संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १५४

उत्तरखण्डः - अध्यायः १५४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


साभ्रमत्यास्तटे गुप्तं तीर्थं परमपावनम्
खङ्गधारमिति ख्यातं कलौ गुप्तं भविष्यति ॥१
यत्र प्रसंगतः स्नात्वा पीत्वा वापो यदृच्छया
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥२॥
यत्र साभ्रमती पुण्या कश्यपानुगता सती
रुद्रेण हि जटाजूटे धृता पातालगामिनः ॥३॥
खङ्गधारेति वै नाम्ना रुद्रस्तत्रैव संस्थितः
यत्र स्नात्वा दिवं याताः पापिनोऽपि सुरेश्वरि ॥४॥
अत्रैवोदाहरंतीममितिहासं पुरातनम्
किरातेन कृतं यच्च व्रतं परमदुष्करम् ॥५॥
पार्वत्युवाच
किं नाम वै किरातोऽभूत्किं तेन व्रतमाहितम्
तत्सर्वं श्रोतुमिच्छामि यथातथ्येन कथ्यताम् ॥६॥
नह्यन्यो विद्यते लोके त्वां विना वदतां वरः
तस्मात्कथय भो देव सर्वं शुश्रूषणे हितम् ॥७॥
महादेव उवाच
आसीत्पुरा महारौद्रश्चंडो नाम दुरात्मवान्
क्रूरः शठो नैष्कृतिको भूतानां च भयावहः ॥८॥
जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं ततः
भल्लैर्मृगान्श्वापदांश्च कृष्णसारान्सशल्लकान् ॥९॥
खगान्नानाविधांश्चैव विध्वा कांश्चित्प्रपातयेत्
पक्षिणो घातयन्क्रुद्धो बर्हिणश्च विशेषतः ॥१०॥
लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः
भार्या तथाविधा तस्य पुंश्चली च महामया ॥११॥
एवं विहरतस्तस्य बहुकालो व्यवर्त्तत
एकदा निशि पापीयान्श्रीवृक्षोपरि संस्थितः ॥१२॥
कोलं हंतुं धनुःपाणिः शरं संयोज्य कार्मुके
एवं निशा गता तस्य जाग्रतो निमिषस्य हि
माघमासे सितायां वै चतुर्दश्यां नगात्मजे ॥१३॥
श्रीवृक्षपत्राणि बहूनि तत्र संच्छेदयामास रुषान्वितोऽपि
श्रीवृक्षमूले परिवर्त्तमानं लिगं च तस्योपरितानि पेतुः ॥१४॥
श्रीवृक्षपर्णानि च दैवयोगात्जातं च सर्वं शिवपूजनं तत् ॥१५॥
गंडूषकारिणा तेन स्नपनं च महत्कृतम्
अज्ञानिना च तेनैव पुष्कसेन दुरात्मना ॥१६॥
माघमासे सिते पक्षे चतुर्दश्यां विधूदये
पुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः ॥१७॥
तस्य भार्या प्रचंडा च आगता तस्य सन्निधौ
निराशा च निराहारा यत्रासौ पुष्कसः स्थितः ॥१८॥
न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वा
अशनार्थं च तस्यैव अन्नमादाय भामिनी ॥१९॥
तेन दृष्टा प्रचंडा सा आयांती क्रूरलोचना
सा तस्य भार्या नद्यां वै जलमध्ये पपात ह ॥२०॥
तावत्तयोक्तश्चंडात्मा एहि शीघ्रं च भक्षय
समानीतं त्वदर्थं च मत्स्यमांसं मयाधुना ॥२१॥
कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यते
नाशितं च त्वया मूढ कुटुंबं लंघते तव ॥२२॥
एतच्छ्रुत्वा तु वचनं चंडायाश्चंडरूपवान्
शिवरात्र्युपवासेन रात्रौ जागरणेन च ॥२३॥
शुद्धांतःकरणो जातः स्नातुं नद्यां शुचिव्रतः
यावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः ॥२४॥
शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरि
चंडा प्रकुपिता तं च श्वानं हंतुमुपस्थिता ॥२५॥
निवारिता हि चंडेन चंडा प्रकुपिता तदा
न हंतव्यस्त्वया चैष किमनेनाशुभं कृतम् ॥२६॥
तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मना
किं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः ॥२७॥
पुष्कस उवाच
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः
किमनेन शरीरेण नश्वरेण गतायुषा ॥२८॥
ये पुष्यंति शरीरं वै सर्वभावेन भामिनि
मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः ॥२९॥
तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम्
स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव ॥३०॥
अहमेतच्छरीरं वै खङ्गधारव्रतेन च
त्यक्ष्याम्यद्य वरारोहे किं चिरंजीवनेन मे ॥३१॥
इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम्
आगताश्च गणास्तावद्बहवः शिवनोदिताः ॥३२॥
विमानानि बहून्यत्र आगतानि तदंतिके
दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा ॥३३॥
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः ॥३४॥
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः
कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः ॥३५॥
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं मम
पुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः ॥३६॥
गणा ऊचुः
प्रेषितास्मो वयं चंड शिवेन परमेष्ठिना
आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह ॥३७॥
लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च
तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम् ॥३८॥
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव
किं मया सुकृतं चीर्णं पापिना पुष्कसेन हि ॥३९॥
मृगयारसिकेनैव मूढेन च दुरात्मना
पापाचारोह्यहं नित्यं कथं स्वर्गे वसाम्यहम् ॥४०॥
कथं लिगार्चनं चाद्या कृतमस्ति तदुच्यताम्
परं कौतुकमापन्नः पृच्छामि कृपया वद ॥४१॥
वीरभद्र उवाच
देवदेवो महादेवो यो गंगाधरसंज्ञकः
परितुष्टोऽद्य ते चंड सभार्यस्य उमापतिः ॥४२॥
प्रासंगिकं त्वया चाद्य कृतमर्चनमेव च
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ॥४३॥
छेदितानि त्वया चंड पतितानि तदैव हि
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो ॥४४॥
तवैवं जागरो जातो महावृक्षोपरि ध्रुवम्
तेनैव जागरेणैव तुतोष जगदीश्वरः ॥४५॥
छलेनैव महाभाग कोलसंदर्शनेन हि
शिवरात्रिदिनं व्याध प्रसंगेनाप्युपोषितम् ॥४६॥
तेनोपवासेन च जागरेणतुष्टो ह्यसौ देववरो महात्मा
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च ॥४७॥
एवमुक्तस्तदा तेन वीरभद्रेण धीमता
पुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम् ॥४८॥
गणानां देवतानां च सर्वेषां प्राणिनामपि
तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥४९॥
वीणावेणुमृदंगानि लास्यनाट्य युतानि च
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥५०॥
चामरैर्विज्यमानो हि छत्रैश्च विविधैरपि
महोत्सवेन महता ह्यानीतः शिवसन्निधौ ॥५१॥
पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नान शिवार्चनात्
किं पुनः श्रद्धया भक्त्या शिवाय परमात्माने ॥५२॥
पुष्पादिकं फलं गंधं तांबूलाक्षतमेव च
ये प्रयच्छंति लोकेऽस्मिंस्ते रुद्रा नात्र संशयः ॥५३॥
महादेव उवाच
तदाप्रभृति तत्तीर्थं खङ्गधारेति विश्रुतम्
एतत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि ॥५४॥
माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः
स्नानं येन प्रकुर्वंति मुक्तास्ते नगनंदिनि ॥५५॥
वसिष्ठो वामदेवश्च भरद्वाजोऽथ गौतमः
स्नानार्थे वै समायांति देवं द्रष्टुं पिनाकिनम् ॥५६॥
त्रियुगे वर्त्तते लिंगं कलौ नैव तु पार्वति
विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा ॥५७॥
पार्वत्युवाच
कथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वर
तदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः ॥५८॥
महादेव उवाच
एकस्मिन्समये देवि विश्वामित्रो महातपाः
आगतः खङ्गधारेऽस्मिंस्तीर्थे वै परमाद्भुते ॥५९॥
साभ्रमत्यां कृतस्नानो दर्शनं कृतवान्मम
तत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकधा ॥६०॥
तत्र कोऽपि महादुष्टः कौलिकः पापरुपधृक्
मांसं दत्तं तदा तेन शिवस्योपरि भामिनि ॥६१॥
दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनः
अब्रवीच्च तदा तत्र दुष्कृतं पापिना कृतम् ॥६२॥
न दत्तस्तस्य दंडो हि शर्वेण परमात्मना
तस्मादहं हि निश्चित्य शापं दास्ये न संशयः ॥६३॥
विचार्यैवं तदा तेन शप्तोऽहं देवि वै तदा ॥६४॥
अस्मिन्कलियुगे घोरे गुप्तस्त्वं भव सर्वथा
इति दत्वाथ वै शापं गतवान्मुनिसत्तमः ॥६५॥
तदा प्रभृति भो देवि गुप्तोऽहं ऋषिशापतः
ममस्थाने विशेषेण पूजनं कुरुते यदि ॥६६॥
तेषां हि दुरितं यच्च नश्यते तत्क्षणादपि
मृन्मयीं मामकीं मूर्तिं कृत्वा ये पूजयंति वै ॥६७॥
अत्र स्थाने विशेषेण मामके तु वसंति हि
खङ्गधारेश्वर इति नाम्ना ख्यातः कलौयुगे ॥६८॥
कृते वै मंदिरं नाम त्रेतायां गौरवः स्मृतः
द्वापरे विश्वविख्यातः कलौ खङ्गेश्वरः स्मृतः ॥६९॥
दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि
इति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः ॥७०॥
पूजनं कुरुते नित्यं वांछितं फलमाप्नुयात्
धर्मार्थकाममोक्षांश्च लभते मानवो भुवि ॥७१॥
धूपं दीपं च नैवेद्यं तथा वै चंदनादिकम्
येऽर्पयंति हि देवेशि लोकनाथे महेश्वरि
न दुःखं तु भवेत्तेषां सत्यं सत्यं वरानने ॥७२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्रसंहितायामुउत्तर
खंडे धारेश्वरमाहात्म्यं नाम चतुष्पंचाशदधिकशततमोऽध्यायः ॥१५४॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP