संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १५१ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १५१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १५१ Translation - भाषांतर महादेव उवाचअस्मात्तीर्थात्परं तीर्थं इंद्रग्राममिति स्मृतम्यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात् ॥१॥पार्वत्युवाचकेनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम्विपाप्मा च कथं सोऽभूदिति विस्तरतो वद ॥२॥महादेव उवाचइंद्रः सुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरःअशस्त्रवधमन्योऽन्य समयं तौ प्रचक्रतुः ॥३॥अथेंद्रस्तु नभोवाणीनिर्देशान्नमुचिं तदाजघान फेनमादाय ब्रह्महत्या तदाऽभवत् ॥४॥पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणम्बृहस्पतेरथादेशात्साभ्रामत्युत्तरे तटे ॥५॥अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरःतस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ॥६॥पूर्णेंदुधवलाकांतिः शरीरे समजायतधवलेश्वरमीशानं स्थापयामास वृत्रहा ॥७॥इंद्र नाम्ना च तल्लिंगं विश्रुतं पृथिवीतलेपूर्णिमास्यां तथा दर्शे संक्रांतौ ग्रहणे तथा ॥८॥श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकीधवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनम् ॥९॥एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत्हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः ॥१०॥शुक्ला गौ ब्राह्मणे देया सवत्सा च पयस्विनीअत्रागत्य तु यो विप्रो रुद्रजाप्यादिकं चरेत् ॥११॥तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतःअत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् ॥१२॥स एव सर्वकामाढ्यो भवत्येव न संशयःबिल्वपत्रं समानीय यः पूजयति तं प्रभुम् ॥१३॥धर्ममर्थं च कामं च लभते मानवो भुविसोमवारे विशेषेण ये गच्छंति नरोत्तमाः ॥१४॥तेषां रोगं तथा दोषं शमयेद्धवलेश्वरःरवौ वाऽथ विशेषेण अर्चनं कुरुते यदा ॥१५॥तेषां महिमा तु भो देवि न ज्ञातः कर्हिचिन्मयादूर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः ॥१६॥पूजनं कुर्वते येऽत्र ते नराः पुण्यभागिनःश्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु ॥१७॥वांच्छितं लभते नित्यं धवलेशप्रसादतःकृते वै नीलकंठस्तु सर्वेषां शंकरः सदा ॥१८॥त्रेतायुगे स विख्यातो हरो वै भगवान्प्रभुःद्वापरे शर्वसंज्ञस्तु कलौ वै धवलेश्वरः ॥१९॥अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरिनंदिर्नाम पुरा वैश्य इंद्रग्रामे समावसत् ॥२०॥शिवध्यानपरो भूत्वा शिवपूजां चकार सःनित्यं तपोवनस्थं हि लिंगं धवलसंज्ञकम् ॥२१॥उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभःनंदी लिंगार्चनरतो बभूवातिशयेन हि ॥२२॥यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत्एकदा मृगयालुब्धः किरातो भूतहिंसकः ॥२३॥पापी पापसमाचारश्चरन्साभ्रमती तटेअनेक श्वापदाकीर्णे हन्यमानो मृगान्शरैः ॥२४॥एवं विचरमाणोऽसौ किरातो भूतहिंसकःयदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम् ॥२५॥धवलेश्वरविख्यातं अनेकाश्चर्यमंडितम्दृष्टं सुपूजितं लिंगं नानापुष्पैः फलैस्तथा ॥२६॥एवं लिंगं समालिंग्य गतः साभ्रमतीतटेतत्र पीत्वा पयः सोऽथ मुखं गंडूषपूरितम् ॥२७॥कृत्वा चैकेनहस्तेन मृगमांसं समुद्वहन्करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत् ॥२८॥शीघ्रमागत्य लिंगांते पदा पूजां समाहनत्पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः ॥२९॥स्नापनं तस्य लिंगस्य कृतं गंडूषवारिणाकरेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ॥३०॥द्वितीयेन करेणैव मृगमांसं समर्पयत्दंडप्रणामसंयुक्तः संकल्पं मनसाऽकरोत् ॥३१॥अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतःत्वं मे स्वामी च भक्तोऽहं अद्यप्रभृति शंकर ॥३२॥एवं नियमवान्भूत्वा किरातो गृहमागमत्तथा प्रभातसमये देवायतनमागतः ॥३३॥नंदी ददर्श तं सर्वं किरातेन च यत्कृतम्अव्यवस्थं च तं दृंष्ट्वा अमेध्यं शिवसन्निधौ ॥३४॥विधूतानि च सर्वाणि हिंसकेन दुरात्मनाचिंतायुक्तोभवन्नंदी जातं किं चित्रमद्य मे ॥३५॥कथितानि च विघ्नानि शिवपूजारतस्य हिउपस्थितानि तान्येव मम भाग्यविपर्ययात् ॥३६॥एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम्यथागतेन मार्गेण नंदी स्वगृहमागमत् ॥३७॥ततो नंदिनमालक्ष्य पुरोधा गतमानसम्अब्रवीद्वचनं तं तु कस्मात्त्वं गतमानसः ॥३८॥पुरोहितं प्रति तदा नंदी वचनमब्रवीत्अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ ॥३९॥केनेदं कारितं तत्र न जानामीह किंचनततः पुरोधा वचनं नंदिनं चाब्रवीत्तथा ॥४०॥येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम्सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः ॥४१॥तस्माच्चिंता न कर्तव्या त्वया पुनरपि प्रभोप्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ॥४२॥निरीक्षणार्थं दुष्टस्य तस्य दंडंकरोम्यहम्एतच्छ्रुत्वा तु वचनं नंदी तस्य पुरोधसः ॥४३॥आस्थितः स्वगृहे नक्तं दूयमानेन चेतसातस्यां रात्र्यां व्यतीतायां आहूय च पुरोधसम् ॥४४॥गतः शिवालयं नंदी समंतेन महात्मनाप्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् ॥४५॥पंचोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सहएवं यामद्वयं जातं स्तूयमानस्य नंदिनः ॥४६॥आयातोऽसौ महाकालस्तथारूपो महाबलःकालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ॥४७॥तं दृष्ट्वा भयसंत्रस्तो नंदी तत्र न्यलीयतपुरोधाश्चैव सहसा भयभीतस्तदाभवत् ॥४८॥किरातेन कृतं तत्र यथापूर्वमविस्खलन्तां पूजां स पदाहृत्य बिल्वपत्रं समर्पयत् ॥४९॥नैवेद्येन पलेनैव किरातः शिवमार्चयत्दंडवत्पतितो भूमौ उत्थाय स्वगृहं गतः ॥५०॥तं दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम्पुरोधसा तदा नंदी सह व्याकुलचेतसा ॥५१॥तेन पृष्टास्तदा विप्राः कथ्यतां च यथातथम्संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ॥५२॥ऊचुः सर्वे तदा विप्रा नंदिनं जातशंकितम्ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ॥५३॥तस्मादानय लिंगं त्वं स्वगृहे वैश्यसत्तमतथेति मत्वाऽसौ नंदी शिवस्योत्पाटनं महत् ॥५४॥कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधिसुवर्णपीठिकां कृत्वा नवरंभासुशोभिताम् ॥५५॥उपाहारैरनेकैश्च पूजयामास वै तदाअथापरेद्युरायातः किरातः शिवमंदिरम् ॥५६॥यावद्विलोकयामास लिंगमैशं न दृष्टवान्मौनं विहाय सहसा साक्रोशमिदमब्रवीत् ॥५७॥हे शंभो क्व गतोऽसि त्वं दर्शयात्मानमद्य वैयदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरम् ॥५८॥हे शंभो हे जगन्नाथ त्रिपुरांतक शंकरहेरुद्र हे महादेव दर्शयात्मानमात्मना ॥५९॥एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवम्किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् ॥६०॥बिभेद्याशु ततो बाहुमासाद्योच्चै रुषाब्रवीत्हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ॥६१॥इति क्षिप्त्वा ततोंत्राणि मांसमुद्धृत्य सर्वतःतस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ॥६२॥स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतुतथैव जलमानीय बिल्वपत्रं त्वरान्वितः ॥६३॥पूजयित्वा यथान्यायं दंडवत्पतितो भुवियदा ध्यानस्थितस्तत्र किरातः शिवसन्निधौ ॥६४॥प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितःकर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः ॥६५॥तं गृहीत्वा करे रुद्रः उवाच परिसांत्वयन्भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामते ॥६६॥वरं वृणीष्व भो भक्त यत्ते मनसि वर्त्ततेएवमुक्तः स रुद्रेण महाकालो मुदान्वितः ॥६७॥पपात दंडवद्भूमौ भक्त्या परमया युतःततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् ॥६८॥अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयःएतत्श्लाघ्यतमं लोके देहि जन्मनि जन्मनि ॥६९॥त्वं माता च पिता त्वं च त्वं बंधुश्च सखा च मेत्वं गुरुस्त्वं महामंत्रो मंत्रैर्वेद्योऽसि सर्वदा ॥७०॥निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवःददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ॥७१॥तदा डमरुनादेन नादितं भुवनत्रयम्भेरीभांकारशब्देन शंखानां निनदेन च ॥७२॥तदा दुंदुभयो नेदुः पटहाश्च सहस्रशःनंदी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ॥७३॥तपोवनं यत्र शिवः स्थितः प्रमथसंवृतःकिरातो हि तथा दृष्टो नंदिना च तदा भृशम् ॥७४॥उवाच प्रसृतो वाक्यं स नंदी विस्मयान्वितःकिरातं स्तोतुकामोऽसौ परमेन समाधिना ॥७५॥इहानीतस्त्वया शंभुस्त्वं भक्तोऽसि परंतपःत्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे ॥७६॥तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितःनंदिनं च करे गृह्य शंकरं समुपागतः ॥७७॥प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत्ब्रूहि कोऽसौ त्वयानीतो गणानामिह सन्निधौ ॥७८॥किरात उवाचत्वद्भक्तोऽसौ तदा देव तव पूजारतो ह्यसौप्रत्यहं रत्नमाणिक्यपुष्पैश्चौच्चावचैरिह ॥७९॥जीवितेन धनेनापि पूजितोऽसि न संशयःतस्माच्चानीहि भो स्वामिन्नंदिनं भक्तवत्सल ॥८०॥महादेव उवाचजानाम्यहं महाभाग नंदिनं वैश्यवर्त्तनम्त्वं मे भक्तः सखा चेति महाकाल महामते ॥८१॥उपाधिरहिता ये च ये निष्कपटमानसाःते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाःतावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना ॥८२॥ततो विमानानि बहुनि तत्र समागतान्येव महाप्रभाणिकिरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ॥८३॥कैलासलोकमापन्नौ विमानैर्वेगवत्तरैःसारूप्यमेव संप्राप्तो ईश्वरस्य महात्मनः ॥८४॥नीराजितौ गिरिजया पुत्रवत्तौ गणावुभौ ॥८५॥उवाचेदं ततो देवी प्रहस्य गजगामिनीयथा त्वं हि महादेव तथा चेतौ न संशयः ॥८६॥सारूप्येण च गत्या च हास्यभावैः सुपूजितैःदेव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ॥८७॥सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतःऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ॥८८॥उभावप्यनुकंप्यौ च भवता हि त्रिलोचनतव द्वारिस्थितौ नित्यं भवावस्ते नमो नमः ॥८९॥तयोर्भावं स भगवान्विदित्वा प्रहसन्भवःउवाच परया भक्त्या भवतोरस्तु वांछितम् ॥९०॥ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुःशिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ॥९१॥एको नंदी महाकालो द्वावेतौ शिववल्लभौये पापिनोप्यधर्मिष्ठा अंधा मूकाश्च पंगवाः ॥९२॥कुलहीना दुरात्मानः श्वपचाद्या हि मानवाःयादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् ॥९३॥गतास्तेऽपि गमिष्यंति नात्र कार्या विचराणाअत्र स्नानं च दानं च सांनिध्यं शंकरस्य च ॥९४॥साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाःते रुद्रलोकं गच्छंति नात्र कार्या विचारणा ॥९५॥अत्र स्नानं च दानं च ये कुर्वंति नरोत्तमाःधर्मार्थकामभोगाश्च भुक्त्वा यांति हरालयम् ॥९६॥चंद्र सर्योपरागे च पितुः सांवत्सरे दिनेयत्फलं लभते मर्त्यस्तत्फलं प्राप्नुयाद्ध्रुवम् ॥९७॥स्वर्गात्कामदुघा देवि नित्यमायाति सर्वथाआगत्य तं शिवं देवं समभ्यर्च्य यथा तथा ॥९८॥सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयःतेन दुग्धाभियोगेन लिंगं तद्धवलीकृतम् ॥९९॥धवलेश्वरं नाम ततः संजातं भुवि सर्वदाजंतवोऽत्र सदा देवि म्रियंते कालनोदिताःते ते शिवपदं यांति यावच्चंद्रदिवाकरौ ॥१००॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे धवलेश्वरमाहात्म्यंनामैकपंचाशदधिकशततमोऽध्यायः ॥१५१॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP