संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २१६

उत्तरखण्डः - अध्यायः २१६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
अतो मधुवनाद्राजन्नयं बदरिकाश्रमः
एकादशधनुर्मात्रे भूभागे व्यवतिष्ठति ॥१॥
अस्य तीर्थवरस्याहं महिमानं महद्भुतम्
वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयात् ॥२॥
एकस्तु मगधे राजन्देवदासो हि नामतः
ब्राह्मणः सत्यवान्दांतः साक्षाद्धर्म इवापरः ॥३॥
निष्णातः सर्वविद्यासु बृहस्पतिरिवापरः
हरिसंतोषको भक्त्या प्रह्लाद इव दैत्यराट् ॥४॥
सस्त्रीकोऽपि स्मरं जेता पार्वत्याइव वल्लभः
सदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा ॥५॥
मगधेशगृहे मान्यो द्रोणतत्कुरुवेश्मनि
दानशीलः सुपात्रेषु बलिर्दैत्याधिपो यथा ॥६॥
तस्यभार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमा
पतिशुश्रूषणपरा यथाजनकनंदिनी ॥७॥
तस्यैकश्च सुतो राजन्नंगदो नाम बुद्धिमान्
एका पुत्री तु वलया नाम सल्लक्षमणान्विता ॥८॥
तयोर्ज्यायान्सुतः कन्या तस्माद्भूपकनीयसी
तयोर्यथाक्रमं चक्रे विवाहं स द्विजोत्तमः ॥९॥
विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनि
शुभलक्षणसंपन्ना कालेन कियता नृप ॥१०॥
अंगदस्तु महाबुद्धिर्गृहभारं बभार ह
पितृवत्सर्वशास्त्रज्ञो यौवनश्रीविभूषितः ॥११॥
एकदा स तु विप्रेंद्रः पुत्रं तं गृहकर्मणि
क्षमं विज्ञाय राजेंद्र निजभार्यामुवाच ह ॥१२॥
देवदास उवाच
समाकर्णय मे साध्वि कालेऽस्मिन्नुचितं वचः
ततो यदुचितं भद्रे तदह्नाय विधीयताम् ॥१३॥
एषा जरा समायाता शरीरं पातयिष्यति
अंगान्याकंपयंतीव वात्या पक्वफलं यथा ॥१४॥
अक्ष्णामपि द्युतिं मंदां नूनमेषा करिष्यति
नक्षत्राणां सचंद्राणां प्रातर्वेलेव सुव्रते ॥१५॥
स्खलितो पादयोर्मंदां गतिं प्रतिपदक्रमम्
करिष्यति जरा ह्येषा यथानिगडशृंखला ॥१६॥
तस्मादेषा जरा यावन्न प्रौढा जायते शुभे
आत्मनस्तावदावाभ्यां करणीयं हि तं द्रुतम् ॥१७
गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराः
द्रव्यादिकं च सुभगे तेषु सज्जेत नो बुधः ॥१८॥
अतोऽहं सर्वतीर्थेषु पयर्यटन्विजितेंद्रियः
वानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरम् ॥१९॥
ततः संन्यासमादाय क्वचित्तीर्थोत्तमे शुभे
प्रारब्धकर्मणामंते त्यक्ष्यामि स्वं कलेवरम् ॥२०॥
एवं चेत्प्राणमुक्तः स्यान्मुक्तिः स्यान्नात्र संशयः
मम श्रीपतिपादाब्जसम्यक्स्थापितचेतसः ॥२१॥
उत्तमोवाच-
पुमान्वा स्त्रीजनो वापि को रमेत विनश्वरे
संसारे माधवं मुक्त्वा नित्याश्रममचेतनः ॥२२॥
तस्मान्मामपि जीवेश त्वत्पादांबुजसेविनीम्
नीत्वा स्वसंगमे तावद्विश्वाब्धेराशु तारय ॥२३॥
पुत्रोऽयमंगदः श्रीमान्गृहभारस्य धारणे
समर्थोऽभूत्स्नुषा चेयं कल्याणी तत्सहायिनी ॥२४॥
पुत्रे समर्थे यो मूढः पुरुषः स्त्रीजनोऽथवा
न विरज्येत यो मूढो वंचितः श्रेयसा हि सः ॥२५॥
नारद उवाच-
एवमन्योन्यमामंत्र्य दंपती तौ रहस्तदा
पुत्रमाहूय कथयांचक्रतुस्त्विदमंगदम् ॥२६॥
दंपत्यूचतुः-
जरागमश्लथद्गात्रावावां विद्धि त्वमंगद
स्वश्रेयसे यतिष्यावः कुत्रचित्पुण्यभूतले ॥२७॥
हरेराराधनं भक्त्या श्रेयः परममुच्यते
तदर्थमेव निष्कामा यतंते साधवो भुवि ॥२८॥
विषयेषु न संसक्तिः समत्वं सर्वजंतुषु
येषां हर्षविवादौ च न जातु सुखदुःखयो ॥२९॥
त एव साधवो लोके गोविंदपदसेविनः
तेषां दर्शनमात्रेण कृतार्थो जायते नरः ॥३०॥
तीर्थानि पर्यटन्धीरस्तद्दर्शनसमुत्सुकः
भाग्योदयेन केनापि तद्दर्शनमवाप्नुयात् ॥३१॥
तस्माद्भारं कुटुंबस्य भुजयोर्युगदीर्घयोः
आरोप्य नौ विसर्जस्व तीर्थयात्रार्थमंगद ॥३२॥
तीर्थयात्राप्रसंगेन कदाचित्साधुदर्शनम्
भवेद्यदि तदा पुत्र द्वयोर्नौ स्यात्कृतार्थता ॥३३॥
नारद उवाच-
इत्युक्तः पितृभ्यां पुत्रः साधुवादमवादयत्
नारद उवाच-
समस्तकुलनिस्तारो भवद्भ्यामयमीरितः ॥३४॥
आशु मामवजानीतं किं करोमि भवद्धितम्
अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः ॥३५॥
पुण्यतीर्थेषु दानार्थं गृहीतं धनमुत्तमम्
नयतं मामपि प्रेष्यं सेवायै निजसंगमम् ॥३६॥
नारद उवाच-
इत्युक्त्वा धनमादाय गत्वा क्रोशद्वयं तयोः
संगे गृहमगात्ताभ्यां कथंचित्संनिवर्तितः ॥३७॥
तौ गृहीत्वा धनं किचिद्विष्णुर्नौ संयतामिति
कंदमूलफलाहारौ तत्रोषित्वा दिनत्रयम् ॥३८॥
यदा तस्मात्प्रचलितौ दंपती जगतीपते
तदा मार्गे महान्कश्चित्सिद्धः संमीलितस्तयोः ॥३९॥
ताभ्यामुभाभ्यां शिरसा वंदितः स उपाविशत्
उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट् ॥४०॥
को भवान्कुत आयातो किं चिकीर्षति तद्वद
सिद्ध उवाच-
सिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम ॥४१॥
इंद्रप्रस्थात्समायातो दृष्टं तत्र महाद्भुतम्
तत्रास्ति कपिलः सिद्धो नारायणसमो गुणैः ॥४२॥
तस्मादहं पठन्सांख्यं निवसामि तदाश्रमे
एकदा मद्गुरुः श्रीमान्स्वाश्रमात्कपिलो ययौ ॥४३॥
बदर्याख्यं महापुण्यं स्नातुं स यमुनाजले
तत्रैकोरण्यमहिषस्तृषार्तो यमुनाजले ॥४४॥
प्रविष्टो जलमापीय पूर्वजन्मस्वमस्मरत्
स्मृत्वा स पूर्वकर्माणि महिषोऽरण्यसंभवः ॥४५॥
जलान्निसृत्य तरसा ववंदे कपिलं गुरुम्
उवाच नरवाचा च मयि शृण्वति तापसः
यत्तत्ते कथयाम्यद्य शृणु त्वं परमाद्भुतम् ॥४६॥
महिष उवाच-
भोभो विष्णुकलाभूत सिद्धानां कपिलेश्वर
किं नामेदं महातीर्थं नताय कथयस्व मे ॥४७॥
अस्य तीर्थवरस्यांबुस्पर्शाद्वै पूर्वजन्मनि
जाता मम महाभाग पापस्यापि च कर्मणः ॥४८॥
सिद्ध उवाच-
एवमाकर्ण्य तद्वाक्यं महिषस्य महामुनिः
जानन्नपि च तद्वृत्तं विहस्येदमुवाच ह ॥४९॥
कपिल उवाच-
भवान्महिषशार्दूल क आसीत्पूर्वजन्मनि
तत्र किं कृतवान्कर्म योनिं येनाप माहिषीम् ॥५०॥
महिष उवाच-
शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनः
अहमासं पुरा राजा कलिंगाधिपतिर्बली ॥५१॥
स्वां परां नैव जानामि योषितं काममोहितः
वणिजां साधुवृत्तीनां धनहर्ता निरेनसाम् ॥५२॥
निशीथे नगरे राजन् गतभीः पर्यटाम्यहम्
सुंदरीभिः परस्त्रीभिः क्रीडितुं रतिलीलया ॥५३॥
यद्गृहे सुंदरीं नारीं पश्यामि स्मरमोहितः
वसामि निशि तत्राहं क्षेत्रे मध्ये गजो यथा ॥५४॥
क्रीडित्वा तत्र निःशंकं धनं हृत्वा च तद्गृहात्
स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् ॥५५॥
उपविष्टः सभामध्ये दिवा द्वौ पुरबालकौ
अनार्यबाहुयुद्धेन योधयामि निजाग्रतः ॥५६॥
नियोधयति यो बालस्तं मत्वा धनिनं बलात्
गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने ॥५७॥
यः पराजयते तत्र कातरत्वान्महामुने
नायमर्हः पुरे स्थातुं ममेति विनिहन्मि तम् ॥५८॥
एवमप्यद्यमारेभे वर्त्तमाने महीपतौ
पौरा नगरमुत्सृज्य प्रययुर्विषयांतरम् ॥५९॥
एकदा मुनिशार्दूलो दुर्वासा पर्यटन्महीम्
पुरे मम समायातो दुर्वासा रुद्रसंभवः ॥६०॥
मिलित्वा नागराः सर्वे तदाजग्मुस्तदंतिके
प्रणिपत्येदमाहुस्तं स्वदुःखज्ञापकं वचः ॥६१॥
पौरा ऊचुः
आत्रेय मुनिशार्दूल कृपां कुरु कृपानिधे
अधर्मनिरतं भूपमेनं धर्मेण योजय ॥६२॥
भाग्योदयेन केनापि भवानस्माकमागतः
उद्वेलाद्भूपदुःखाब्धेरस्मांस्तारय पोतवत् ॥६३॥
धनं लोभयतातेन हृतं नो मुनिपुंगव
दूषिताश्च स्त्रियः साध्व्यः सकामेन निरेनसा ॥६४॥
दशवत्सरदेशीया बहवः शिशवो हताः
अगण्य वैगुण्यनिधिरेष भूपो महामुने ॥६५॥
महिष उवाच-
एवमाकर्ण्य पौराणां वचः स मुनिरत्रिजः
दंड्योयमिति संचित्य सभास्थं मामथा ययौ ॥६६॥
दृष्ट्वा हि तं समायांतमवधूतं दिगंबरम्
आवारयमहं भृत्यैर्नेत्ययं दर्शनोचितः ॥६७॥
रेणुना सर्वलिप्तांगो महिषाकृतिरेव वै
वार्यतामिति पार्श्वस्थान्बहुशोऽहं समादिशम् ॥६८॥
ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुः
हुंकारेणैव तान्सर्वान्स चक्रे भस्मसान्मुनिः ॥६९॥
यज्ञाश्वं रक्षतः स्वस्य पितुस्त्वमिव सागरात्
सर्वशस्तानहं भृत्यान्भस्मीभूतांस्तु तेजसा ॥७०॥
आलक्ष्य सहसोत्थाय गृहमावेष्टुमुद्यतः
रेरे पापेति संबोध्य ततो मां मुनिसत्तमः ॥७१॥
शशापेति महारण्ये महिषो भव सांप्रतम्
तेनाहमिति शप्तो वै मुक्त्वा राजतनुं तदा ॥७२॥
मरुदेशे महारण्ये जातोऽहं महिषो मुने
चिरकालमहं तत्र न्यवसं मुनिपुंगवः ॥७३॥
अत्रागतस्तु केनाहं पुण्येन तदपि शृणु
वापीकूपसरस्यस्तु बहबः कारिता मया ॥७४॥
सहकारादिवृक्षाणामारोपो विहितः पथि
पुण्येनानेन मे देव पातो न नरकेऽभवत् ॥७५॥
तीर्थस्य च मया प्राप्तो ह्यमुष्यजलसंगमः
एतत्ते कथितं सर्वं पूर्वजन्मशुभाशुभम् ॥७६॥
येन तीर्थं मया प्राप्तमेतद्योनिश्च माहिषी
अस्यतीर्थवरस्यांबुस्पर्शाज्जातिस्मरोभवम्
कथमस्या असद्योनेर्मुक्तिः स्यात्तन्मुने वद ॥७७॥
कपिल उवाच-
एतत्तीर्थं महापुण्यं बदर्याख्यं रमापतेः
अत्र स्नाहि द्रुतं कामं स्वचित्तस्थं हि लप्स्यसे ॥७८॥
सिद्ध उवाच-
एतच्छ्रुत्वा वचस्तस्य महिषस्य महामुने
तत्र तीर्थे वरे स्नातुं प्राविशत्स्वर्गवांछया ॥७९॥
स्नात्वा स्वर्गेच्छया तस्मिन्जलात्तटमुपागते
तत्क्षणं गजमारूह्य शक्रः स्वर्गात्समाययौ ॥८०॥
इंद्र उवाच-
हे कलिंगपते नैजं देहं जहि हि माहिषम्
प्रतिलभ्य वपुर्दिव्यं सममायाहि मे दिवम्
त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदम् ॥८१॥
सिद्ध उवाच-
इत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिषम्
दिव्यं वपुः समासाद्य गजराजं समारुहत् ॥८२॥
गजराजं समारुह्य स्थित्वा च गगने क्षणम्
प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिम् ॥८३॥
कलिङ्ग उवाच
नमस्ते परमेशान केवलज्ञानहेतवे
सेतवे वेदविद्यानां रिपवे तद्विरोधिनाम् ॥८४॥
त्वत्तः प्रवृत्तिः सांख्यस्य जाता तत्वावबोधिनी
देहिनां मायया ग्रस्त चेतसामपि ते विभो ॥८५॥
ये वेदविहितं त्यक्त्वा वर्तंते स्वेच्छया मुने
तान्दंडयसि दंड्यांस्त्वं मज्जयंस्तिर्यगादिषु ॥८६॥
इंद्रादयो लोकपालाः सर्वे त्वदधिकारिणः
त्वदिच्छामनुवर्तंते भीता दंडकृतो हि ते ॥८७॥
त्रयीधर्मविरोद्धारः पूर्वदेवा युगे युगे
अवतीर्य विनाशाय कृता सर्वात्मना त्वया ॥८८॥
ये ये त्वया हता नाथ चक्रिणा त्रिदशारयः
ते ते तमोमयीं हित्वा तनुं वैकुंठमभ्यगुः ॥८९॥
आज्ञापय जगन्नाथ गंतु मां त्रिदशालयम्
अनुगृह्णीष्व शक्रं च नमंतं वीक्षणामृतैः ॥९०॥
प्रसादात्तव देवेश बदर्याख्यस्य च प्रभो
तीर्थस्य स्वतनुं हित्वा तामसीं सात्विकीं गतः ॥९१॥
इंद्रेण सह नागेंद्रमारुह्य त्रिदशालयम्
गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधेः ॥९२॥
सिद्ध उवाच-
इत्यभिष्टूय देवेशं कपिलं स कलिंगपः
नमस्कृत्य च तत्पादौ जगाम त्रिदशालयम् ॥९३॥
एतन्मयाद्भुतं विप्र दृष्टं बदरिकाश्रमे
गुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणम् ॥९४॥
नातः परं त्रिलोक्यां तु तीर्थं सर्वार्थदायकम्
याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि ॥९५॥
अहं यामि समानेतुं बदर्याख्यं गृहान्द्विज
वृद्धं स्वकीय पितरं निस्पृहं मोक्षकामुकम् ॥९६॥
नारद उवाच-
इति तीर्थवरस्यास्य बदर्याख्यस्य भूपते
महिमानं समुत्कीर्त्य स सिद्धः स्वगृहं ययौ ॥९७॥
अथ कालेन कियता स द्विजः सह भार्यया
तीर्थानपर्यटन्धीरः इंद्रप्रस्थेभ्यगादहम् ॥९८॥
तेनैव वपुषा राजन्नीतवांस्तौ निजालयम्
ससिद्धोऽपि स्वपितरं गृहादानीय सत्वरः ॥९९॥
तत्रैव स्नापयामास तत्तीर्थे मोक्षकामुकम्
सोऽपि श्रीवासुदेवेन वृद्धः सिद्धपिता तदा ॥१००॥
ततो नीतो निजगृहं वृंदारकविवंदितः
इंद्रप्रस्थांतरगतमिदं सद्बदर्याख्यमीशः स्नानाद्दद्यादखिलजनिता मानसेष्टं पदार्थम्
माहात्म्यं ते नृपनतिमते वर्णितं तस्य पूतं यच्छ्रुत्वा वै पतति न जनो मातृगर्भे कदाचित् ॥१०१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये बदरिकाश्रमवर्णनंनाम षोडशाधिकद्विशततमोऽध्यायः ॥२१६॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP