संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|

उत्तरखण्डः - अध्यायः १२७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कार्तवीर्य उवाच
हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः
प्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत ॥१॥
गतपापो यदेकेन द्वितीयेन दिवं गतः
वैश्योऽसौ माघपुण्येन ब्रूहि मे तत्कुतूहलम् ॥२॥
दत्तात्रेय उवाच
निसर्गात्सलिलं मेध्यं निर्मलं शुचिपांडुरम्
मलहं पुरुषव्याघ्र द्रावकं दाहनाशनम्
तारकं सर्वभूतानां पोषणं जीवनं च यत् ॥३॥
आपो नारायणोदेवः सर्ववेदेषु पठ्यते
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी
मासानां च तथा माघः श्रेष्ठः सर्वेषु कर्मसु ॥४॥
मकरस्थे रवौ माघे प्रातः काले तथाऽमले
गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ॥५॥
योगोऽयं दुर्लभो राजंस्त्रैलोक्ये सचराचरे
अस्मिन्योगे त्वशक्तोऽपि स्नायाद्यदि दिनत्रयम् ॥६॥
दद्यात्किंचिदशक्तोऽपि दरिद्राभाववांच्छया
त्रिस्नानेनापि माघस्य धनिनो दीर्घजीविनः ॥७॥
पंच वा सप्त वाहानि चंद्रवद्वर्धते फलम्
संप्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे नृणाम् ॥८॥
सत्कार्यास्तिथयः सर्वा स्नानदानादि कर्मसु
कर्तारं दापयंतीह ह्यक्षयं शाश्वतं पदम् ॥९॥
तस्मान्माघे बहिः स्नायादात्मनो हितकाम्यया
अथातः संप्रवक्ष्यामि माघस्नानविधिं परम् ॥१०॥
कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः
फलातिशयहेतोर्वै किंचिद्भोज्यं त्यजेद्बुधः ॥११॥
भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम्
त्रिकालं चार्चयेद्विष्णुं वासुदेवं सनातनम् ॥१२॥
दातव्यो दीपकोऽखंडो देवमुद्दिश्य माधवम्
इंधनं कंबलं वस्त्रमुपानत्कुंकुमं घृतम् ॥१३॥
तैलं कार्पासकोष्ठं च तूलीं तूलवटीं पटीम्
अन्नं चैव यथाशक्ति देयं माघे नराधिप ॥१४॥
सुवर्णं रत्तिकामात्रं दद्याद्वेदविदे तथा
तद्दानमक्षयं राजन्समुद्र इव सर्वदा ॥१५॥
परस्याग्निं न सेवेत त्यजेच्चैव प्रतिग्रहम्
माघांते भोजयेद्विप्रान्यथाशक्ति नराधिप ॥१६॥
देया च दक्षिणा तेभ्य आत्मनः श्रेय इच्छता
एकादशीविधानेन माघस्योद्यापनं तथा ॥१७॥
कर्तव्यं श्रद्दधानेन ह्यक्षय्य स्वर्गवांछया
अनंतपुण्यावाप्त्यर्थं विष्णुसंप्रीतिहेतवे ॥१८॥
मकरस्थे रवौ माघे गोविंदाच्युतमाधव
स्नानेनानेन भो देव यथोक्तफलदो भव ॥१९॥
इति मंत्रं समुच्चार्य स्नायान्मौनी समाहितः
वासुदेवं हरिं कृष्णं माधवं च स्मरेत्पुनः ॥२०॥
गृहेऽपि सजलं कुंभं वायुना निशिपीडितम्
तत्स्नानं तीर्थसदृशं सर्वकामफलप्रदम् ॥२१॥
तत्र व्रतेन दातव्यं सान्नं चोपस्करान्वितम्
तत्स्नानस्य प्रभावेण नरो न निरयं व्रजेत् ॥२२॥
तप्तेन वारिणा स्नानं यद्गृहे क्रियते नरैः
षडब्दफलदं तद्धि मकरस्थे दिवाकरे ॥२३॥
बहिः स्नानं तु वाप्यादौ द्वादशाब्दफलं स्मृतम्
तडागे द्विगुणं राजन्नद्यां चैव चतुर्गुणम् ॥२४॥
शतधा देवखातेषु शतधा तु महानदे
शतं चतुर्गुणं राजन्महानद्याश्च संगमे ॥२५॥
सहस्रगुणितं सर्वं तत्फलं मकरे रवौ
गंगायां स्नानमात्रेण लभते मानवो नृप ॥२६॥
गंगायां येऽवगाहंति माघमासे नृपोत्तम
चतुर्युगसहस्रं तु न पतंति सुरालयात् ॥२७॥
दिनेदिने सहस्रं तु सुवर्णानां विशांपते
तेन दत्तं तु गंगायां यो माघे स्नाति मानवः ॥२८॥
शतेन गुणितं माघे सहस्रं राजसत्तम
निर्दिष्टमृषिभिः स्नानं गंगायामुनसंगमे ॥२९॥
पापौघभूरिभारस्य दाहार्थे च प्रजापतिः
प्रयागं विदधे भूप प्रजानां च हिते स्थितः ॥३०॥
शृणु स्थानमिदं सम्यक्सितासित जलं किल
पापरूप पशूनां च ब्रह्मणा विहितं पुरा ॥३१॥
सितासितजले मज्जेदपि पापशतान्वितः
मकरस्थे रवौ माघे नैव गर्भेषु मज्जति ॥३२॥
सूनारतोऽपि यो मर्त्यः प्रयागे स्नानमाचरेत्
माघेमासि नरव्याघ्र स याति परमंपदम् ॥३३॥
सितासिता तु या धारा सरस्वत्याविगर्भिता
तन्मार्गं विष्णुलोकस्य सृष्टिकर्ता ससर्ज वै ॥३४॥
दुस्तरा वैष्णवी माया देवैरपि सुदुर्जया
प्रयागे दह्यते सा तु माघे मासि नराधिप ॥३५॥
तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः
पश्चाच्चक्रिणि लीयंते प्रयागे माघ मज्जनात् ॥३६॥
उपस्पृशति यो माघे मकरार्के सितासिते
न तत्पुण्यं च संख्यातुं चित्रगुप्तोऽपि वेत्यलम् ॥३७॥
सन्निमज्जति यो माघे मकरस्थ सितासिते
तस्य पुण्यस्य माहात्म्यं वक्तुं ब्रह्मापि न क्षमः ॥३८॥
संवत्सरशतं साग्रं निराहारस्य यत्फलम्
प्रयागे माघमासे तु त्र्यहस्नानस्य तत्फलम् ॥३९॥
स्वर्णभारसहस्रेण कुरुक्षेत्ररविग्रहे
यत्फलं लभते माघे वेण्याः स्नानाद्दिने दिने ॥४०॥
राजसूयसहस्रस्य राजन्नविकलं फलम्
सितासिते तु माघे च स्नानानां भवति ध्रुवम् ॥४१॥
पृथिव्यां यानि तीर्थानि पुर्यः सप्त च याः पुनः
वेण्यां स्नातुं समायांति माघेमासि नृपोत्तम ॥४२॥
सर्वतीर्थानि कृष्णानि पापिनां संगदोषतः
भवंति शुक्लवर्णानि प्रयागे माघमज्जनात् ॥४३॥
आकल्पसंचितं पापं जन्मभिर्यन्नरैर्नृप
तद्भवेद्भस्मसान्माघे स्नातानां च सितासिते ॥४४॥
वाङ्मनःकायजं पापं नरस्य विलयं व्रजेत्
प्रयागे माघमासे तु त्र्यहस्नातस्य निश्चितम् ॥४५॥
प्रयागे माघमासे यस्त्र्यहं स्नाति च मानवः
पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवोरगः ॥४६॥
कुरुक्षेत्रसमा गंगा यत्रकुत्रावगाहिता
तस्माद्दशगुणा पुण्या यत्र विंध्येन संगता ॥४७॥
तस्माच्छतगुणा गंगा काश्यामुत्तरवाहिनी
काश्याः शतगुणाः प्रोक्ता गंगायामुनसंगमे ॥४८॥
सा सहस्रगुणा तासां भवेत्पश्चिमवाहिनी
या राजन्दर्शनादेव ब्रह्महत्यापहारिणी ॥४९॥
या पश्चाद्वाहिनी गंगा कालिंद्या सह संगता
हंति कोटिकृतं पापं सा माघे नृप दुर्लभा ॥५०॥
यत्कथ्यतेऽमृतं राजन्सा वेणी भुवि कीर्तिता
तस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम् ॥५१॥
ब्रह्माविष्णुर्महादेवो रुद्रादित्यमरुद्गणाः
गंधर्वा लोकपालाश्च यक्षकिन्नरपन्नगाः ॥५२॥
अणिमादिगुणैः सिद्धा ये चान्ये तत्त्ववादिनः
ब्रह्माणी पार्वती लक्ष्मीः शची मेनादितिर्दितिः ॥५३॥
सर्वास्ता देवपत्न्यश्च तथा नागांगना नृप
घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥५४॥
गणा ह्यप्सरसां सर्वे पितॄणां च गणास्तथा
स्नातुमायांति ते सर्वे माघे वेण्यां नराधिप ॥५५॥
कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः
प्रयागे माघमासे तु त्र्यहस्नानस्य यत्फलम् ॥५६॥
नाश्वमेधसहस्रेण तत्फलं लभते भुवि
त्र्यहस्नानफलं माघे पुरा कांचनमालिनी ॥५७॥
राक्षसाय ददौ भूप तेन मुक्तः स पापकृत्
कार्तवीर्य उवाच
भगवन्राक्षसः कोऽसौ सा का कांचनमालिनी ॥५८॥
कथं दत्तवती धर्मं कथं वा तस्य सद्गतिः
एतत्कथय योगींद्र अत्रिसंतानभास्कर
यदि त्वं मन्यसे श्राव्यं परं कौतूहलं हि मे ॥५९॥
दत्तात्रेय उवाच
शृणु राजन्विचित्रं त्वमितिहासं पुरातनम्
यस्य स्मरणमात्रेण वाजपेयफलं लभेत् ॥६०॥
अप्सरारूपसंपन्ना नाम्ना कांचनमालिनी
प्रयागे माघमासे सा स्नात्वा याति हरालयम् ॥६१॥
निकुंजे गिरिराजस्य तिष्ठता गिरिरूपिणा
दृष्टा गगनमारूढा तेन वृद्धेन रक्षसा ॥६२॥
तेजस्विनी सुहेमाभा सुश्रोणी दीर्घलोचना
चंद्रानना सुकेशी च पीनोन्नतपयोधरा ॥६३॥
तां दृष्ट्वा रूपसंपन्नामुवाच राक्षसस्तदा
का त्वं कमलपत्राक्षि कुत आगम्यते त्वया ॥६४॥
आर्द्रं च वसनं कस्मात्सार्द्रा ते कबरी कुतः
कुत्र आगम्यते भीरु कुतस्ते खेचरी गतिः ॥६५॥
केन पुण्येन वा भद्रे तव तेजोमयं वपुः
अतीवरूपसंपन्नं संभूतं च मनोहरम् ॥६६॥
त्वद्वस्त्रबिंदुपातेन मम मूर्ध्नि सुलोचने
क्षणेन ह्यगमच्छांतिं क्रूरं मे मानसं सदा ॥६७॥
नीरस्य महिमा कोऽयमेतद्व्याख्यातुमर्हसि
त्वं मे शीलवती भासि नाकृतिर्निर्गुणा भवेत् ॥६८॥
अप्सरा उवाच
श्रूयतामप्सराश्चाहं भो रक्षः कामरूपिणी
प्रयागतश्चागताऽहं नाम्ना कांचनमालिनी ॥६९॥
आर्द्रः परिकरोमेऽतः सुस्नाताऽहं सितासिते
गंतव्यं तु मया रक्षः कैलासे तु नगोत्तमे ॥७०॥
तत्रास्ते पार्वतीनाथः सुरासुरसुपूजितः
वेणीवारिप्रभावेण रक्षस्ते क्रूरता गता ॥७१॥
जाताहं येन पुण्येन गंधर्वस्य सुमेधसः
कन्यका दिव्यरूपा तु तत्सर्वं कथयामि ते ॥७२॥
कलिंगाधिपते राज्ञस्त्वहमासीच्च वेश्यका
रूपलावण्यसंपन्ना सौभाग्यमदगर्विता ॥७३॥
अन्यासां युवतीनां च तत्पुरेऽहं शिरोमणिः
तज्जन्मनि मया रक्षो भुक्त्वा भोगान्यथेच्छया ॥७४॥
मोहितं तत्पुरं सर्वं मया यौवनसंपदा
रत्नानि च विचित्राणि भूषणानि धनानि च ॥७५॥
वासांसि चित्ररूपाणि कर्पूरागुरुचंदनम्
एतच्चोपार्जितं सर्वं मया मोहनरूपया ॥७६॥
नाहं जानामि हेम्नोंतं स्वनिवासे निशाचर
संसेवंते युवानो मे चरणौ कामपीडिताः ॥७७॥
मया ते वंचिताः सर्वे सर्वस्वेन तु मायया
अन्योन्यस्पर्धाभावेन मृताः केचित्तु कामिनः ॥७८॥
इत्थं तन्नगरे रम्ये सकले मे गतिस्तदा
प्राप्ते तु वार्द्धके काले शुशोच हृदयं मम
न दत्तं न हुतं जप्तं न व्रतं चरितं मया ॥७९॥
नाराधितो मया देवश्चतुर्वर्गफलप्रदः
न मया पूजिता देवी दुर्गा दुर्गतिनाशिनी
सर्वपापहरो विष्णुर्न स्मृतो भोगलुब्धया ॥८०॥
न च संतर्पिता विप्रा न कृतं प्राणिनां हितम्
अणुमात्रमिदं पुण्यं न कृतं च प्रमादतः ॥८१॥
पातकं तु कृतं भद्र तेन मे दह्यते मनः
बहुधैवं विलप्याहं ब्राह्मणं शरणं गता ॥८२॥
ब्रह्मण्यं वेदविद्वांसं तस्य राज्ञः पुरोहितम्
स हि पृष्टो मया रक्षः कथं मे निष्कृतिर्भवेत् ॥८३॥
पापस्यास्य द्विजश्रेष्ठ कथं यास्यामि सद्गतिम्
स्वेनैव कर्मणा तप्तां वराकीं दीनमानसाम् ॥८४॥
पापपंकनिमग्नां त्वं मामुद्धर कचग्रहैः
मयि कारुण्यंजं वारि वर्षहर्षदृशा द्विज ॥८५॥
सज्जने साधवः सर्वे साधुः साधुरसज्जने
इत्यसौ मद्वचः श्रुत्वा चकारानुग्रहं मयि ॥८६॥
द्विज उवाच
निषिद्धाचरणं जाने सर्वं तेऽहं वरानने
कुरु मे सत्वरं वाक्यं याहि क्षेत्रं प्रजापते ॥८७॥
तत्र गत्वा कुरु स्नानं तेन पापक्षयस्तव
सर्वं मनोगतं भद्रे त्वदीयं शोचितं मया ॥८८॥
नाहमन्यत्प्रपश्यामि यत्ते पापप्रणाशनम्
प्रायश्चित्तं परं तीर्थे स्नानं च ऋषिभिः स्मृतम् ॥८९॥
किंतु तीर्थे त्यजेद्भीरु मनसाप्यशुभं कृतम्
प्रयागस्नानशुद्धा त्वं स्वर्गं यास्यसि निश्चितम् ॥९०॥
प्रयागस्नानमात्रेण नृणां स्वर्गो न संशयः
अन्यदेशकृतं पापं तत्क्षणादेव भामिनि ॥९१॥
प्रयागे विलयं याति पापं तीर्थकृतं विना
शृणु भीरु पुरा शक्रो गौतमस्य मुनेर्वधूम् ॥९२॥
दृष्ट्वा कामवशं प्राप्तस्तां गतो गुप्तकामुकः
उग्रेण तेन पापेन तदैव जनितं फलम् ॥९३॥
ऋषिस्त्रीगंतुरिंद्रस्य तस्याश्च पुरतस्तदा
कुत्सितं गर्हितं जातमिति लज्जाकरं वपुः ॥९४॥
तद्भर्तुः शापमाहात्म्यात्सहस्रभगचिह्नितम्
अधोमुखस्ततो भूत्वा देवराजो विनिर्गतः ॥९५॥
निनिंद स्वकृतं कर्म सोऽभिभूतः सलज्जितः
मेरोः शिरसि तोयाढ्ये शतयोजनविस्तृते ॥९६॥
तत्र गत्वा प्रविष्टस्तु हेमांभोरुहकोरके
तत्रस्थो गर्हयन्नित्यमात्मानं मन्मथं तथा ॥९७॥
धिक्तां कामात्मतां लोके सद्यः पातकदायिनीम्
यया हि नरकं याति सर्वलोकविगर्हितः ॥९८॥
आयुः कीर्तिर्यशोधर्म धैर्य ध्वंसकरी तथा
धिङ्मन्मथं दुराचारमापदां नियतं पदम् ॥९९॥
देहस्थं दुर्दमं शत्रुमसंतुष्टं सदावशम्
इत्थंवादिनि प्रच्छन्ने वासवे पद्मसद्मनि ॥१००॥
आखंडलं विना भीरु देवलोको न शोभते
ततो देवाः सगंधर्वा लोकपालाः सकिन्नराः ॥१०१॥
शच्या सह समागम्य पप्रच्छुस्ते बृहस्पतिम्
भगवन्बलभिद्देवं नैव जानीमहे वयम् ॥१०२॥
क्व तिष्ठति गतः कुत्र कुत्र वा मृगयामहे
न नाकः शोभते तेन विना देवगणैः सह ॥१०३॥
सुपुत्रेण विना यद्वत्कुलं श्रीमद्गुणान्वितम्
उपायश्चिंत्यतां सद्यः स्वर्लोके येन शोभते ॥१०४॥
सनाथः सुश्रियायुक्तो न विलंबोऽत्र युज्यते
इति तेषां वचः श्रुत्वा गुरुर्वचनमब्रवीत् ॥१०५॥
जानेऽहं स्वापराधेन लज्जया यत्र तिष्ठति
रभसा लब्धकार्यस्य भुंक्ते स मघवा फलम् ॥१०६॥
नृणां नीतिपरित्यागाद्विपाकाः स्युर्भयंकराः
अहो राज्यमदैर्मत्तः कृत्याकृत्यमचिंतयन् ॥१०७॥
कृतवान्निंद्यमानं हि दृष्टादृष्टक्षयंकरम्
कुर्वंति बालिशा यत्र दैवोपहतबुद्धयः ॥१०८॥
अपराधाद्यथाजन्म स्यादिहामुत्र निष्फलम्
अधुना तत्र गच्छामो यत्र शक्रः स तिष्ठति ॥१०९॥
इत्युक्त्वा निर्गताः सर्वे बृहस्पतिपुरोगमाः
दृष्ट्वा सरसि विस्तीर्णे स्वर्णपंकजकाननम् ॥११०॥
तुष्टुवुर्देवराजानं प्रबोधो येन जायते
ततो गुरोः प्रबोधेन निर्गतः पद्मकुड्मलात् ॥१११॥
दीनाननो विरूपस्तु व्रीडाकुंचितलोचनः
जग्राह चरणाविंद्रो गुरोस्तस्याग्रजन्मनः ॥११२॥
त्राहि मां निष्कृतिं ब्रूहि पापस्यास्य बृहस्पते
देवराजवचः श्रुत्वा जगौ विप्रो बृहस्पतिः ॥११३॥
शृणु देवेंद्र वक्ष्येऽहमुपायं पापनाशनम्
प्रयागस्नानमात्रेण तत्क्षणादेव पातकात् ॥११४॥
मुच्यसे देवराजत्वं तत्र यामः सहैव ते
अथ पुरोधसा सार्धमागत्य बलमर्दनः ॥११५॥
सस्नौ सितासिते तीर्थे सद्यो मुक्तो ह्यघैस्ततः
अथ देवगुरुस्तस्मै प्रसन्नस्तु वरं ददौ ॥११६॥
प्रयागस्नानमात्रेण क्षीणं पापं त्वयानघ
क्षीणपापस्य ते शक्र मत्प्रसादेन सत्वरम् ॥११७॥
सहस्रमेतद्योनीनां सहस्रं स्याद्दृशां तव
तदैव द्विजवाक्येन शुशुभे च शचीपतिः ॥११८॥
लोचनानां सहस्रेण पंकजैरिव मानसम्
अथ वृंदारकैः सर्वैरृषिभिश्चाभिपूजितः ॥११९॥
गंधर्वैः स्तूयमानस्तु गतः शक्रोऽमरावतीम्
इत्थं सद्यो विपापोऽभूत्प्रयागे पाकशासनः ॥१२०॥
याहि त्वमपि कल्याणि प्रयागं देवसेवितम्
सद्यः पापविनाशाय तथा स्वर्गतये दृढम् ॥१२१॥
इति तस्य वचः श्रुत्वा सेतिहासं समंगलम्
तदैव संभ्रमापन्ना नत्वा पादौ द्विजस्य तु ॥१२२॥
त्यक्त्वा बंधुजनं सर्वं दासदासीगृहं तथा
सकलान्विषयान्रक्षो विषग्रासानिव स्फुटम् ॥१२३॥
वपुश्च क्षणविध्वंसि पश्यंती निर्गता ह्यहम्
नरकार्णवसंपात दारुणांतर वह्निना ॥१२४॥
हृदये कुणपव्याघ्र तदा तत्तप्यमानया
मया गत्वा कृतं स्नानं माघे मासि सितासिते ॥१२५॥
तस्य स्नानस्य माहात्म्यं शृणु वृद्धनिशाचर
त्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः ॥१२६॥
शेषैर्मे यदभूत्पुण्यं तेन देवत्वमागता
रममाणा तु कैलासे गिरिजायाः प्रिया सखी ॥१२७॥
जातिस्मरा तथा जाता प्रयागस्य प्रभावतः
स्मृत्वा प्रयागमाहात्म्यं माघे माघे व्रजाम्यहम् ॥१२८॥
इति राक्षस यत्पृष्टं त्वया विस्मितचेतसा
तन्मया कथितं सर्वं चरितं प्रीतये तव ॥१२९॥
मत्प्रीतये चरित्रं स्वं त्वं ब्रूहि मम राक्षस
कर्मणा केनजातोऽसि विरूपोऽतिभयंकरः ॥१३०॥
श्मश्रुलो दीर्घदंष्ट्रंश्च क्रव्यादो गिरिगह्वरे
राक्षस उवाच
इष्टं ददाति गृह्णाति गुह्यं वदति पृच्छति ॥१३१॥
प्रीत्या हि सज्जनो भद्रे तच्च सर्वं त्वयि स्थितम्
त्वया संभावितो नूनं मन्येऽहं वामलोचने ॥१३२॥
भाविनी निष्कृतिः सद्यस्त्वयास्य क्रूरकर्मणः
अतो वक्ष्यामि ते भद्रे दुष्कृतं यत्स्वयंकृतम् ॥१३३॥
निवेद्य सज्जने दुःखं ततः सर्वसुखी भवेत्
शृणु सुश्रोण्यहं काश्यां बह्वृचो वेदपारगः ॥१३४॥
जातः पुरा द्विजः श्रेष्ठः कुले महति निर्मले
राज्ञां दुष्कृतिनां भीरु शूद्राणां च तथा विशाम् ॥१३५॥
वाराणस्यां कृतो घोरो मया दुष्टप्रतिग्रहः
बहुधा बहुधा वारं निषिद्धः कुत्सितो बहु ॥१३६॥
चांडालस्यापि न त्यक्तो मया दुष्टप्रतिग्रहः
अन्यच्च पातकं तत्र ममाभून्मूढचेतसः
तन्नास्ति दुष्कृतं कर्म मया यत्र न यत्कृतम् ॥१३७॥
अन्यच्च श्रूयतां दोषः क्षेत्रस्य वरवर्णिनि
अविमुक्तेऽणुमात्रं यत्तदघं मेरुतां व्रजेत्
न धर्मस्तु मया कश्चित्संचितस्तत्र जन्मनि ॥१३८॥
ततो बहुतिथे काले मृतस्तत्रैव शोभने
अविमुक्तप्रभावेण न चाहं नरकं गतः ॥१३९॥
अविमुक्ते मृतः कश्चिन्नरकं नेति किल्बिषी
अविमुक्ते कृतं किंचित्पापं वज्री भवेद्दृढम् ॥१४०॥
वज्रलेपेन पापेन तेन मे जन्म राक्षसम्
रौद्रं क्रूरतरं पापं संभूतं हिमपर्वते ॥१४१॥
द्विर्जातो गृध्रयोनौ प्राक्त्रिर्व्याघ्रो द्विः सरीसृपः
एकवारमुलूकस्तु विड्वराहस्ततः परम् ॥१४२॥
इदं तु दशमं जन्म राक्षसं मम भामिनी
अतीतानि सहस्राणि वर्षाणि मम जन्मनः ॥१४३॥
नास्ति मे निष्कृतिर्भद्रे एतस्माद्दुःखसागरात्
अत्र त्रियोजनं सुभ्रूर्निर्जंतु हि मया कृतम् ॥१४४॥
अनागसां च भूतानां बहूनां च कृतः क्षयः
कर्मणा तेन मे सुभ्रूर्दह्यते सततं मनः ॥१४५॥
त्वद्दर्शनसुधासिक्तं गतं शैत्यं मनो मम
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥१४६॥
अतः सत्संगतिं सुभ्रूः प्रशंसंति मनीषिणः
एतत्ते कथितं सर्वं स्वदुःखं हृद्गतं मया ॥१४७॥
विरलः सज्जनः सुभ्रूः स्वात्मा यस्य न खिद्यते
जानास्यत्रोचितं त्वं हि किंचिन्नो वच्म्यतः परम् ॥१४८॥
अस्य दुःखोदधेः पारं कथं यामीति चिंतयन्
सज्जनानां समा भूतिः सर्वेषामुपजीवनम् ॥१४९॥
क्षीरार्णवः पयो दत्ते हंसाय न बकाय किम्
दत्तात्रेय उवाच
इति तस्य वचः श्रुत्वा दयार्द्रीकृतमानसा ॥१५०॥
धर्मदाने मतिं कृत्वा जगौ कांचनमालिनी
करिष्ये निष्कृतिं रक्ष इदानीं खलु मा शुचः ॥१५१॥
प्रतिज्ञां तु दृढां कृत्वा यतिष्ये तव मुक्तये
बहवो हि कृता माघा वर्षे वर्षे यथाविधि ॥१५२॥
श्रद्धापूर्वं मया भद्र ब्रह्मक्षेत्रे सितासिते
तां वदामि तु संख्यातिं तस्य धर्मस्य राक्षस ॥१५३॥
गूढो धर्मो हि कर्तव्य इत्यूचुर्विबुधा जनाः
आर्ते दानं प्रशंसंति मुनयो वेदवादिनः ॥१५४॥
सागरे वर्षतो भद्र किं मेघस्य फलं भवेत्
अनुभूतं मया रक्षः स्वयं तत्पुण्यजं फलम् ॥१५५॥
तत्तु दास्यामि ते मित्र सद्यः पापविनाशनम्
निष्पीड्याथ ततो वस्त्रं जलं कृत्वा करांबुजे ॥१५६॥
ददौ सा माघजं पुण्यं तस्मै वृद्धाय रक्षसे
शृणु राजन्विचित्रं हि प्रभावं माघधर्मजम् ॥१५७॥
तदैवं प्राप्य तत्पुण्यं विमुक्ता राक्षसी तनुः
संभूतो देवताकारस्तेजो भास्करविग्रहः ॥१५८॥
देवयानं समारूढः सहर्षोत्फुल्ललोचनः
द्योतमानस्तदा व्योम्नि भासयन्प्रभया दिशः ॥१५९॥
दिव्यरूपधरो रेजे द्वितीय इव भास्करः
ततोऽभिनंदयामास सतां कांचनमालिनीम् ॥१६०॥
भद्रे वेत्तीश्वरो देवः कर्मणां यः फलप्रदः
तत्त्वयोपकृतं सर्वं यत्र मे नास्ति निष्कृतिः ॥१६१॥
इदानीमपि कारुण्यात्प्रसीदानुग्रहं कुरु
शिक्षां विधेहि मे देवि सर्वनीतिमयीं शुभाम् ॥१६२॥
सर्वधर्मकरीं नूनं न कुर्वे पातकं यथा
तां श्रुत्वा त्वदनुज्ञातः पश्चाद्यामि सुरालयम् ॥१६३॥
दत्तात्रेय उवाच
एतन्निशम्य तेनोक्तं प्रियं धर्ममयं वचः
अतिप्रीत्याब्रवीद्धर्मं राजन्कांचनमालिनी ॥१६४॥
धर्मं भजस्व सततं त्यज भूतहिंसां सेवस्व साधुपुरुषान्जहि कामशत्रुम्
अन्यस्य दोषगुणकीर्तनमाशु हित्वा सत्यं वदार्चय हरिं व्रज देवलोकम् ॥१६५॥
देहेऽस्थिमांसरुधिरे स्वमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुंच
पश्यानिशं जगदिदं क्षणभंगुरं हि वैराग्यभावरसिको भव योगनिष्ठः ॥१६६॥
प्रीत्या मया निगदितं तव धर्ममार्गं चित्तो निधेहि सकलं भवशीलयुक्तः
संत्यज्य राक्षसतनुं धृतदेवदेहो ज्योतिर्मयो व्रज यथासुखमाशु नाकम् ॥१६७॥
श्रुत्वाधर्मं ततो हृष्टः संतुष्टो राक्षसोऽब्रवीत्
भवप्रमुदिता नित्यं सर्वदा शिवमस्तु ते ॥१६८॥
आचन्द्रार्कं रमस्व त्वं कैलासे शिवसन्निधौ
उमयाऽखंडितं प्रेम तवास्तु वरवर्णिनि ॥१६९
धर्मनिष्ठा तपोनिष्ठा मातस्त्वं भव सर्वदा
मास्तु लोभः शरीरे ते आपन्नार्ति सदा हर ॥१७०॥
इत्युक्त्वा तु प्रणम्याथ सतां कांचनमालिनीम्
जगाम राक्षसः स्वर्गं गंधर्वैर्बहुभिः स्तुतः ॥१७१॥
देवकन्यास्तदागत्य ववर्षुः पुष्पवृष्टिभिः
तस्याः कांचनमालिन्या मूर्ध्नि हर्षसमाकुलाः ॥१७२॥
तामालिंग्य ततः प्रोचुः कन्यकास्तु प्रियं वचः
कृतं भद्रे त्वया चित्रं राक्षसस्य विमोक्षणम् ॥१७३॥
दुष्टस्यास्य भयात्कश्चिद्विशत्यस्मिन्न कानने
अधुना निर्भया ह्यत्र विचरामो यथासुखम् ॥१७४॥
श्रुत्वा तद्वचनं राजंस्तासां कांचनमालिनी
हृष्टा तेनैव दानेन कृतकृत्या तदा सती ॥१७५॥
तं राक्षसं कांचनमालिनीवरा गन्धर्वकन्या परिमोच्य सत्वरम्
क्रीडंत्यमूभिः प्रययौ हरालयं प्रीत्या सपूर्णा च परोपकारया ॥१७६॥
संवादमेनं वरकन्यकेरितं भक्त्या परं यः शृणुयाच्च मानवः
न बाध्यते जातु सदा स राक्षसैर्धर्मे मतिस्तस्य भृशं हि जायते ॥१७७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिताया
मुत्तरखण्डे माघमासमाहात्म्ये दिलीपवसिष्ठसंवादे राक्षसमोक्षोनाम सप्तविंशत्यधिकशततमोऽध्यायः ॥१२७॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP