संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २१४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २१४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २१४ Translation - भाषांतर नारद उवाच-इत्याकर्ण्य पितुर्वाक्यं स जगाम त्वरान्वितःपुण्यं मधुवनं राजन्गयाशतगुणाधिकम् ॥१॥तत्तीर्थवासिनो विप्रान्सायमामंत्र्य मंत्रवित्काले पुनः समाहूय बभाषे स्वागतं वचः ॥२॥ततः प्रक्षाल्य तत्पादौ गंधाद्यैरभिपूज्य चपादार्घ्यमददात्प्रीत्या समेन स्वयमाचमत् ॥३॥ततस्तान्ब्राह्मणान्नीत्वा श्राद्धदेशे न्यवेशयत्कुशांबु तुलसीपुष्प गंधाक्षत तिलैः सह ॥४॥पूरयित्वा कर्मपात्रं पुंडरीकाक्षमस्मरत्देवताभ्य इति श्लोकं त्रिःकृत्वा सोऽपठद्द्विजः ॥५॥सतिलं शोधितकुशैर्विदधे बंधनं ततःअग्निष्वात्तेति मंत्रेण पूर्वादीनां दिशां क्रमात् ॥६॥रक्षोभूतेति मंत्रेण नीवीबंधं व्यधाच्च सःततः प्रतिज्ञामाधाय ददौ द्विजकुशासनम् ॥७॥पितॄन्समाह्वयामास स तदा ब्राह्मणोत्तमःदत्त्वा ततस्तु हस्तार्घ्यं पात्रं न्युब्जीचकार वै ॥८॥कृत्वा गंधादिदानं च पुनः सव्येन चाचमत्सव्यापसव्येन तदा दत्वा पात्राणि स द्विजः ॥९॥तैर्ब्राह्मणैरनुज्ञातश्चक्रेऽग्नौकरणं ततःआज्यादिहविषा राजंस्तान्यमत्राण्यपूरयत् ॥१०अनुत्तानोत्तानपाणिः कुर्वन्पात्रावलंबनम्पपाठ पाठितो विप्रैः पृथ्वी त्वेति द्विजन्मनाम् ॥११॥असंस्कृतप्रणीतानामिति मंत्रेण स द्विजःदर्भेषु दक्षिणाग्रेषु ददौ च विकिरासनम् ॥१२॥अग्निदग्धेति मंत्रेण घृतमिश्रान्नमक्षिपत्जलेन सह राजेंद्र विष्टरे कुशकल्पिते ॥१३॥सव्येन पुनराचम्य ददौ चुलकजीवनम्तृप्ताः स्थेति च संपृच्छ्यातृप्तास्म प्रतिभाषिताः ॥१४॥शेषान्नभोजने तेषां जग्राहाज्ञां द्विजन्मनाम्पिंडार्थं वेदिकां कृत्वा वितस्तिप्रमितां द्विजः ॥१५॥रेखां चकार दर्भेण दक्षिणाभिमुखीं नृपये रूपाणीति मंत्रेण दधेऽग्निदिशि चोल्मुकम् ॥१६॥पूर्वजन्मनि या माता पिता यश्च महीपतेतयोश्च पितरौ यौ हि यौ च राजन् पितामहौ ॥१७॥यः प्रमातामहश्चापि पितरौ राजसत्तमपित्रादीन्षट्सपत्नीकांस्तानुद्दिश्य यथाविधि ॥१८॥कुशासनानि दत्त्वा वै ददौ पिंडान्षडैव हिगंधादिभिश्च संपूज्य मध्यपिंडविसर्जनम् ॥१९॥कृत्वाघ्राय च वामांसे पिंडपात्रं न्यवेशयेत्जलपात्रं तदादाय वाजेवाजे पठन्निति ॥२०॥पाद्यार्घं च पुनर्दत्त्वा दक्षिणाद्यैरतूतुषत्आद्वारं ताननुव्रज्य तेभ्यो लब्ध्वानुशासनम् ॥२१॥बुभुजे च स्वयं राजन्बांधवैः सह स द्विजःएवं समाप्य राजेंद्र श्राद्धं स द्विजसत्तमः ॥२२॥पूर्वसबंधिनां तत्र तीर्थे मधुवने शुभेयदा चचाल शांतात्मा पितुराश्रमकं प्रति ॥२३॥तदा संमिलिता मार्गे सर्वे ते श्राद्धभोजिनःविमानषट्कमारूढा दिव्याभरणभूषिताःदिव्यांबरधरा राजन्नित्यूचुस्तं द्विजोत्तमम् ॥२४॥पितर ऊचुः -भो वत्स विप्रशार्दूल वृणीष्व वरमुत्तमम्तीर्थेऽत्र कुर्वता श्राद्धं भवता तारिता वयम् ॥२५॥वयं गणत्वमापन्नाः श्रीपतेस्त्वत्प्रसादतःप्रार्थयस्व महाबुद्धे यदिष्टं तव चेतसि ॥२६॥मुनिपुत्र उवाच-के यूयं कुत आयाता गणत्वं हि कुतो गताःउपकारं विना कस्माद्वरं यन्मे प्रयच्छत ॥२७॥नारद उवाच-इत्याकर्ण्यवचस्तस्य पूर्वजन्मसुतस्य वैपिता प्रोवाच यो दुःखाद्भक्षयित्वा विषं मृतः ॥२८॥पितोवाच -अहं तव पिता विप्र पूर्वजन्मनि भूसुरःभार्यया व्यभिचारिण्या मात्रा ते पीडिता भृशम् ॥२९॥अतीवदुःखमापन्नो भक्षयित्वा विषं निशिअपमृत्युं गतस्तस्मादभवं रजनीचरः ॥३०॥एवं मन्वतरं तात शतं पंचदशाधिकम्वर्षाणां च व्यतीतं तद्राक्षसत्वं गते मयि ॥३१॥इदानीं षोडशाब्दे तु त्वया श्राद्धे कृतेऽत्र वैपुण्ये मधुवने तीर्थे देवत्वं प्राप्तवानहम् ॥३२॥एतद्विमानमायांतं स्वर्गादिंद्रप्रणोदितम्सगणं साप्सरोवृंदं ममारोहणहेतवे ॥३३॥अत्र तुभ्यं वरं दातुं सगणः साप्सरोगणःविमानवरमारुह्य गच्छन्स्वर्गेऽहमागमम् ॥३४॥वरं वरय भद्रं ते न विलंबसहा वयम्ऐरावतगजारूढः सुरेशो मामवेक्षते ॥३५॥नारद उवाचइत्युक्त्वा निजवृत्तांतं दत्त्वा च निजसूनवेतत्प्रार्थितां हरेर्भक्तिं जगाम स दिवं नृप ॥३६॥अथ प्रोवाच तन्माता पूर्वजन्मसुतं च तम्मातोवाच-त्वत्प्रसादादहं जाता देवी मुक्ता च पापतः ॥३७॥प्राप्तं शच्याः सखीत्वं मे पापयापि द्विजोत्तमत्वयात्र विहिते श्राद्धे तीर्थे विश्रांतिसंज्ञके ॥३८॥प्रार्थयस्व महाभाग निजचित्तसमीहितम्ददामि ते यतोऽस्माकं देवीनां न वचो मृषा ॥३९॥येन पापेन जाताहं गोधा च पितृकाननेनरके चिरमास्थाय तत्त्वं वेत्सि द्विजोत्तम ॥४०॥अनुजानीहि मां पुत्र पुलोमतनया दिविमामपेक्षितमाकाशे वृता देवांगनागणैः ॥४१॥नारद उवाच-इत्युक्त्वा सापि तन्माता निष्कामाय स्वसूनवेययौ त्रिविष्टपं राजन्शिरसा तेन वंदिता ॥४२॥ततः पितामहस्तस्य स्वपौत्रं तं द्विजोत्तमम्उवाच वचनं भूयः हरेर्बिभ्रत्स्वरूपताम् ॥४३॥पितामह उवाच-वत्सवत्स चिरंजीव लभस्व निजवांच्छितम्त्वत्प्रसादाद्वयं तीर्णा दुस्तराद्भवसागरात् ॥४४॥पितामहोऽहं ते वत्स तवेयं च पितामहीमृतं मानुगता साध्वी सालोक्यमचिरं गता ॥४५॥अद्य त्वयात्र विश्रांतौ विहिते श्राद्धकर्मणिआवयोस्तु हरेर्लोके लब्धा तस्य स्वरूपता ॥४६॥नारद उवाच-एवमुक्त्वा तया सार्द्धं स्वस्त्रिया भूपसत्तमब्रह्मलोकमतिक्रम्य वैकुंठं स ययौ द्विजः ॥४७॥अथ प्रोवाच राजेंद्र वचस्तत्प्रपितामहःयत्ते तत्कथयाम्यद्य शृणुष्वैकमना द्विज ॥४८॥प्रपितामह उवाच-भोभो वत्स महाभाग तवाहं प्रपितामहःभ्रूणहत्याफलेनाहं शौकरीं योनिमाप्तवान् ॥४९॥ततो विनिर्गतस्तात श्वाभवं पापपीडितःततः स्थावरतां प्राप्तो विंध्ये पर्वतसत्तमे ॥५०॥तत्रापि चिरकालेन स्थितं स्थावरतां दधत्हस्तिना केनचित्तात मूलादुत्पाटितो बलात् ॥५१॥तस्मिन्नेव ततः काले त्वया श्राद्धमकारि वैअस्मिंस्तीर्थोत्तमे तात मुक्तोऽहं स्थावरात्ततः ॥५२॥प्राप्तोऽयं यक्षराजस्य नगर्य्यां वास उत्तमःदेह्यनुज्ञां द्विजश्रेष्ठ यामि तां त्वत्प्रसादतः ॥५३॥त्वां दिदृक्षुरिहायातो दृष्टस्त्वं पुण्यदर्शनःतीर्थं च सर्वतीर्थेषु श्रेष्ठं मधुवनं मया ॥५४॥नारद उवाच-इत्युक्तस्तेन राजेंद्र मुनिपुत्रः स धर्मवित्पप्रच्छ शिरसा नम्य तं निजं प्रपितामहम् ॥५५॥ऋषिरुवाच-ब्राह्मणानां कुले तात जातोऽसि त्वं गरीयसिकथं विहितवान्पापं भ्रूणहत्याभिधं गुरो ॥५६॥येन निंद्यां समापन्नो भवान्योनिपरं पराम्समाचक्ष्व महाभाग यदि तत्स्मृतिरस्ति ते ॥५७॥प्रपितामह उवाच-पुराहं द्विजशार्दूल ब्राह्मणस्येव जन्मनिमंत्रयंत्रविधानेन कृतवान्वृत्तिमात्मनः ॥५८॥धनलोभेन नारीणां गर्भार्थमहमौषधम्दत्तवांश्चैव नाशाय दैवोपहतचेतनः ॥५९॥लोभो हि धनहीनानां जनानां ज्ञानमाहरेत्शुचिकाले दिनाधीशः कुल्यानामिव जीवनम् ॥६०॥ज्ञाने नष्टे जनस्तात पापमाचरते ध्रुवम्पापान्नरकमाप्नोति ततो याति कुयोनिताम् ॥६१॥काचिदेका तदा नारी गुर्विणी मामपृच्छतकिं जनिष्याम्यहं विप्र पुत्रं वेत्यथ वा स्त्रियम् ॥६२॥तदाहमुक्तवांस्तां वै तव कन्या भविष्यतिपुत्रोत्पत्तिकृते तुभ्यं प्रदास्यामि महौषधम् ॥६३॥इत्युक्ता च मया नारी दुर्बुद्धिस्त्रीशिरोमणिःजग्राह मम पादौ तु दत्तं हेमपलं च मे ॥६४॥इत्युवाच च सा मह्यं षट्कन्याजनिता मयासप्तमीयं त्वया चोक्ता जीविष्ये स्या न जन्मनि ॥६५॥तथा कुरु महाबुद्धे यथाहं वै न कन्यकाम्जनयिष्यामि विप्रान्यां निजप्राणविनाशिनीम् ॥६६॥इत्याकर्ण्य वचस्तस्यास्तामहं पुनरुक्तवान्प्रसूतिकाले दास्यामि पुत्रोत्पाद्यहमौषधम् ॥६७॥तथेति सा वचो मह्यं प्रतिश्रुत्य गता गृहम्अपेक्षमाणा तं कालं तस्थौ वाक्यप्रतीतिकृत् ॥६८॥तस्यां गतायां भो तात चिंतया भवमातुरःइत्यहं द्विजशार्दूल तच्छृणुष्व वदामि ते ॥६९॥पुत्रोत्पत्तिप्रतीतेयं मह्यं दत्तवती पलम्सुवर्णस्य न जानामि किमस्याः संभविष्यति ॥७०॥किमत्र करणीयं मे कथमेतत्सुवर्णकम्पलप्रमाणं तिष्ठेद्वै दरिद्रस्य गृहे मम ॥७१॥एवं विमृश्य तद्दास्यास्तस्यै हस्तेन दापितम्गर्भपातकरं तात मया दारुणमौषधम् ॥७२॥तेनौषधेन तस्यास्तु गर्भस्रावेऽभवत्तदामासे तृतीये न ज्ञातं चिह्नं पुरुषकन्ययोः ॥७३॥तदा सा मद्गृहं प्राप्ता विषण्णा गर्भस्रावतःअथार्थयत्सुवर्णं तन्निराशा पुत्रजन्मनि ॥७४॥तदाहमिष्टकाचूर्णं भस्मना च समन्वितम्हरिद्राचूर्णसंयुक्तं सांबु तस्यै अदर्शयम् ॥७५॥एतच्चूर्णं कृतं मातस्त्वत्पुत्रोत्पत्तये मयात्वद्दानाद्द्विगुणं द्रव्यं लग्नमेतस्य साधने ॥७६॥इत्युक्त्वा सा मया तात त्यक्त्वा चूर्णं गृहं ययौमामुक्त्वेति गृहीष्यामि काले त्वत्तो द्विजोत्तम ॥७७॥एवं मया कृता तात भ्रूणहत्यातिदारुणाययातिकुत्सिते योनित्रितये भ्रमितं मया ॥७८॥त्वत्प्रसादादहं मुक्तः सांप्रतं स्थावरत्वतःदेह्यनुज्ञां मुनिश्रेष्ठ याम्यहं ह्यलकां शुभाम् ॥७९॥नारद उवाच-एवमुक्त्वा तु राजेंद्र तस्य तु प्रपितामहःतेनाभिवंदितो मूर्ध्ना प्रययौ दिशमुत्तराम् ॥८०॥विमानेन विचित्रेण किंकिणीजालमालिनानृत्यद्गंधर्वजुष्टेन मणिप्राकारशोभिना ॥८१॥अथ तस्य महाराज विप्रस्य प्रपितामहीउवाच स्वप्रपौत्रं तं विमानवरमास्थिता ॥८२॥प्रपितामह्युवाचनान्यत्र कुत्र गंतासि पुण्येनानेन सुव्रतविना पद्मापतेः पादपद्मचिह्नितमंदिरम् ॥८३॥अयं मम पतिः पापो मुने त्वत्प्रपितामहःवारितोऽपि मया पापमाचचार सुदुष्टधीः ॥८४॥सोऽपि त्वयातिपापात्मा तारितो दुःखसागरात्शक्यते केन वै कर्तुं तावकं गुणवर्णनम् ॥८५॥नारद उवाच-इत्युक्त्वा सापि राजेंद्र पतिलोकं जगाम हअलकायां चिरं पत्या तेनैव मुमुदे सह ॥८६॥अथ ते मुनिपुत्रस्य सर्वे मातामहादयःसपत्नीकाः समारुह्य विमानेषु ययुर्दिवम् ॥८७॥सोऽपि द्विजवरस्तस्मात्तीर्थात्स्वपितुराश्रमम्गत्वा तं सर्ववृत्तांतं स्वपित्रे समवर्णयत् ॥८८॥सोऽपि तत्र गतः सार्द्धं कुटुंबेन वने मधोःचकार पर्णशालां वै विश्रांतेस्तु समीपतः ॥८९॥तत्र विश्रांततीर्थं तु त्रिकालं स्नानमाचरन्नाकरोद्विष्णुलोकेऽपि स्पृहां स मुनिसत्तमः ॥९०॥एकदा जलमध्ये स स्नानं कुर्वन्मुनिर्नृपआचकांक्षे च भवता कदा मे हरिदर्शनम् ॥९१॥एवं कामयमानस्य मुनिवर्यस्य भूपतेआजगाम त्वरायुक्तो पक्षिराजासनो हरिः ॥९२॥लक्ष्म्या वक्षःस्थया सार्द्धं चतुर्बाहुधरो हरिःनवीनघनवर्णांगो विद्युद्वर्णांबरावृतः ॥९३॥कौस्तुभोद्भासि सद्वक्षाः शंखचक्रगदाब्जभृत्वनमालालसत्कंठो मकराकृतिकुंडलः ॥९४॥फुल्लांबुजपलाशाक्षः स्वलकालं कृताननःविद्रुमाकारकरजोरुणहस्तांघ्रिसत्तलः ॥९५॥उवाच तं द्विजश्रेष्ठं दंतभासा विभासयन्शरन्निशापतिस्तोम तिरस्कारकृतादिशः ॥९६॥श्रीभगवानुवाच-भोभो द्विजवरैतन्मे तीर्थं मधुवनं शुभम्विश्रांतसंज्ञकं स्नानात्सर्वकामोपपादकम् ॥९७॥अत्र त्वया स्नानकाले वांछितं मम दर्शनम्तुभ्यं हि तन्मया दत्तं ब्रह्मादिसुरदुर्लभम् ॥९८॥त्यज देहमिमं विप्र मानुषं दिव्यमाप्नुहिआयाहि मद्गृहं सार्द्धं मयारुह्य खगेश्वरम् ॥९९॥नारद उवाच-इत्याकर्ण्यवचस्तस्य श्रीपतेः स मुनीश्वरःतुष्टाव प्रणतो भूत्वा जल एव विशांपते ॥१००॥मुनिरुवाच-श्रीपते श्रीमदंभोज संमर्दितपदांबुजम्भवतो भवतापघ्नं वंदे त्रिदशवंदितम् ॥१०१॥त्वदीय मायया नाथ मोहिता येऽत्र जंतवःतेषां कदाचिन्निस्तारो न कृपामंतरेण ते ॥१०२॥सत्तीर्थसेवनादीश तथा सज्जनसंगमात्पुसां भक्तिस्तु येषां वै जायते कृपया तव ॥१०३॥साधुभिर्बहुभिरीरितं हरे यो निशम्य गुणकीर्त्तनं तवकीर्तयत्यखिलपापनाशनं मातृगर्भकुहरे स नो पतेत् ॥१०४॥श्रीपते तव जनस्य मानसं दैवतस्तु पतितं महारणेगुंठितं च रजसा जहाति नो निर्मलत्वमिव रत्नमुत्तमम् ॥१०५॥यः पुमान्पतति ते पदांबुजे दंडवत्पुलकमंगके दधत्सोन्वयं नयति तावकं पदं स्वं च वांछितमशेषयोगिभिः ॥१०६॥जीव एव तव मायया विभो मोहितो भ्रमति विश्ववर्त्मसुत्वत्कृपाललितलोचनांचलैस्तत्क्षणं तरति विश्ववारिधिम् ॥१०७॥नारद उवाच-इति संस्तुत्य गोविंदं दंडवत्तस्य पादयोःपपात स मुनिश्रेष्ठो जयेति मुहुरीरयन् ॥१०८॥श्रीपतिस्तं मुनिश्रेष्ठं दंडवत्पतितं भुविउत्थाप्य बाहुभिस्तूर्णं सुपर्णे समरोपयत् ॥१०९॥तत्कुटुंबं च विश्वात्मा वैकुंठं च जगाम हइत्येतत्कथितं राजन्शिवे मधुवनस्य वै ॥११०॥महात्म्यं सर्वपापघ्नं किमन्यच्छ्रोतुमिच्छसिय इदं शृणुयान्मर्त्यः सर्वपापैः प्रमुच्यते ॥१११॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मधुवनमाहात्म्यंनाम चतुर्दशाधिकद्विशततमोऽध्यायः ॥२१४॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP