संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २४३ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २४३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २४३ Translation - भाषांतर शंकर उवाच-अथ तस्मिन्दिने पुण्ये शुभलग्ने शुभान्वितेमंगलस्याभिषेकार्थं मंगलं चक्रिरे जनाः ॥१॥वसिष्ठो वामदेवश्च जाबालिरथ कश्यपःमार्कंडेयश्च मौद्गल्यः पर्वतो नारदस्तथा ॥२॥एते महर्षयस्तत्र जपहोमपुरस्सरम्अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमम् ॥३॥नानारत्नमये दिव्ये हेमपीठे शुभान्वितेनिवेश्य सीतया सार्द्धं श्रिया इव जनार्दनम् ॥४॥सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैःसर्वतीर्थोदकैः पुण्यैर्माङ्गल्यद्रव्यसंयुतैः ॥५॥दूर्वाग्रतुलसीपत्रपुष्पगंधसमन्वितैःमंत्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः ॥६॥अजपन्वैष्णवान्सूक्तान्चतुर्वेदमयान्शुभान्अभिषेकं शुभं चक्रुः काकुत्स्थं जगतः पतिम् ॥७॥तस्मिन्शुभतमे लग्ने देवदुंदुभयो दिविविनेदुः पुष्पवर्षाणि ववृषुश्च समंततः ॥८॥दिव्यांबरैर्भूषणैश्च दिव्यगंधानुलेपनैःपुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः ॥९॥अलंकृतश्च शुशुभे मुनिभिर्वेदपारगैःछत्रं च चामरं दिव्यं धृतवान्लक्ष्मणस्तदा ॥१०॥पार्श्वे भरतशत्रुघ्नौ तालवृंतौ विरेजतुःदर्पणं प्रददौ श्रीमान्राक्षसेंद्रो विभीषणः ॥११॥दधार पूर्णकलशं सुग्रीवो वानरेश्वरःजाम्बवांश्च महातेजाः पुष्पमालां मनोहराम् ॥१२॥वालिपुत्रस्तु तांबूलं सकर्पूरं ददौ हरेःहनुमान्दीपकां दिव्यां सुषेणश्च ध्वजं शुभम् ॥१३॥परिवार्य महात्मानं मंत्रिणः समुपासिरेसृष्टिर्जयंतो विजयः सौराष्ट्रो राष्ट्रवर्द्धनः ॥१४॥अकोपो धर्मपालश्च सुमंत्रो मंत्रिणः स्मृताःराजानश्च नरव्याघ्रा नानाजनपदेश्वराः ॥१५॥पौराश्च नैगमा वृद्धा राजानं पर्युपासतऋक्षैश्च वानरेंद्रैश्च मंत्रिभिः पृथिवीश्वरैः ॥१६॥राक्षसैर्द्विजमुख्यैश्च किंकरैश्च समावृतःपरे व्योम्नि यथा लीनो दैवतैः कमलापतिः ॥१७॥तथा नृपवरः श्रीमान्साकेते शुशुभे तदाइंदीवरदलश्यामं पद्मपत्रनिभेक्षणम् ॥१८॥आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम्कंबुग्रीवं महोरस्कं विचित्राभरणैर्युतम् ॥१९॥देव्या सह समासीनमभिषिक्तं रघूत्तमम्विमानस्थाः सुरगणा हर्षनिर्भरमानसाः ॥२०॥तुष्टुवुर्जयशब्देन गंधर्वाप्सरसां गणाःअभिषिक्तस्ततो रामो वसिष्ठाद्यैर्महर्षिभिः ॥२१॥शुशुभे सीतया देव्या नारायण इव श्रियाअतिमर्त्यतयाभीत उपासितुं पदांबुजम् ॥२२॥दृष्ट्वा तुष्टाव हृष्टात्मा शंकरो हृष्टमागतःकृतांजलिपुटो भूत्वा सानंदो गद्गदाकुलःहर्षयन्सकलान्देवान्मुनीनपि च वानरान् ॥२३॥महादेव उवाच-नमो मूलप्रकृतये नित्याय परमात्मनेसच्चिदानंदरूपाय विश्वरूपाय वेधसे ॥२४॥नमो निरंतरानंद कन्दमूलाय विष्णवेजगत्त्रयकृतानंद मूर्त्तये दिव्यमूर्त्तये ॥२५॥नमो ब्रह्मेंद्रपूज्याय शंकराभयदाय चनमो विष्णुस्वरूपाय सर्वरूपनमोनमः ॥२६॥उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मनेनमोस्तु निर्गतोपाधिस्वरूपाय महात्मने ॥२७॥अनया विद्यया देव्या सीतयोपाधिकारिणेनमः पुंप्रकृतिभ्यां च युवाभ्यां जगतां कृते ॥२८॥जगन्मातापितृभ्यां च जनन्यै राघवाय चनमः प्रपंचरूपिण्यै निष्प्रपंचस्वरूपिणे ॥२९॥नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्त्तयेपरिणामापरीणामरिक्ताभ्यां च नमोनमः ॥३०॥कूटस्थबीजरूपिण्यै सीतायै राघवाय चसीता लक्ष्मीर्भवान्विष्णुः सीता गौरी भवान्शिवः ॥३१॥सीता स्वयं हि सावित्रि भवान्ब्रह्मा चतुर्मुखःसीता शची भवान्शक्रः सीता स्वाहानलो भवान् ॥३२॥सीता संहारिणी देवी यमरूपधरो भवान्सीता हि सर्वसम्पत्तिः कुबेरस्त्वं रघूत्तम ॥३३॥सीता देवी च रुद्राणी भवान्रुद्रो महाबलःसीता तु रोहिणी देवी चंद्रस्त्वं लोकसौख्यदः ॥३४॥सीता संज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान्सीतादेवी महाकाली महाकालो भवान्सदा ॥३५॥स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकीपुन्नाम लांछितं यत्तु तत्सर्वं हि भवान्प्रभो ॥३६॥सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणीतदात्वमपिचत्रातुंतच्छक्तिर्विश्वधारिणी ॥३७॥तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम्चिह्नितं शिवशक्तिभ्यां चरितं तव शांतिदम् ॥३८॥आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम्त्वन्नामजापिनी गौरी त्वन्मंत्रजपवानहम् ॥३९॥मुमूर्षोर्मणिकर्ण्यां तु अर्द्धोदकनिवासिनःअहं दिशामि ते मंत्रं तारकं ब्रह्मदायकम् ॥४०॥अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितम्त्वन्मायामोहितास्सर्वे न त्वां जानंति तत्वतः ॥४१॥ईश्वर उवाच-इत्युक्तः शंभुना रामः प्रसादप्रवणोऽभवत्दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः ॥४२॥तथा तं रूपमालोक्य नरवानरदेवताःन द्रष्टुमपिशक्तास्ते तेजसं महदद्भुतम् ॥४३॥भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितःभीता विज्ञाय रामोऽपि नरवानरदेवताःमायामानुषतां प्राप्य स देवानब्रवीत्पुनः ॥४४॥रामचंद्र उवाच-शृणुध्वं देवता यो मां प्रत्यहं संस्तुविष्यतिस्तवेन शंभुनोक्तेन देवतुल्यो भवेन्नरः ॥४५॥विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुतेरणे जयमवाप्नोति न क्वचित्प्रतिहन्यते ॥४६॥भूतवेतालकृत्याभिर्ग्रहैश्चापि न बाध्यतेअपुत्रो लभते पुत्रं पतिं विंदति कन्यका ॥४७॥दरिद्रः श्रियमाप्नोति सत्ववाञ्शीलवान्भवेत्आत्मतुल्यबलः श्रीमाञ्जायते नात्र संशयः ॥४८॥निर्विघ्नं सर्वकार्येषु सर्वारंभेषु वै नृणाम्यंयं कामयते मर्त्यः सुदुर्लभमनोरथम् ॥४९॥षण्मासात्सिद्धिमाप्नोति स्तवस्यास्य प्रसादतःयत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ॥५०॥ईश्वर उवाच-इत्युक्त्वा रामचंद्रोऽसौ विससर्ज महेश्वरम्ब्रह्मादि त्रिदशान्सर्वान्विससर्ज समागतान् ॥५१॥अर्चिता मानवाः सर्वे नरवानरदेवताःविसृष्टा रामचंद्रेण प्रीत्या परमया युताः ॥५२॥इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीवहृष्टाःपरं पठंतः स्तवमीश्वरोक्तं रामं स्मरंतो वरविश्वरूपम् ॥५३॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर संवादे विश्वदर्शनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४३॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP