संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १३

उत्तरखण्डः - अध्यायः १३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
ततो जालंधरः श्रुत्वा दैत्यकोलाहलं रणे
आजगाम रथारूढो यत्र देवः सदाशिवः ॥१॥
सारथिं खड्गरोमाणं कोपात्सत्वरमब्रवीत्
संप्रेषय रथं शीघ्रं सहस्रहययोजितम् ॥२॥
हन्मि तं तापसं शौर्याज्जटाभस्मास्थिभूषितम्
वृषारूढस्य का शक्तिः पंगोर्युद्धे मया सह ॥३॥
नारद उवाच-
इत्युक्त्वा खड्गरोमाणमाभाष्य च तथोद्धतः
गृहीत्वा कार्मुकं घोरं रथेनाधावत द्रुतम् ॥४॥
तं रुरोध तदायांतं वीरभद्रः शितैः शरैः
निरुच्छ्वासीकृतेनापि स कायेन शरैर्वृतः ॥५॥
देवैर्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः
तथापि किं कपालानि तुलां यांति कलानिधेः ॥६॥
विव्याध मणिभद्रोऽपि शरैः सागरनंदनम्
पाशेन मणिभद्रं तु हत्वोवाचेश्वरं वचः ॥७॥
एहि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदि
त्वं मां प्रहर न त्वाहमादौ हन्मि जटाधरम् ॥८॥
इति ब्रुवंतं तं गर्वाद्वीरभद्रोऽथ सायकैः
पूरयामास संक्रुद्धो यथा पद्मं रविः करैः ॥९॥
मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत्
रथोपरि रथं वीर तुरगं तुरगोपरि ॥१०॥
गजोपरि गजं हत्वा पातयामास भूतले
रक्तपंकारुणा भूमिः संजाता दुर्गमा क्षणात् ॥११॥
शैलाच्च गणमुख्याश्च दानवाञ्जघ्नुराहवे
पतंति दानवाः शूरा गतप्राणा महीतले ॥१२॥
रुंडदोर्दंडमुंडैश्च करिपृष्ठकरोरुभिः
पतंति दानवाः शूरा पूरिता वसुधा नृप ॥१३॥
नारद उवाच-
एवंविधं रणे दृष्ट्वा हरमत्यंतदुर्जयम्
भुवने च तथान्यानि दृष्टवाँल्लक्षणानि सः ॥१४॥
तेजोऽन्यदेवनक्षत्र शशांक सकलादिषु
उद्धाटितजगत्कोशमन्यदेवरवेर्महः ॥१५॥
भग्नः पुनश्चिंतितवांस्ततो जालंधरो नृप
न दृष्टा सा मया गौरी यां मामाहाति नारदः ॥१६॥
सांप्रतं शाश्वते स्थाने कथं द्रक्ष्याम्युमां स्थिताम्
तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शंभुना ॥१७॥
चिंतयित्वेति मनसा दैत्यं प्राहार्णवात्मजः
शुंभं चंडजये वीर मम तुल्यपराक्रम ॥१८॥
धृत्वा मत्सदृशं रूपं संग्रामं कर्तुमर्हसि
तव युद्धस्य भारोऽयं शिबिरस्य बलस्य च ॥१९॥
अहं यास्यामि तां द्रष्टुं गौरीं मच्चित्तहारिणीम्
इत्युक्त्वाथ ददौ तस्मै स्वांगादुत्तार्य मंडनम् ॥२०॥
वर्मशस्त्रादिकं दत्वा रथं सारथिसंयुतम्
दुर्वारणेन सहितः सैन्यं मुक्त्वोदधेः सुतः ॥२१॥
अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिव
मानसोत्तरशैलस्य हररूपं दधार सः ॥२२॥
धृत्वा दुर्वारणे रूपं नंदिनः सदृशं तथा
अथारुरुहतुः शैलं छद्मशंकरनंदिनौ ॥२३॥
यत्रास्ति शिखरे गौरी सखिभिः सहिता नृप
तमायांतं शरैर्भिन्नं स्कंधमालम्ब्य नंदिनः ॥२४॥
रक्ताक्तमंबरं दृष्ट्वा भवानी विस्मिताभवत्
सख्यस्तस्या जयाद्यास्ताः जग्मुस्तं संभ्रमान्विताः ॥२५॥
शंकरस्यांतिकं गत्वा पप्रच्छुस्तं सुदुःखिताः
किं जातं तव देवेश केन त्वं संगरे जितः ॥२६॥
सशल्यस्त्वं कथं नाथ संसारीव प्ररोदिषि
इत्युक्तः प्रददौ ताभ्यो भूषणानि पृथक्पृथक् ॥२७॥
उत्तार्य शनकैरंगात् वासुकिप्रभृतीनि च
गणेशस्कंदशिरसीच्छिन्ने कुक्षौ विलोक्य च ॥२८॥
हा स्कंद हा गणेशेति हा रुद्रेत्यंबिकारुदत्
तस्याः सख्यस्ततः सर्वा रुरुदुः शोककर्शिताः ॥२९॥
अत्राब्रवीज्जयां नंदी त्वमेनं परिपालय
मणिभद्रो वीरभद्रः पुष्पदंतश्च वीर्यवान् ॥३०॥
दंभनो धूमतिमिरः कूष्मांडाद्या रणे हताः
चंडी भृंगी किरीटिश्च महाकालश्च शृंखली ॥३१॥
चंडीशो गुप्तनेत्रश्च कालाद्याश्च हता रणे
विनायकस्य स्कंदस्य शिरसी भ्रमता मया ॥३२॥
दृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपत्
तच्छ्रुत्वा नंदिनो वाक्यं शिरसी गृह्य पुत्रयोः ॥३३॥
पार्वती विललापोच्चैः पुत्रपुत्रेति जल्पती
तारकारे कथं युद्धे हतस्त्वं सिंधुसूनुना ॥३४॥
त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितः
तदा त्वया कथं वीर तारकाख्यो निपातितः ॥३५॥
नीलकंठेन किं त्यक्तो यतस्त्वं पतितो भुवि
स्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया ॥३६॥
न भोगा वत्स ते भुक्ता संसारस्यापि येभवन्
तात हेरंब विघ्नेश लंबोदर गजानन ॥३७॥
रणांगणे केन पुत्र सिद्धैः पूज्यो निपातितः
वाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः ॥३८॥
एवं विलपती गौरी शिवं प्राह सुदुःखितम्
साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं कुरु ॥३९॥
वृषभः क्व गतो देव हतो जालंधरेण वै
शरजर्जरदेहस्य किं करोमि प्रियं तव ॥४०॥
ततः श्रुत्वा वचो देव्या निश्वस्योवाच शंकरः
दीर्घं विनिहतौ पुत्रौ वृथा शोचसि किं प्रिये ॥४१॥
अधुना तेंगसंगेन देवि मां त्रातुमर्हसि
शंकरस्य वचः श्रुत्वाऽसमयोचितमातुरम्
प्रत्युवाचांबिका देवं बभाषे नोचितं वचः ॥४२॥
महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरे
श्राद्धे प्रयाणे गुरुवृद्धसन्निधौ रतिं बुधाः शंकर वर्जयंति ॥४३॥
कथं मां दुःखदुःखार्तां पुत्रशोकेन पीडिताम्
म्लानां बाष्पपरिम्लानां संप्रार्थयसि चातुराम् ॥४४॥
भवान्या इति वाक्यानि श्रुत्वा मायामहेश्वरः
उवाच स्वार्थमुद्दिश्य गौर्यारूपेण मोहितः ॥४५॥
पुरुषस्यार्तियुक्तस्य न यच्छंति रतिं स्त्रियः
तथैव रौरवे घोरे पतिष्यंति न संशयः ॥४६॥
गणशून्यः पुत्रशून्यो धीशून्योऽहं वरानने
सांप्रतं गृह्य शून्योऽहं सर्वशून्योऽस्मि भामिनि ॥४७॥
सुजीवितं विहीनोऽहं त्वां प्रष्टुमिह चागतः
स्वं गृहं तु प्रविश्याशु त्यजामि प्रकृतिं स्वकाम् ॥४८॥
उत्तिष्ठ नंदिन्संयावस्तीर्थे भव पुरःसरः
त्वं याहि स्वेच्छया कांते प्रकृतिं स्वां परित्यज ॥४९॥
इति मायामहेशस्य वचः श्रुत्वांबिका ततः
दीर्घं दध्यो महाश्वासं शोकेन च जडीकृता ॥५०॥
तस्यैवं परमे क्षोभे किंचिन्नोवाच सा क्षणम्
यया संमोहितं सर्वं जगत्स्थावरजंगमम्
सैव संमोहिता तेन न जाने दुःखमात्मनः ॥५१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे युधिष्ठिरनारदसम्वादे जालंधरमायामहेशागमनंनाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP