संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २४४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २४४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २४४ Translation - भाषांतर शंकर उवाच-अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान्बुभुजे वर्षसाहस्रं पालयन्सर्वतोदिशः ॥१॥अंतःपुरजनास्सर्वे राक्षसस्य गृहे स्थिताम्गर्हयंति स्म वैदेहीं तथा जानपदा जनाः ॥२॥लोकापवादभीत्या च रामः शत्रुनिवारकःदर्शयन्मानुषं धर्ममंतर्वत्नीं नृपात्मजाम् ॥३॥वाल्मीकेराश्रमे पुण्ये गंगातीरे महावनेविससर्ज महातेजा गर्भिणीं मुनिसंसदि ॥४॥सा भर्तुः परतंत्रा हि उवास मुनिवेश्मनिअर्चिता मुनिपत्नीभिर्वाल्मीकमुनि रक्षिता ॥५॥तत्रैवासूत यमलौ नाम्ना कुशलवौ सुतौतौ च तत्रैव मुनिना संस्कृतौ च ववर्धतुः ॥६॥रामोऽपि भ्रातृभिस्सार्द्धं पालयामास मेदिनीम्यमादिगुणसम्पन्नस्सर्वभोगविवर्जितः ॥७॥अर्चयन्सततं विष्णुमनादिनिधनं हरिम्ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ॥८॥शत्रुघ्नो लवणं हत्वा मथुरां देवनिर्मिताम्पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ॥९॥गंधर्वान्भरतो हत्वा सिंधोरुभयपार्श्वतःस्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ ॥१०॥पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणःस्वसुतौ च महावीर्यौ अभिषिच्य महाबलः ॥११॥गत्वा पुनरयोध्यां तु रामपादावुपस्पृशत्ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् ॥१२॥जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम्ततस्तु गौतमीतीरे नैमिषे जनसंसदि ॥१३॥इयाज वाजिमेधं च राघवः परवीरहाकांचनीं जानकीं कृत्वा तया सार्द्धं महाबलः ॥१४॥चकार यज्ञान्बहुशो राघवः परमार्थवित्अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः ॥१५अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम्चकार विविधान्यज्ञान्परिपूर्णसदक्षिणान् ॥१६॥एतस्मिन्नंतरे तत्र वाल्मीकिः सुमहातपाःसीतामानीय काकुत्स्थमिदं वचनमब्रवीत् ॥१७॥वाल्मीकिरुवाच-अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रतइयं तु विरजा साध्वी भास्करस्य प्रभा यथाअनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयानघ ॥१८॥राम उवाच-अपापां मैथिलीं ब्रह्मन्जानामि वचनात्तवरावणेन हृता साध्वी दण्डके विजने पुरा ॥१९॥तं हत्वा समरे सीतां शुद्धामग्निमुखागताम्पुनर्यातोस्म्ययोध्यायां सीतामादाय धर्मतः ॥२०॥लोकापवादः सुमहानभूत्पौरजनेषु चत्यक्ता मया शुभाचारा तद्भयात्तव सन्निधौ ॥२१॥तस्माल्लोकस्य संतुष्ट्यै सीता मम परायणापार्थिवानां महर्षीणां प्रत्ययं कर्तुमर्हति ॥२२॥महेश्वर उवाच-एवमुक्ता तदा सीता मुनिपार्थिवसंसदिचकारप्रत्ययं देवी लोकाश्चर्यकरं सती ॥२३॥दर्शयंस्तस्य लोकस्य रामस्यानन्यतां सतीअब्रवीत्प्रांजलिः सीता सर्वेषां जनसंसदि ॥२४॥सीतोवाच-यथाऽहं राघवादन्यं मनसापि न चिंतयेतथा मे धरणी देवी विवरन्दातुमर्हति ॥२५॥यथैव सत्यमुक्तं मे वेद्मि रामात्परं न चतथा स्वपुत्र्यां वैदेह्यां धरणी सहसा इयात् ॥२६॥महेश्वर उवाच-ततो रत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरःरसातलात्तदा वीरो विज्ञाय जननीं तदा ॥२७॥ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम्स्वागतेनाभिनंद्यैनामासने संन्यवेशयत् ॥२८॥सीतां समागतां दृष्ट्वा दिवि देवगणा भृशम्पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् ॥२९॥सापि दिव्याप्सरोभिस्तु पूज्यमाना सनातनीवैनतेयं समारुह्य तस्मान्मार्गाद्दिवं ययौ ॥३०॥दासीगणैः पूर्वभागे संवृता जगदीश्वरीसंप्राप्य परमं धाम योगिगम्यं सनातनम् ॥३१॥रसातलप्रविष्टां तु तां दृष्ट्वा सर्वमानुषाःसाधुसाध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः ॥३२॥रामः शोकसमाविष्टः संगृह्य तनयावुभौमुनिभिः पार्थिवेंद्रैश्च साकेतं प्रविवेश ह ॥३३॥अथ कालेन महता मातरः संशितव्रताःकालधर्मं समापन्ना भर्तुः स्वर्गं प्रपेदिरे ॥३४॥दशवर्षसहस्राणि दशवर्षशतानि चचकार राज्यं धर्मेण राघवः संशितव्रतः ॥३५॥कस्यचित्त्वथकालस्य राघवस्य निवेशनम्कालस्तापसरूपेण संप्राप्तो वाक्यमब्रवीत् ॥३६॥काल उवाच-राम राम महाबाहो धात्रा संप्रेषितोऽस्म्यहम्यद्ब्रवीमि रघुश्रेष्ठ तच्छृणुष्व महामते ॥३७॥द्वन्द्वमेव हि कार्यं स्यादावयोः परिभाषितम्तदंतरे प्रविष्टोयस्स वद्ध्यो हि भविष्यति ॥३८॥महेश्वर उवाच-तथेति च प्रतिश्रुत्य रामो राजीवलोचनःद्वास्थं कृत्वा तु सौमित्रिं कालो वाक्यमभाषतवैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ॥३९॥काल उवाच-शृणु राम यथावृत्तं समागमनकारणात्दशवर्षसहस्राणि दशवर्षशतानि च ॥४०॥वसामि मानुषे लोके हत्वा राक्षसपुंगवौएवमुक्तः सुरगणैरवतीर्णोसि भूतले ॥४१॥तदयं समयः प्राप्तः स्वर्लोकं गमितुं त्वयासनाथा हि सुरास्सर्वे भवंत्वद्य त्वयानघ ॥४२॥महेश्वर उवाच-एवमस्त्विति काकुत्स्थो रामः प्राह महामुनिम्एतस्मिन्नंतरे तत्र दुर्वासास्तु महातपाः ॥४३॥राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत्दुर्वासा उवाच-मां निवेदय काकुत्स्थं शीघ्रं गत्वा नृपात्मज ॥४४॥महेश्वर उवाच-तमब्रवील्लक्ष्मणस्तु असांनिध्यमिति द्विजततः क्रोधसमाविष्टः प्राह तं मुनिसत्तमः ॥४५॥दुर्वासा उवाच-शापं दास्यामि काकुत्स्थं रामं न यदि दर्शयेमहेश्वर उवाच-तस्माच्छापभयाद्विप्रं राघवाय न्यवेदयत्तत्रैवांतर्दधे कालः सर्वभूतभयावहः ॥४६॥पूजयामास तं प्राप्तमृषिं दुर्वाससं नृपःअग्रजस्य प्रतिज्ञा तं विज्ञाय रघुसत्तमः ॥४७॥तत्याज मानुषं रूपं लक्ष्मणः सरयूजलेविसृज्य मानुषं रूपं प्रविवेश स्वकां तनुम् ॥४८॥फणासहस्रसंयुक्तः कोटींदुसमवर्चसःदिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ॥४९॥नागकन्यासहस्रैस्तु संवृतः समलंकृतःविमानं दिव्यमारुह्य प्रययौ वैष्णवं पदम् ॥५०॥ लक्ष्मणस्य गतिं सर्वां विदित्वा रघुसत्तमःस्वयमप्यथ काकुत्स्थः स्वर्गं गंतुमभीप्सितः ॥५१॥अभिषिच्याथ काकुत्स्थः स्वात्मजौ च कुशीलवौविभज्य रथनागाश्वं सधनं प्रददौ तयोः ॥५२॥कुशवत्यां कुशं तं च शरवत्यां लवं तथास्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः ॥५३॥अभिप्रायं तु विज्ञाय रामस्य विदितात्मनःआजग्मुर्वानराः सर्वे राक्षसाः सुमहाबलाः ॥५४॥विभीषणोऽथ सुग्रीवो जाम्बवान्मारुतात्मजःनीलो नलः सुषेणश्च निषादाधिपतिर्गुहः ॥५५॥अभिषिच्य सुतौ वीरौ शत्रुघ्नश्च महामनाःसर्व एते समाजग्मुरयोध्यां रामपालिताम् ॥५६॥ते प्रणम्य महात्मानमूचुः प्रांजलयस्तथावानरप्रभृतय ऊचुः -स्वर्लोकं गंतुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम ॥५७॥आगताः स्म वयं सर्वे तवानुगमनं प्रतिन शक्ताः स्म क्षणं राम जीवितुं त्वां विना प्रभोतस्मात्त्वया विशालाक्ष गच्छामस्त्रिदशालयम् ॥५८॥महेश्वर उवाच-तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्ततःअथोवाच महातेजा राक्षसेंद्रं विभीषणम् ॥५९॥राम उवाच-राज्यं प्रशास धर्मेण मा प्रतिज्ञां वृथा कृथाःयावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनीतावद्रमस्व सुप्रीतो काले मम पदं व्रज ॥६०॥महेश्वर उवाच-इत्युक्त्वाथ स काकुत्स्थः स्वाड्गं विष्णुं सनातनम्श्रीरंगशायिनं सौम्यमिक्ष्वाकुकुलदैवतम् ॥६१॥संप्रीत्या प्रददौ तस्मै रामो राजीवलोचनःहनुमंतमथोवाच राघवः शत्रुसूदनः ॥६२॥राम उवाच-मत्कथाः प्रचरिष्यंति यावल्लोके हरीश्वरतावत्त्वमास मेदिन्यां काले मां व्रज सुव्रत ॥६३॥महेश्वर उवाच-तमेवमुक्त्वा काकुत्स्थो जांबवंतमथाब्रवीत्राम उवाच-द्वापरे समनुप्राप्ते यदूनामन्वये पुनः ॥६४॥भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुविकरिष्ये तत्र संग्रामं स्वयं भल्लूकसत्तम ॥६५॥महेश्वर उवाच-तमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्उवाच वाचा गच्छध्वमिति रामो महाबलः ॥६६॥मंत्रिणो नैगमाश्चैव भरतः कैकयीसुतःराघवस्यानुगमने निश्चितास्ते समाययुः ॥६७॥ततः शुक्लांबरधरो ब्रह्मचारी ययौ परम्कुशान्गृहीत्वा पाणिभ्यां संसक्तः प्रययौ परम् ॥६८॥रामस्य दक्षिणे पार्श्वे पद्महस्ता रमा गतातथैव धरणीदेवी दक्षिणेतरगा तथा ॥६९॥वेदाः सांगाः पुराणानि सेतिहासानि सर्वतःॐकारोऽथ वषट्कारः सावित्री लोकपावनी ॥७०॥अस्त्रशस्त्राणि च तदा धनुराद्यानि पार्वतिअनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः ॥७१॥भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनःसपुत्रदाराः काकुत्स्थमनुजग्मुः सहानुगाः ॥७२॥मंत्रिणो भृत्यवर्गाश्च किंकरा नैगमास्तथावानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ॥७३॥सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम्पशवः पक्षिणश्चैव सर्वे स्थावरजंगमाः ॥७४॥अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाःये च पश्यंति काकुत्स्थं स्वपथांतर्गतं प्रभुम् ॥७५॥ते तथानुगता रामं निवर्त्तंते न केचनअथ त्रियोजनं गत्वा नदीं पश्चान्मुखीं स्थिताम् ॥७६॥सरयूं पुण्यसलिलां प्रविवेश सहानुगःततः पितामहो ब्रह्मा सर्वदेवगणावृतः ॥७७॥तुष्टाव रघुशार्दूलमृषिभिः सार्द्धमक्षरैःअब्रवीत्तत्र काकुत्स्थं प्रविष्टं सरयूजले ॥७८॥ब्रह्मोवाच-आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानदभ्रातृभिस्सहदेवाभैः प्रविशस्व निजां तनुम् ॥७९॥वैष्णवीं तां महातेजां देवाकारां सनातनीम्त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ॥८०॥त्वामचिंत्यं महात्मानमक्षरं सर्वसंग्रहम्यमिच्छसि महातेजस्तां तनुं प्रविशस्व भोः ॥८१॥महेश्वर उवाच-तस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातितेउत्सृज्य मानुषं रूपं स्वां तनुं प्रविवेश ह ॥८२॥अंशाभ्यां शंखचक्राभ्यां शत्रुघ्नभरतावुभौतदा तेन महात्मानौ दिव्यतेजस्समन्वितौ ॥८३॥शंखचक्रगदाशार्ङ्गपद्महस्तश्चतुर्भुजःदिव्याभरणसम्पन्नो दिव्यगंधानुलेपनः ॥८४॥दिव्यपीतांबरधरः पद्मपत्रनिभेक्षणःयुवा कुमारः सौम्यांगः कोमलावयवोज्ज्वलः ॥८५॥सुस्निग्धनीलकुटिलकुंतलः शुभलक्षणःनवदूर्वांकुरः श्यामः पूर्णचंद्र निभाननः ॥८६॥देवीभ्यां सहितः श्रीमान्विमानमधिरुह्य चतस्मिन्सिंहासने दिव्ये मूले कल्पतरोः प्रभुः ॥८७॥निषसाद महातेजाः सर्वदेवैरभिष्टुतःराघवानुगता ये च ऋक्षवानरमानुषाः ॥८८॥स्पृष्ट्वैव सरयूतोयं सुखेन त्यक्तजीविताःरामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः ॥८९॥दिव्यमाल्यांबरधरा दिव्यमंगलवर्चसःआरुरोह विमानं तदसंख्यास्तत्र देहिनः ॥९०॥सर्वैः परिवृतः श्रीमान्रामो राजीवलोचनःपूजितः सुरसिद्धौघैर्मुनिभिस्तु महात्मभिः ॥९१॥आययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुःयः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ॥९२॥शृणुयाद्वा तथा भक्त्या स्मरेद्वा शुभदर्शनेकोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात् ॥९३॥विमुक्तो वैष्णवं लोकं पुत्रदारसबांधवैःसमाप्नुयाद्योगगम्यमनायासेन वै नरः ॥९४॥एतत्ते कथितं देवि रामस्य चरितं महत्धन्योऽस्म्यहं त्वया देवि रामचंद्रस्य कीर्त्तनात्किमन्यच्छ्रोतुकामासि तद्ब्रवीमि वरानने ॥९५॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीरामचरितकथनंनाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४४॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP