संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १६८ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १६८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १६८ Translation - भाषांतर महादेव उवाचततोगच्छेन्महादेवि वार्त्रघ्न्या गिरिकन्ययाशक्रश्चैव तया साध्व्या संगमं यत्र लब्धवान् ॥१॥तत्र स्नानं प्रकुर्वंति नरा नियतमानसाःदशानामश्वमेधानां यत्फलं स्नानकृल्लभेत् ॥२॥तत्र यः कुरुते श्राद्धं पिंडान्वै तिलचूर्णजान्पुनाति पुरुषो वंशान्सप्तसप्तपरावरान् ॥३॥संपूज्य विधिवत्स्नात्वा संगमे गणनायकम्न विघ्नैरभिभूयेत लक्ष्म्या नैव विहीयते ॥४॥पार्वत्युवाचकस्मिन्कार्यसमारंभे समायातः पुरंदरःस्वर्गलोकादिमं लोकमेतदाख्यातुमर्हसि ॥५॥वार्त्रघ्नी च नदी केन निरुक्तेन निगद्यतेपुरंदरपुरं देव ब्रह्मघोषनिनादितम्संभावयति योऽजस्रं मम तत्संगमं वद ॥६॥महादेव उवाचअस्मिंश्चैव तु भूर्लोके प्रश्नोऽयं समभूत्पुरायुधिष्ठिरेति विख्यातो राजा वै धार्मिको महान् ॥७॥पृष्टवान्स तु भीष्माय धर्मिणे ज्ञानरूपिणेतेनोक्तं यत्तु तद्देवि प्रवक्ष्यामि तवाग्रतः ॥८॥दशवर्षसहस्राणि दशवर्षशतानि चवृत्रवासवयोर्युद्धमभवल्लोमहर्षणम् ॥९॥ततः पराजितः शक्रः कृत्वा वृत्रेण संविधम्अद्रोहे स रणं त्यक्त्वा जगाम शरणं मम ॥१०॥वार्त्रघ्न्या संगमे पुण्ये तोषयामास शंकरम्अथांतरिक्षेऽहं देवि दर्शनं दत्तवांस्तदा ॥११॥ममगात्रात्तु यद्भस्म पतितं काश्यपी तटेभस्मगात्रेति तत्पुण्यं लिंगं देवि विनिर्मितम् ॥१२॥भूतेश्वरं भस्मगात्रं ब्रह्मणा संप्रतिष्ठितम्तस्य वै दर्शनादेव ब्रह्महत्या लयं व्रजेत् ॥१३॥मुच्यते सर्वपापेभ्यः श्राद्धं कृत्वा युगादिषुतदहं सुप्रसन्नोऽभूदिन्द्राय सुमहात्मने ॥१४॥यद्यत्त्वं वांछसे देव तत्सर्वं हि ददामि तेअनेन वज्रयोगेन शीघ्रं वृत्रं हनिष्यसि ॥१५॥शक्र उवाचभगवंस्त्वत्प्रसादेन दितिजं च दुरासदम्वज्रेण निहनिष्यामि पश्यतस्ते सुरोत्तम ॥१६॥एवमुक्त्वा तदा इंद्रो गतवांश्चासुरं प्रतितदा दुंदुभयो नेदुर्देवसैन्ये विशेषतः ॥१७॥मृदंग डिंडिमाश्चैव भेरी तूर्याण्यनेकशःअसुराणां च सर्वेषां वृत्तिलोभो महानभूत ॥१८॥बलवान्मघवा चैव क्षणेन समजायत्तमाविष्टं ततो ज्ञात्वा ऋषयः पन्नगास्तथा ॥१९॥स्तुवंति शक्रमीशानं स्तुत्या जयजयेति चगच्छतस्तस्य शक्रस्य युद्धकामस्य सन्निधौऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्भरम् ॥२०॥महादेव उवाचवृत्रस्यसहसा देवि तदा संग्राममूर्द्धनिअभवन्यानि लिंगानि शरीरे तानि मे शृणु ॥२१॥ज्वलतास्योभवद्धोरो वैवर्ण्यमभवत्परम्गात्रकंपश्च सुमहान्श्वासः सोष्मा व्यजायत् ॥२२॥रोमहर्षश्च तीव्रोऽभूच्छ्वासश्चैव महानभूत्निष्पपात महाघोरा उल्काः पार्श्वं प्रपेदिरे ॥२३॥गृध्रा वटाः श्येन कंका वचो मुंचन्सुदारुणाःवृत्रस्योपरि ते सर्वे चक्रवत्परिबभ्रमुः ॥२४॥ततः स गजमास्थाय इंद्रस्तत्र समागतःवज्रोद्यतकरस्तत्र शक्रस्तं दैत्यमासदत् ॥२५॥अमानुषमथो नादं स मुमोच सुरेश्वरःवृत्रासुरस्य यततः शक्रो वज्रमपातयत् ॥२६॥स वज्रः सुमहातेजाः कालाग्निसदृशो महान्समुद्रस्य तटे वृत्रं शक्रो दैत्यमपातयत् ॥२७॥ततो नादः समभवत्पुनरेव समंततःवृत्रं विनिहतं दृष्ट्वा सर्वदेवभयंकरम् ॥२८॥पुष्पवृष्टिस्तु महती इंद्र मूर्ध्नि पपात हवृत्रं हत्वा स भगवान्दानवेशं भयंकरम् ॥२९॥स्तूयमानोऽमरैः सार्द्धं देवदानीं तमाविशत्अथ वृत्रशरीरात्तु निर्गतं तेज उत्तमम् ॥३०॥ब्रह्महत्यामहाघोरा रौद्र लोकभयंकरीकरालवदना सा च विकृता कृष्णपिंगला ॥३१॥कपालमालिनी चैव सुकृशा नगनंदिनिरुधिराक्ता च पापिष्ठा मीनगंधातिभीषणा ॥३२॥सानिष्क्रम्य महादेवि तादृग्रूपा भयावहाइंद्रमन्वेषयामास तदा वै सुरसत्तमे ॥३३॥निर्धावती ततः सा तु दृष्ट्वा शक्रं महौजसम्कंठे जग्राह देवेंद्रं सुलग्ना साभवत्तदा ॥३४॥स च तस्मिन्समुद्भ्रांतो ब्रह्महत्याकृते भयेनिलिल्य बिसमध्येऽसौ स्थितो वर्षगणान्बहून् ॥३५॥तया गृहीतो भो देवि निश्चेष्टः समपद्यततस्या व्यपोहने शक्रः प्रयत्नं च चकार ह ॥३६॥न शक्तोऽभून्महादेवि ब्रह्महत्यां व्यपोहितुम्तया गृहीतमात्रस्तु देवेंद्रो निष्ठरूपधृक् ॥३७॥पितामहमुपागम्य शिरसा प्रत्यपूजयत्ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया ॥३८॥ब्रह्मा संचिंतयामास तदा वै सुरसत्तमेसा चिंत्यमाना ब्रह्माणमुपगम्याब्रवीद्वचः ॥३९॥प्राप्तास्मि भगवन्देव त्वत्सकाशं हि मानदयत्कर्त्तव्यं मया देव तद्भवान्वक्तुमर्हति ॥४०॥तामुवाच महाभागे ब्रह्महत्यां पितामहःस्वरेण मधुरेणाथ संक्षेपेण यथातथम् ॥४१॥मुच्यतां देवराजोऽयं मत्प्रियं कुरु भामिनिब्रूहि किं ते करोम्यद्य कामं त्वं किमिहेच्छसि ॥४२॥हत्योवाचशक्रादपगमिष्यामि वचनात्ते नरोत्तमदेवदेव नमस्तेस्तु निवासं च ददस्व मे ॥४३॥महादेव उवाचतथेति तां प्रतिज्ञाय हत्यां चापि पितामहःउपायमथ शक्रस्य ब्रह्महत्यापनोदने ॥४४॥ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीत्शक्रहत्या चतुर्थांशं जातवेदो गृहाण भो ॥४५॥अग्निरुवाचमम मोक्षस्य को हेतुर्ब्रह्महत्याकृते प्रभोएतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित ॥४६॥ब्रह्मोवाचयस्त्वां ज्वलंतमासाद्य न होष्यति नरः क्वचित्बीजौषधितिलानग्रे फलमूलसमित्कुशान् ॥४७॥तदैव त्यक्षति त्वां च तत्रैव च निवत्स्यतिब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः ॥४८॥ततः स परिजग्राह तद्वचो हव्यकव्यभुक्पितामहश्च भगवान्तथा तदलभत्प्रियम् ॥४९॥ततो वृक्षौषधितृणान्याहूय स पितामहःइममर्थं महाभागे वक्तुं समुपचक्रमे ॥५०॥ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम्व्यथितान्यग्निवद्देवि ब्रह्माणं वाक्यमब्रुवन् ॥५१॥अस्माकं ब्रह्महत्यायाः कथयंतः पितामहस्वभाव निहिता तस्मान्न पुनर्हंतुमर्हसि ॥५२॥वयमग्निं तथा शीतं वर्षं च पवनेरितम्सहामः सततं देव तथा छेदनभेदनम् ॥५३॥ब्रह्मोवाचअकारणं नरो यस्तु युष्मच्छेदनभेदनम्करिष्यति महामोहात्तमेषानु प्रयास्यति ॥५४॥महादेव उवाचततो महौषधितृणैरोमित्युक्तं महात्मभिःब्रह्माणमपि संपूज्य जग्मुश्चाथ यथागतम् ॥५५॥आहूयाप्सरसो देवस्ततो लोकपितामहःवाचा मधुरया प्राह सांत्वयन्निव सत्तमे ॥५६॥इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाःचतुर्थमस्या भागं च मयोक्तं संप्रतीच्छथ ॥५७॥अप्सरा ऊचुःग्रहणे कृतबुद्धीनां देवेश तव शासनात्संमोक्षसमयोऽस्माकं चिंतनीयः पितामह ॥५८॥पितामह उवाचरजस्वलासु नारीषु यो वै मैथुनमाचरेत्तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः ॥५९॥महादेव उवाचतथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाःस्वानि स्थानानि संप्राप्य रेमिरे शैलजे तदा ॥६०॥ततश्च लोककृद्देवः पुनरेव पितामहःआपः संचिंतयामास ततस्ताश्च समागमन् ॥६१॥ताश्च सर्वाः समागम्य ब्रह्माणममितौजसम्इदमूचुर्वचो देवि प्रणिपत्य पितामहम् ॥६२॥इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदमशासनात्तव देवेश समाज्ञापय तत्प्रभो ॥६३॥ब्रह्मोवाचइयं वृत्रादनुप्राप्ता पुरुहूतं भयानकाब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ ॥६४॥आप ऊचुःएवं भवतु लोकेश यत्त्वं वदसि नः प्रभोःमोक्षस्य समयं नस्त्वं संचिंतयितुमर्हसि ॥६५॥त्वं हि देवेंद्र सर्वस्य जगतः परमा गतिःकोऽन्येभ्यो हि प्रसादोऽपि यः कृच्छ्रान्नः समुद्धरेत् ॥६६॥ब्रह्मोवाचअल्पमेव मतिं कृत्वा यो नरो बुद्धिमोहितः ॥६७॥श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्षतितमेव यास्यति क्षिप्रं तत्रैव च निवत्स्यतिततो वै भविता मोक्ष इति सत्यं ब्रवीमि वः ॥६८॥महादेव उवाचततो विमुच्य देवेंद्रं ब्रह्महत्या सुरेश्वरिगतातिहृष्टो देवेशो ह्यभवद्देवशासनात् ॥६९॥एवं शक्रेण संप्राप्ता ब्रह्महत्या पुरा युगेअस्मिंस्तीर्थे तपस्तप्त्वा शुद्धात्मा त्रिदिवं ययौ ॥७०॥अश्वमेधं ततः कृत्वा विपाप्मा समपद्यतइति साभ्रमती तीर्थे वार्त्रघ्नीयं नगात्मजे ॥७१॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडेवार्त्रघ्नीमाहात्म्यंनामाष्टषष्ट्यधिकशततमोऽध्यायः ॥१६८॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP