संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २१९ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २१९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २१९ Translation - भाषांतर नारद उवाच-इत्याकर्ण्य वचस्तस्य पुंडरीको महामनाःउवाच निजबंधुं तं शृण्वतां निजसंगिनाम् ॥१॥पुंडरीक उवाच-केन पुण्येन तीर्थेऽस्मिन्मृत्युर्भरत तेऽभवत्यदि जानासि तद्ब्रूहि पापं विख्यातमेव ते ॥२॥भरत उवाच-पुंडरीक शृणुष्वेदं कथयामि तवाग्रतःएतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि ॥३॥एकदा तु धनं जित्वा समागच्छन्निजं गृहम्अपश्यं मृतकं बालं मृतस्यानाथमापणे ॥४॥निधाय तमहं मूर्ध्नि नीत्वा गंगातटे शुभेवस्त्रादिभिरलंकृत्य चक्रे दाहादिसत्क्रियाम् ॥५॥द्यूतेनोपार्ज्जितं द्रव्यं तत्सर्वं व्ययितं मयातेन पुण्येन प्राप्तं मे तीर्थमेतच्छुभावहम् ॥६॥कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकम् ॥७॥श्रीनारद उवाच-संस्कारे विहिते राजन्भरतः पापवानपितीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिविमासमेकं यथा विष्णुः पुंडरीकगृहे हरिः ॥८॥उवासास्य प्रसादेन तीर्थस्य शृणु सांप्रतम्अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिम्दृष्ट्वेति हृदये मेने तीर्थमेतत्तु कामदम् ॥९॥अत्रेति वांच्छया सस्नौ पुंडरीकः स पंडितःमाघमासं स्वरूपेण हरिर्वसतु मे गृहे ॥१०॥एवं स्नात्वा स कामेन ययौ निजगृहं प्रतितीर्थेऽत्र नृपतिश्रेष्ठ पुंडरीकोऽखिलार्थदे ॥११॥बंधुभ्यो मरणं भ्रातुर्भरतस्य जगाद हतेपि श्रुत्वा शुचं चक्रुर्माययावृतबुद्धयः ॥१२॥पुंडरीकस्तदा कुर्वन्गृहे स्वस्मिन्निजक्रियाःउवासेति महानंदस्तपस्यायास्यते हरिः ॥१३॥पूर्णिमायामथो पौष्यां चक्रे स परमोत्सवम्मत्वेति श्वो गृहे मह्यं हरिरायास्यति ध्रुवम् ॥१४॥श्रीखंडजलसेकेन गोमयालेपनेन चमुक्ताचूर्णचतुष्केन समस्कुरुत केतनम् ॥१५॥शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयत्वह्वीभिर्दक्षिणाभिश्च तानेव समतोषयत् ॥१६॥नानावादित्रकुशलैः कलकंठैश्च गायनैःरजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा ॥१७॥अथ प्रभाते तान्सर्वान्गायनादीन्विसृज्य सःगोविंदागमनाकांक्षी गृहमध्ये उपाविशत् ॥१८॥अथ तस्य गृहाभ्यासे निवर्त्य निजवाहनम्प्राविशद्गृहमध्ये तु कर्तुं स्वजनवांछितम् ॥१९॥स पुंडरीकस्तं दृष्ट्वा माधवं समुपागतम्उत्थायासनतस्तूर्णं ववंदे शिरसा नृप ॥२०॥उवाच च स धर्म्मात्मा गोविंदालोकनिर्वृतःसंपूज्यार्घादिदानेन विष्टरे तं निवेशितम् ॥२१॥पुंडरीक उवाच-भवता भव तापघ्नं सुस्पष्टं तदनुष्ठितम्तावदत्र त्वया विष्णो स्थीयतां स्थितिकारिणा ॥२२॥यावदस्य पुनीतस्य समाप्तिस्तपसो भवेत्यत्र त्वं सेवकास्ते च वसंति परिचर्यया ॥२३॥तत्रैव खलु वैकुंठं सर्वदोषविवर्जितःयद्गृहे तव कर्माणि वर्ण्यं ते साधुभिर्विभो ॥२४॥हरिर्निवसते तत्र सन्मुखादिति नः श्रुतम्येषां वचसि ते नाम हृदि रूपं च सुंदरम् ॥२५॥कर्णयोश्च गुणारोपस्त एव खलु साधवःभवतो भवते स्वांतं येषां शुश्रूषणे विभो ॥२६॥उत्तमांगे च निर्माल्यं त एव खलु साधवःयेषां तु बुद्धिः शत्रौ च मित्रे च कमलापते ॥२७॥चयापचययोश्चैव त एव खलु साधवःयेषां विकुरुते चेतो न विकारस्य कारणे ॥२८॥संति लक्ष्मीपते नूनं त एव खलु साधवःयत्र त्वं साधवस्तत्र संतो यत्र ततो भवान्भवानतो विज्ञाय तां साधुं माघे मम गृहे वस ॥२९॥नारद उवाच-इत्याकर्ण्य वचस्तस्य पुंडरीकस्य माधवःउवाच वचनं भासादंतानां भासयन्दिशः ॥३०॥श्रीभगवानुवाच-साधूनामुत्तमः साधुस्त्वं पृथिव्यां महामतेयत्त्वया पुण्यतीर्थे तु स्नातं मत्संगवांछया ॥३१॥उत्तिष्ठ जाह्नवीतोय माघे स्नानं कुरु द्विजमाघांते स्नापयामि त्वां पूर्णिमायां तु पुष्करे ॥३२॥प्रयागे माघमासे तु पूर्णं यत्स्नानजं फलम्तत्सर्वं पुष्करे तीर्थे दिनैकस्नानतो भवेत् ॥३३॥नारद उवाच-एवमुक्तः स विप्रेंद्रः पुंडरीको मुरारिणाकिंचिदभ्युदिते सूर्ये स्नानं गंगाजलेऽकरोत् ॥३४॥प्रत्यक्ष पुंडरीकाक्ष पुंडरीकः समर्चयत्तुलसीविकसत्पुष्पयवकुंकुमचंदनैः ॥३५॥धूपैरगरुजैरंगवासितांगं रमापतिम्नीराजयति कर्पूरदीपकैः पंचभिः स्म सः ॥३६॥चतुर्विधमयैर्भोज्यैर्भोजयित्वा जगद्गुरुम्सुप्तं स मणिपर्यंके चामरैस्तमवीजयत् ॥३७॥पादसंवाहनं जातु चक्रे तस्य रमापतेःजातकर्पूरसंयुक्तं ददौ तांबूलवीटकम् ॥३८॥उष्णीषं बध्नतस्तस्य श्रीपतेः पुरतस्तदातस्थौ जातु स विप्रेंद्रः करेणानीय दर्पणम् ॥३९॥एवं निजगृहे तस्य वसतः स भवच्छिदःसपर्यां विदधद्विप्रो माघं निन्ये स मस्तकम् ॥४०॥अथ माघावसाने तु पूर्णिमायां रमापतेःस्मृतिमात्रागतं तार्क्ष्यमपश्यत्पुरतः स्थितम् ॥४१॥तं दृष्ट्वा पुंडरीकाक्षः पुंडरीकमुवाच हश्रीभगवानुवाच-श्रूयतां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते ॥४२॥इंद्रप्रस्थगते तीर्थे पुष्करे ते यदृच्छयास्नानायते मया दत्तं यन्मासमुषितं मया ॥४३॥अद्यपक्षींद्रमारुह्य मया सह महामतेव्रज तीर्थशिरोरत्नं तदेव प्रति पुष्करे ॥४४॥चतुर्वर्गप्रदे तस्मिन्स्नानं कुर्वन्यदीच्छसितदहं ते प्रदास्यामि यदहं तद्वशे द्विज ॥४५॥पापोऽपि भरतस्ते वै भ्राता यत्र मृतो गतःस्वर्गं स्वर्गसुखाकांक्षी किमन्यत्तस्य वर्ण्यते ॥४६॥नारद उवाच-एवमुक्त्वा स देवेंद्रो ब्राह्मणेंद्रं नरेंद्र तम्पतगेंद्रं समारोप्य सर्वतीर्थेंद्रमागमत् ॥४७॥पुंडरीकस्य देहात्तु तेन तत्प्राणवायुनासमं ज्योतिः स निर्गत्य गोविंदपदमाविशत् ॥४८॥एवं पुष्करतीर्थेऽस्मिन्निंद्रप्रस्थगते नृपस्नानेन पुंडरीकस्तु लेभे सायुज्यमीश्वरे ॥४९॥एवं तीर्थानुरोधेन गोविंदोऽपि च तद्गृहेमासमेकं सुखं राजन्नुवास निजबंधुवत् ॥५०॥केन वर्णयितुं शक्यो महिमा पुष्करस्य वैशक्रप्रस्थगतस्यास्य कोट्यंशो वर्णितो मया ॥५१॥माहात्म्यश्रवणादस्य श्रद्धया लभते नरःअश्वमेधक्रतुफलं पठनादपि भूपते ॥५२॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये पुष्करमहिमावर्णनोनामैकोनविंशाधिकद्विशततमोऽध्यायः ॥२१९॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP