संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १२१

उत्तरखण्डः - अध्यायः १२१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ईश्वर उवाच
धात्रीच्छायां समाश्रित्य कुर्यात्पिंडं तु यो गुह
मुक्तिं प्रयांति पितरः प्रसादान्माधवस्य तु ॥१॥
मूर्ध्नि पाणौ मुखे चैव देहे चैव तु यो नरः
धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः ॥२॥
धात्रीफलकृताहारो नरो नारायणो भवेत्
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं गुह ॥३॥
प्रियो भवति देवानां मनुष्याणं च का कथा
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ॥४॥
यावत्तिष्ठति कंठस्था धात्रीमाला नरस्य हि
तावत्तस्य शरीरे तु प्रतिष्ठति च केशवः ॥५॥
धात्रीं फलं तु तुलसीमृत्तिका द्वारकोद्भवा
सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ॥६॥
यावद्दिनानि वहते धात्रीमालां कलौ नरः
तावद्युगसहस्राणि वैकुंठे वसतिर्भवेत् ॥७॥
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम्
वहते कंठदेशे तु कल्पकोटिं दिवं वसेत् ॥८॥
संनियम्येंद्रियग्रामं शालग्रामशिलार्चनम्
यः कुर्यान्मानवो भक्त्या पुष्पेपुष्पेऽश्वमेधजम् ॥९॥
सुराणां च यथा विष्णुः पुष्पाणां तुलसी तथा
तुलस्यानुदिनं देवं योऽर्चयेद्गरुडध्वजम् ॥१०॥
जन्मदुःखजरारोगैर्मुक्तोऽसौ मुक्तिमाप्नुयात्
तुलसीमालया विष्णुः पूजितो येन कार्तिके ॥११॥
यमाक्षरकृतां मालां स्फुटं शौरिः प्रमार्जति
श्रीचंदनं सकर्पूरमगुरुं च सकुंकुमम् ॥१२॥
केतकी दीपदानं च सर्वदा केशवप्रियम्
कार्तिके केतकीपुष्पं दत्तं येन कलौ युगे ॥१३॥
दीपदानं महासेन कुलानां तारयेच्छतम्
सरोरुहाणि तुलसी केतकी मुनिपुष्पकम् ॥१४॥
कार्तिके च दिनान्येव दीपदानं तु पंचमम्
केतकीमालया येन कार्तिके पुष्पमंडपम् ॥१५॥
केशवस्य कृतं वत्स वसतिर्दिवि तस्य च
केतकीपुष्पकेनैव पूजितो गरुडध्वजः ॥१६॥
समाः सहस्रं सुप्रीतो जायते मधुसूदनः
अर्चयित्वा हृषीकेशं कुसुमैः केतकीभवैः ॥१७॥
पुण्यं तद्भवनं याति केशवस्य शिवं गुह
दमनकेनापि देवेशं संप्राप्ते मधुमाधवे ॥१८॥
समभ्यर्च्य मुनिश्रेष्ठ अर्चनाल्लभते फलम्
अगस्तिकुसुमैर्देवं योऽर्चयेत जनार्दनम् ॥१९॥
दर्शनात्तस्य भो विप्र नरकाग्निः प्रणश्यति
न तत्करोति विप्रर्षे तपसा तोषितो हरिः ॥२०॥
यत्करोति महासेन मुनिपुष्पैरलंकृतः
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् ॥२१॥
कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत्
मुनिपुष्पकृतां मालां यो ददाति जनार्दने ॥२२॥
देवेंद्रोऽपि मुनिश्रेष्ठ कुरुते तस्य सत्कथाम्
गवामयुतदानेन यत्फलं प्राप्यते गुह ॥२३॥
मुनिपुष्पेण चैकेन कार्तिके लभते फलम्
कौस्तुभेन यथा प्रीतो यथा च वनमालया ॥२४॥
तुलसीदलेन संप्रीतः कार्तिके च तथा हरिः
सिऊ!त उवाच
प्रश्रयावनतं दृष्ट्वा कुमारं भक्तितत्परम् ॥२५॥
पुनः प्रोवाच भगवान्महादेवो वृषध्वजः
ईश्वर उवाच
शृणु दीपस्य माहात्म्यं कार्तिके शिखिवाहन ॥२६॥
पितरश्चैव वांच्छंति सदा पितृगणैर्वृताः
भविष्यति कुलेऽस्माकं पितृभक्तः सुपुत्रकः ॥२७॥
कार्तिके दीपदानेन यस्तोषयति केशवम्
घृतेन दीपको यस्य तिलतैलेन वा पुनः ॥२८॥
ज्वलते यस्य सेनानीरश्वमेधेन तस्य किम्
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् ॥२९॥
दीपदानं कृतं येन कार्तिके केशवाग्रतः
कृष्णपक्षे विशेषेण पुत्र पंचदिनानि च ॥३०॥
पुण्यानि तेषु यो दत्ते दीपं सोऽक्षयमाप्नुयात्
एकादश्यां परैर्दत्तं दीपं प्रज्वाल्य मूषिका ॥३१॥
मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा
लुब्धकोऽपि चतुर्दश्यां पूजयित्वा महेश्वरम् ॥३२॥
निर्भक्षः परमं प्राप्य विष्णुलोकं जगाम सः
श्वपाकस्याश्रयाद्वैश्या दीपं कृत्वा परैः कृतम् ॥३३॥
शुद्धा लीलावती भूत्वा जगाम स्वर्गमक्षयम्
गोपः कश्चिदमावस्यां पूजां दृष्ट्वा तु शार्ङ्गिणः ॥३४॥
मुहुर्मुहुर्जयेत्युक्त्वा राजराजेश्वरोऽभवत्
तस्माद्दीपाः प्रदातव्या रात्रावस्तमते रवौ ॥३५॥
गृहेषु सर्वगोष्ठेषु सर्वेष्वायतनेषु च
देवालयेषु देवानां श्मशानेषु सरस्सु च ॥३६॥
घृतादिना शुभार्थाय यावत्पंचदिनानि च
पापिनः पितरो ये च लुप्तपिंडोदकक्रियाः
तेपि यांति परां मुक्तिं दीपदानस्य पुण्यतः ॥३७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये दीप गंध धात्री माहात्म्यवर्णनो नाम एकविंशत्यधिकशततमोऽध्यायः ॥१२१॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP