संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २३३

उत्तरखण्डः - अध्यायः २३३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शंकर उवाच-
ततः प्रोवाच भगवान्सुरांश्चैव महामुनीन्
देव्या सह प्रहृष्टात्मा सर्वलोकहिताय वै ॥१॥
श्रीभगवानुवाच-
शृणुध्वं मुनयः सर्वे देवताश्च महाबलाः
एकादशी महापुण्या सर्वोपद्रवनाशिनी ॥२॥
लक्ष्मीसंदर्शनार्थाय भवद्भिः समुपोषिता
तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा ॥३॥
अद्यप्रभृति ये लोका उषिताः पूर्ववासरे
द्वादश्यामुदिते भानौ श्रद्धया परया युताः ॥४॥
ये पूजयंति मां भक्त्या तुलस्या च श्रिया सह
सर्वे ते बन्ध निर्मुक्ताः प्राप्नुवंति पदं मम ॥५॥
नार्च्चयंति च ये वै मां द्वादश्यां पुरुषोत्तमम्
ते नराः पापकर्माणो मम मायाविमोहिताः ॥६॥
ये नार्चयंति पापिष्ठा नरा नरकगामिनः
तान्पापान्विषयैर्वद्धान्ममपूजापराङ्मुखान् ॥७॥
क्षिपत्यजस्रं संसारे माया मम दुरत्यया
रुद्र उवाच-
एवमुक्त्वा तु भगवान्परमात्मा सनातनः ॥८॥
संस्तूयमानो मुनिभिः प्रययौ कमलालयम्
क्षीराब्धौ शेषपर्य्यङ्के विमाने सूर्य्यसन्निभे ॥९॥
देव्या सह विशालाक्ष्या रमया परमेश्वरः
दर्शनार्थं सुराणां च तत्र सन्निहितोऽभवत् ॥१०॥
ततः सुरगणाः सर्व्वे कूर्म्मरूपं सनातनम्
भक्त्या संपूजयित्वाथ तुष्टुवुर्हृष्टमानसाः ॥११॥
ततः प्रसन्नो भवगान्कूर्म्मरूपी जनार्द्दनः
भगवानुवाच-
वरं वृणीध्वं देवेशा यद्वो मनसि वर्त्तते
रुद्र उवाच-
ततो देवगणाः सर्वे कूर्म्मरूपं जनार्दनम् ॥१२॥
उचुः प्रांजलयः सर्व्वे हर्ष निर्भरमानसाः
देवा ऊचुः-
शेषस्य दिग्गजानां च सहायार्थं महाबल ॥१३॥
धर्तुमर्हसि देवेश सप्तद्वीपवतीं महीम्
रुद्र उवाच-
एवमस्त्विति हृष्टात्मा भगवांल्लोकभावनः ॥१४॥
धारयामास धरणीं सप्तद्वीपसमावृताम्
ततो देवाः सगंधर्वा दैत्यदानवमानुषाः ॥१५॥
महर्षिभिरनुज्ञाताः स्वर्लोकान्प्रतिपेदिरे
तदाप्रभृति ते सर्व्वे देवा ब्रह्मपुरोगमाः ॥१६॥
सिद्धा ये मानुषाश्चैव योगिनो मुनिसत्तमाः
विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः ॥१७॥
एकादश्यामुपोष्याथ भक्त्या चैव जनार्दनम्
द्वादश्यामर्च्चनं चक्रुर्विधिना वरवर्णिनि ॥१८॥
एतत्तु सर्वमाख्यातं देव्या जन्म वरानने
कौर्म्यं च वैभवं विष्णोः किमन्यच्छ्रोतुमिच्छसि ॥१९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे एकादश्युपवासकथनंनाम त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३३॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP