुत
दुरितानि विनश्यंति व्याधयो यांति संक्षयम् ॥५९॥
शंखोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम्
चंदनं धूपशेषं तु ब्रह्महत्यापहारकम् ॥६०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीशिवकार्तिकेयसंवादे प्रश्नोत्तरोनाम अष्टादशाधिकशततमोऽध्यायः ॥११८॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP