संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|

उत्तरखण्डः - अध्यायः १८३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीमहादेव उवाच
अतः परं प्रवक्ष्यामि नवमाध्यायमादरात्
संशृणुष्व स्थिरीभूय तुहिनाचल कन्यके ॥१॥
अस्ति माहिष्मतीनाम नगरी नर्मदातटे
तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः ॥२॥
वेदवेदांगतत्वज्ञः कालेकालेऽतिथिप्रियः
अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः ॥३
महांतमध्वरं कर्तुं समारेभे कदाचन
आलंभनार्थमानीतश्छागः पूजितविग्रहः ॥४॥
वाचमूचे हसन्नुच्चैर्जगद्विस्मयकारकः
किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि ॥५॥
विनश्वरफलैर्जन्म जरामरणहेतुभिः
एतावत्यपि मे विप्र दशेयं दृश्यतामिति ॥६॥
छागस्यैवं वचोतीव कुतूहलपरं जनाः
निशम्यविस्मयं याताः कृतमंडपवासिनः ॥७॥
ततो बद्धांजलिपुटो द्विजातिस्तिमितेक्षणः
प्रणम्य श्रद्दधानस्तमपृच्छच्छागमादरात् ॥८॥
द्विज उवाच
किं जातीयः किमात्मा त्वं किं वृत्तमिति मे वद
केन वा कर्मणा वासीच्छागत्वमिति कारणम् ॥९॥
छाग उवाच
आसं पुरा द्विजातीनामन्वये चातिनिर्मले
आहर्ता क्रतुसंघानां वेदविद्याविशारदः ॥१०॥
एकदा मम गेहिन्या पुत्ररोगप्रशांतये
छागः प्रयाचितो मत्तः चंडिकाभक्तिनम्रया ॥११॥
ततो निहन्यमानस्य चंडिकामंडपस्थले
छागस्य जननी मां तु शशाप ब्रह्मवादिनी ॥१२॥
अशास्त्रीयाध्वना पाप मत्सुतं यज्जिघांससि
द्विजात्यधमतेन त्वमजा योनिमवाप्स्यसि ॥१३॥
ततोऽहं प्रेत्यकालेन छागोऽभूवं द्विजोत्तम
निस्तीर्य चानेकविधा योनिसंतापयातनाः ॥१४॥
विप्र उवाच
जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः
त्वदीयजन्मशुश्रूषा कुतूहलरसोन्मुखम् ॥१५॥
छाग उवाच
मनः सर्वान्द्विजानेतानपि तत्कथयाखिलम्
कदाचिन्मर्कटो भूवमाहितुंडिकशिक्षया ॥१६॥
क्रीडद्भिर्वीक्षितो डिंभैर्नृत्यन्प्रतिगृहांगणे
उदारानात्मनो दारान्विलोक्य तनयानपि ॥१७॥
क्रियापराङ्मुखो जातस्त्यक्तनर्तनसंभ्रमः
ततो वर्तुलदंडैश्च दुःसहैराहितुंडिकः ॥१८॥
मामुच्चैस्ताडयांचक्रे रुषा लोहितलोचनः
ततोऽहं मूर्च्छितोऽभूवं क्षरत्क्षतजसंततिः ॥१९॥
आजिघ्रन्नन्नमुदकमगमं कालधर्मताम्
ततोऽहमासीच्छुनकः परिभ्राम्यन्गृहे गृहे ॥२०॥
कुक्षिं भरिरहं मार्गे त्यक्तोच्छिष्टान्नभक्षकः
कदाचिदाविशं स्वांतरात्मवेश्ममहानसम् ॥२१॥
बुभुक्षितो भक्षयितुं स्थाली स्थापितमोदनम्
जिघ्रन्भूमितलं पश्यन्दिशो दश शनैर्भयात् ॥२२॥
शंकमानो जनरवात्पार्श्वे च विलिहन्निव
ततः कदाचिदागत्य वीक्षितस्तनुजैर्निजैः ॥२३॥
जायया च जरत्याहं ताडितो लकुटादिभिः
ततो भग्नकटिर्यातो बहुशोणितमुद्वहन् ॥२४॥
निर्जगाम बहिर्गेहात्कथंचिन्मूर्च्छयाकुलः
अंगेषु पूतिगंधेषु क्रिमिगर्भेषु कालतः ॥२५॥
ततः कदश्वतां प्राप्तः शौंडिकस्य च वेश्मनि
अश्वोभवमहं विद्वन्मृतः कालक्रमादिह ॥२६॥
कदाचिच्चत्वरे तेन समानीतो जनाकुले
विक्रयाय जरालीढ पतयालुरदावलि ॥२७॥
जायया द्वारकायात्रां कर्तुमुद्यतयासकृत्
मौल्येनाल्पीयसा क्रेतुं तुरंगं चेष्टमानया ॥२८॥
जगृहेहं तया दाम्ना अल्पेन वसुना जरन्
गंतुं चारभतद्वित्रैः पुत्रैरारुह्य मां समम् ॥२९॥
शनैः शनै सरस्तीरे मग्नोऽहं गाढकर्दमे
तत्राहं कुटिलग्रीवश्चापतन्कर्दमान्तरे ॥३०॥
ताड्यमानो मुहुः पुत्रैः लकुटोपलपाणिभिः
उत्थाप्यमानो बहुधा प्राणान्मोचितवानहम् ॥३१॥
ततो निश्चित्य मां तत्र मृतं भग्नोद्यमाः सुताः
आक्रुश्य मातरं दीनां प्रावृत्य निर्ययुर्गृहम् ॥३२॥
ततः संप्रेत्य बहुना कालेन छागतां गतः
निस्तीर्णानेकहीनोच्च योनिसंतापयातनः ॥३३॥
द्विज उवाच
किमनेन महाछाग दुःखजातेन नित्यशः
यथावदंजसा मह्यं सुखमात्यंतिकं भवेत् ॥३४॥
छाग उवाच
आश्चर्यं कथयिष्यामि पुनरन्यदपि द्विज
स्वस्थमापृच्छमानस्य तवास्ति यदि कौतुकम् ॥३५॥
अस्ति नाम्ना कुरुक्षेत्रं नगरं मोक्षदायकम्
सूर्यवंशोऽभवत्तत्र चंद्रशर्मा महीपतिः ॥३६॥
सूर्योपरागसमये श्रद्धया परयान्वितः
दानं स कालपुरुषं दातुं समुपचक्रमे ॥३७॥
समाहूय द्विजन्मानं वेदवेदांगपारगम्
स्नातुं पुण्योदकैः पुण्यैर्ययौ सार्द्धं पुरोधसा ॥३८॥
अथोच्चैः कालपुरुषो वाचमूचे हसन्निव
अन्येनैव प्रगृह्णंति क्षेत्रे चाण्वपि किंचन ॥३९॥
सूर्योपरागसमये कुरुक्षेत्राभिधे स्थले
दानं च कालपुरुषं जिघृक्षसि कथं द्विज ॥४०॥
ज्ञात्वापि निश्चितं सर्वमेतत्पातककारकम्
प्रवर्तसे कथं कर्तुं धनलोभान्धया धिया ॥४१॥
इत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकम्
किमनेन महादानभयेनेत्यवदद्द्विजः ॥४२॥
एवंविध महादान पातकागाधवारिधिम्
जानामि तरितुं सम्यगुपायमहमेव हि ॥४३॥
ततः स्नात्वा महीपालः परिधाय च वाससी
शुचिः प्रसन्नहृदयः सितमाल्यानुलेपनः ॥४४॥
अवलंब्य करांभोजं पार्श्ववर्तिपुरोधसः
समाययौ सेव्यमानः स तत्कालोचितैर्जनैः ॥४५॥
समागत्य च भूपालः संप्रादात्कालपूरुषम्
यथोचितेन विधिना तस्मै भक्त्या द्विजन्मने ॥४६॥
निर्भिद्य कालपुरुषहृदयं निर्दयोदयः
पापात्मा निर्ययौ कश्चिच्चांडालो रक्तलोचनः ॥४७॥
किंच प्रापितकालस्य परनिंदारसोत्सवे
निंदा चांडालिका देहपार्श्वमागाद्द्विजन्मनः ॥४८॥
एतच्चांडालयुगलं निर्गत्यारुणलोचनम्
ततः संचरितं चक्रे प्रसह्यांगे द्विजन्मनः ॥४९
गीतानां नवमाध्यायं जपन्नेव हृदिस्थितः
कंपमानं द्विजं किंचित्तूष्णीं पश्यति भूपतौ ॥५०॥
अंतर्निद्राणगोविंदं कंपमानमिवांबुधिम्
मरुदांदोलनैर्विद्वान्द्विजन्मा पापसंश्रयम् ॥५१॥
ततो गीताक्षरोद्भूतैर्वैष्णवैः परिपीडितम्
पलायमानं चांडालयुगलं निष्फलोद्यमम् ॥५२॥
तन्निश्चक्राम वेगेन द्विजातेः पार्श्ववर्ति यत्
शरीरे वर्त्तमानं च परनिंदारसोत्सवे ॥५३॥
इत्थं कलितवृत्तांतः प्रत्यक्षं क्षितिवल्लभः
पर्यपृच्छद्द्विजन्मानं विस्मयस्मेरलोचनः ॥५४॥
कथमापदियं घोरा निस्तीर्णा महती त्वया
कं मंत्रं जपता विप्र कं वासं स्मरतासुरम् ॥५५॥
कः पुमान्का च सा योषित्कथमेतावुपस्थितौ
कथं च शांतिमापन्नावित्युदीरय मे द्विज ॥५६॥
द्विज उवाच
चांडालमूर्तिमासाद्य मूर्तिकिल्बिषमुल्बणम्
योषिन्मूर्त्तिमयीं निंदाद्वयमेतदवैम्यहम् ॥५७॥
गीताया नवमाध्यायमंत्रमाला मया स्मृता
तन्माहात्म्यमिदं सर्वं त्वमवेहि महीपते ॥५८॥
गीताया नवमाध्यायं जपामि प्रत्यहं नृप
निस्तीर्णाश्चापदस्तेन कुप्रतिग्रहसंभवाः ॥५९॥
अभ्यस्य नवामाध्यायं राजा तस्माद्द्विजन्मनः
तावुभावपि लेभाते परां निर्वृतिमुत्तमाम् ॥६०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये त्र्यशीत्यधिकशततमोऽध्यायः ॥१८३॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP