संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १९३ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १९३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १९३ Translation - भाषांतर पार्वत्युवाच-देवदेव महादेव सर्वज्ञ सकलार्थदकृपां मयि परां कृत्वा यत्पृच्छे तद्वदस्व मे ॥१॥श्रुतं च गीतामाहात्म्यं बह्वाश्चर्यकथायुतम्तेन मे भक्तिरुत्पन्ना श्रोतुं कृष्णकथां पराम् ॥२॥पुराणेषु तु सर्वेषु श्रीमद्भागवतं परम्यत्र प्रतिपदं कृष्णो गीयते बहुधर्षिभिःतन्माहात्म्यं यथातत्वं सेतिहासं वदाधुना ॥३॥ईश्वर उवाच-नैमिषे सूतमासीनमभिवाद्य महामतिम्कथामृतरसास्वादकुशलः शौनकोऽब्रवीत् ॥४॥शौनक उवाचअज्ञानध्वांतविध्वंसि कोटिजन्माघनाशनम् ॥५॥श्रीमद्भागवताख्यानं सूताख्याहि रसायनम्भक्तिज्ञानविरागाढ्यो विवेको वर्द्धते कथम् ॥६॥माहामोहनिरासश्च वैष्णवैः क्रियते कथम्इह घोरे कलौप्रायो जीवश्चासुरतां गतः ॥७॥क्लेशाक्रांतस्य तस्याथ शोधने किं रसायनम्श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् ॥८॥कृष्णप्रीतिकरं यच्च साधनं तद्वदाधुनाचिंतामणिं लोकसुखं सुरेंद्रास्पदसंपदम् ॥९॥प्रयच्छति गुरुः प्रीतो वैकुंठं चातिदुर्लभम् ॥१०॥सूत उवाच-प्रीतोऽहं ते द्विजश्रेष्ठाः कथयिष्ये यथाश्रुतम्सारात्सारतरं यच्च संसारभयनाशनम् ॥११॥भक्तिप्रवर्द्धकं यच्च कृष्णसंतुष्टिहेतुकम्तन्मे कथयतः साधो सावधानतया शृणु ॥१२॥कालव्यालमुखालीढ जगत्त्राणविधायकम्श्रीमद्भागवतं शास्त्रं कलौ कृष्णेन भाषितम् ॥१३॥एतस्मादपरं किंचिन्मनः शुद्धिकरं नहिजन्मांतरकृतैः पुण्यैर्लभ्यते साधुभिस्तु तत् ॥१४॥राज्ञः परीक्षितो मोक्षं ज्ञात्वा कमलसंभवःतोलयामास शास्त्राणि पुराणानि महांति च ॥१५॥श्रीमद्भागवतं तत्र गरीयो भुवि संगतम्श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा ॥१६॥इति संचित्य बहुशो मुनयः साधवोऽमलाःमेनिरे भगवद्रूपं श्रीमद्भागवतं क्षितौ ॥१७॥पठनाच्छ्रवणाद्यस्य नरो याति हरेः पदम्वर्षेण श्रवणं तस्य बहुसौख्यप्रदायकम् ॥१८॥मासेन भक्तिराभास्यं लभते द्विजसत्तमसप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम् ॥१९॥किं बहूक्तेन वै साधो श्रीमद्भागवताऽमृतम्नित्यं सद्भिः प्रपातव्यं कृष्णलीलाप्रकाशकम् ॥२०॥सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैःब्रह्मणः श्रुतपूर्वाय सप्ताहश्रवणे विधिः ॥२१॥शौनक उवाच-पितुर्लब्ध्वा वरं ज्ञानं श्रीमद्भागवताभिधम्नारदो लोकतत्वज्ञः सर्वदा ह्यटते महीम् ॥२२॥कुत्र तैः संगमो जातो नारदस्य महात्मभिःश्रुतो देवर्षिणा यत्र सप्ताहश्रवणे विधिः ॥२३॥सूत उवाच-अत्र ते वर्णयिष्यामि भक्तियुक्तं कथानकम्यत्पुरा ब्रह्मरातेन मह्यं प्रोक्तं दयालुना ॥२४॥एकदा तु विशालायामुपविष्टमधोमुखम्नारदं सनकाद्यास्ते ददृशुर्दीनमानसम् ॥२५॥तं दृष्ट्वा चिंतयानं तु देवर्षिर्भ्रातरं स्वकम्पप्रच्छुर्विस्मयाविष्टा मुनयस्तत्वचिंतकाः ॥२६॥कुमारा ऊचुः-किं त्वं चिंतयसे ब्रह्मन्नतिदीन इवातुरःतवेत्थं मुक्तिसंगस्य नोचितं वद कारणम् ॥२७॥नारद उवाच-अहं पृथ्व्यां समायातो ज्ञात्वा सर्वोत्तमोत्तमाम्तीर्थैर्नानाविधैर्युक्तां पुण्यदैः पुण्यरूपिणीम् ॥२८॥पुष्करे च प्रयागे च काश्यां गोदावरीतटेहरिक्षेत्रे कुरुक्षेत्रे श्रीरंगे सेतुबंधने ॥२९॥एतेष्वन्येषु तीर्थेषु भ्रममाण इतस्ततःनापश्यं कुत्रचिच्छर्म मनः संतोषकारकम् ॥३०॥कलिना धर्ममित्रेण धरेयं बाधिताऽधुनासत्यं शौचं दया दानं नास्ति कुत्रापि भूतले ॥३१॥उदरंभरिणो लोका वराकाः कूटसाक्षिणःमंदाः सुमंदमतयो महापाखंडसंश्रयाः ॥३२॥स्त्रीप्रधानगृहस्थाश्च वर्णिनो व्रतवर्जिताःवानप्रस्थाः पुरावासा न्यासिनो भोगतत्परा ॥३३॥कन्याविक्रयिणो लोभात्कृषिकर्मपरायणाःभ्रष्टाचारा दंभिनश्च स्वेच्छाचारनिदर्शिनः ॥३४॥आश्रमा यवनै रुद्धास्तीर्थानि सरितो ह्रदाःदेवतायतनान्यत्र दुष्टैरुच्छेदितानि च ॥३५॥योगी सिद्धोऽथवा ज्ञानी सत्क्रियोऽत्र न दृश्यतेकलिदावानलेनाद्य साधनं भस्मतां गतम् ॥३६॥अट्टशूला जनपदाः शिवशूला द्विजातयःकामिन्यः केशशूलिन्यो दृश्यंते भुवि सर्वतः ॥३७॥एकदाहमनुप्राप्तो यमुनायास्तटं शुभम्दृष्टं वृंदावनं तत्र यत्र लीला हरेरभूत् ॥३८॥तत्र यच्चाद्भुतं दृष्टं श्रूयतां तन्मुनीश्वराःएका तु तरुणी तत्र निषण्णाखिन्नमानसा ॥३९॥द्वौ वृद्धौ पतितौ पार्श्वे निःश्वसंतावचेतनौशुश्रूषंती प्रबोधंती रुदती च तयोः पुरः ॥४०॥दृष्टा दिशो निरीक्षंती रक्षितारमिवात्मनःवीज्यमाना बहुस्त्रीभिर्बोध्यमाना मुहुर्महुः ॥४१॥दृष्ट्वा दूराद्गतश्चाऽहं कौतुकेन तदंतिकम्मां दृष्ट्वोत्थाय सा बाला वचनं चेदमब्रवीत् ॥४२॥बालोवाच-भो साधोऽत्र क्षणं तिष्ठ मम चिंतामपाकुरुपुंसां च दर्शनं भद्र सर्वाघौघनिवारणम्पुण्येन प्राक्तनेनैव दर्शनं तव जायते ॥४३॥॥अतो मे मानसं दुःखं च्छेत्तुमर्हसि मानदनारद उवाचएवमुक्तस्तया चाहं कृपया स्निग्धमानसःअपृच्छंतां वरारोहां कौतुकेन समाकुलः ॥४४॥का त्वमेतौ च कौ भद्रे काश्चेमाः पद्मलोचनाःआख्याहि मत्पुरः सर्वं तव दुःखस्य कारणम् ॥४५॥इति पृष्टा मया सा तु बाला दुःखितमानसाप्रोवाच निखिलं दुःखमात्मनो दुःखकारणम् ॥४६॥बालोवाच-अहं भक्तिरिति ख्याता एतौ मे तनयौ वरौज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ ॥४७॥गंगाद्याः सरितश्चेमा मम सेवार्थमागताःएताभिः सेविता नित्यं सत्कारेणापि नारद ॥४८॥न च श्रेयो लभे किंचित्क्षीणाऽहं सर्वतो मुनेममपूर्वं तु वृत्तातं शृणु ब्राह्मणसत्तम ॥४९॥येनाऽहं दुःखिता जाता न लभे शर्म कुत्रचित्उत्पन्ना द्रविडे चाहं कर्णाटे वृद्धिमागता ॥५०॥स्थिता किंचिन्महाराष्ट्रे गुर्जरे जीर्णतां गतातत्र घोरकलेर्योगात्पाखंडैः खंडितांगका ॥५१॥दुर्बलाहं चिरं जाता पुत्राभ्यां सह मंदताम् ॥५२॥वृंदावनमिदं प्राप्ता दैवयोगेन नारदजाता हं तु पुनर्बाला नवीनेव सुरूपिणी ॥५३॥इमौ तु शयितावत्र सुतौ मे क्लिष्टमानसौअतिवृद्धौ परित्यज्य गंतुं नाहं क्षमाधुना ॥५४॥अहं बाला कथं जाता सुतौ मे जरठौ कुतःत्रयाणामेकभावानां वैपरीत्यं कुतोऽभवत् ॥५५॥घटते जरठा माता बालकौ तनयावितिअतः शोचामि चात्मानं विस्मयाविष्टमानसा ॥५६॥यदि त्वं वेत्सि धर्मज्ञ कृपालो दीनपालकवद सर्वं यथातत्वं कारणं चात्र यद्भवेत् ॥५७॥एवं पृष्टस्तया चाहं क्षणं चैव विमृश्य तुअवोचं भक्तिमाभाष्य क्लिष्टां कालेन भूयसा ॥५८॥ज्ञानेनाहं प्रपश्यामि वृत्तं सर्वं तवानघेमा विषादं कुरु प्राज्ञे हरिः शं ते करिष्यति ॥५९॥सर्वसत्वहरो बाले युगोऽयं दारुणः कलिलुप्तोऽनेन सदाऽचारो योगमार्गस्तपांसि च ॥६०॥जनाश्चाघा (द्या) सुरायंते शाठ्यदुष्कृतकारिणःसंतो ह्यस्मिन्सुदुःखार्ता असंतो हृष्टमानसाः ॥६१॥दृश्यते धीरचित्तस्तु पंडितोऽपि न कोऽपि चअस्पृश्य नवलोक्येयं दुष्टभाराकुलाधरा ॥६२॥अन्वब्दं क्रमतो जातो मंगलं हीयतेऽन्वहम्न त्वां तव सुतौ चेमौ कोऽपि पश्यति भामिनि ॥६३॥यूयं तु रागबहुलैस्त्यक्ता जर्जरतां गताःवृंदावनस्य संयोगाद्बालात्वमभवः पुनः ॥६४॥धन्यं वृंदावनं चेदं भक्तिर्यत्राभवन्नवाअत्रेमौ ग्राहकाभावान्नवीनत्वं न चागतौ ॥६५॥किंचिदात्मसुखेनेह प्रसुप्ताविति लक्ष्यतेभक्तिरुवाच-कथं परिक्षिता राज्ञा स्थापितोद्य शुचिः कलिदयापरेण हरिणा ह्यधर्मः किमुपेक्षितः ॥६६॥एनं मे संशयं छिंधि त्वद्वाचा सुखितास्म्यहम्तस्या वचः समाकर्ण्य भूयोऽहमवदं द्विजाः ॥६७॥यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरुयदा मुकुंदो भगवान्क्ष्मां त्यक्त्वा स्वपदं गतः ॥६८॥कलिस्तद्दिनमारभ्य प्रवृत्तः सत्यबाधकःदृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः ॥६९॥न हतोऽस्य गुणद्रष्टा सर्वसाधारणं त्विदम्यत्फलं तपसा नैति न योगे न समाधिना ॥७०॥तत्फलं लभते धीमान्कलौ केशवकीर्तनात्एतादृशं कलिं दृष्ट्वा सारात्सारफलप्रदम् ॥७१॥विष्णुरातः स्थापितवान्कलिजानां हिताय चकुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना ॥७२॥पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथाविप्रैर्भागवतीवार्त्ता गेहे गेहे जने जने ॥७३॥कारिता धनलोभेन कथासारस्ततो गतःअत्युग्रभूरिकर्माणो नास्तिका दांभिका जनाः ॥७४॥तिष्ठंति सर्वतीर्थेषु तीर्थसारस्ततो गतःकामक्रोधमहालोभतृष्णाव्याकुलचेतसः ॥७५॥समारभंते कर्माणि कर्मसारस्ततो गतःमनसश्चाजयाल्लोभाद्दंभात्पाखंडसंश्रयात् ॥७६॥शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम्पंडितास्ते कलत्रेषु रमंते महिषा इव ॥७७॥पुत्रोत्पादनदक्षाश्च न दक्षा मुक्तिसाधनेन हि वैष्णवता कुत्र संप्रदायपुरःसराः ॥७८॥देवनिंदापराः सर्वे साधुनिंदापरायणाःअयं तु युगधर्मोऽस्ति दीयते कस्य दूषणम् ॥७९॥अतस्त्वं पुंडरीकाक्षं स्मृत्वा सौख्यमवाप्स्यसि ॥८०॥एवं मयोक्तं वचनं श्रुत्वा सा विस्मयं गताउवाच वचनं भूयो मां प्रशस्य द्विजोत्तमाः ॥८१॥भक्तिरुवाच-देवर्षे त्वं तु धन्योऽसि मद्भाग्येन समागतःसाधूनां दर्शनं लोके सर्वसिद्धिप्रदायकम् ॥८२॥सुखोपायो यथा मे स्यात्तथादिश मुनेऽधुनासर्वज्ञस्य तव ब्रह्मन्न साध्यं किमपीह वै ॥८३॥अजयदजितमायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्यध्रुवपदमुपयातो यत्कृपातो ध्रुवो वै तमहमरणभूतं ब्रह्मपुत्रं नतास्मि ॥८४॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे भागवतमाहात्म्ये त्रिनवत्यधिकशततमोऽध्यायः ॥१९३॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP