संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|

उत्तरखण्डः - अध्यायः २१७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


राजोवाच-
वर्णितं मे त्वया साधो माहात्म्यं बदरीभवम्
यं निशम्य मनो याति मम निर्मलतां मुने ॥१॥
एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम्
सकलं मुनिशार्दूलचतुवर्गप्रदायकम् ॥२॥
भुवि नातः परं तीर्थं वतिरश्चातमपि मुक्तिदम्
श्रेष्ठं सकलपापघ्नं दर्शनादेव नारद ॥३॥
एतदंतर्गतस्यास्य हरिद्वारस्य नारद
माहात्म्यं श्रोतुमिच्छामि त्वत्तः संतोषकारकात् ॥४॥
मामुद्धर मुने दीनमविद्याकामकर्म्मभिः
वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ॥५॥
नारद उवाच-
आकर्णय महाभाग वर्णयामि तवाग्रतः
हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ॥६॥
अत्रैकः श्वपचः पापः यथास्वर्गतिमाप्तवान्
तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो ॥७॥
धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतः
श्वपचः पापकर्म्मा वै वसति स्म पुराद्बहिः ॥८॥
पंचषड्वर्षदेशीयान्बालान्नगरवासिनाम्
प्रसह्य वंचयित्वा च वने नीत्वा जघान सः ॥९॥
तेषामलंकारमयं रजतं हेमवन्नृपः
रत्नादिकं च कायस्थं हत्वा तान्जगृहेऽधमः ॥१०॥
विवेश साधुनिलये रात्रौ धनजिहीर्षया
पथिकान्धनमालक्ष्य स जघ्ने निर्जनं वने ॥११॥
कुरुक्षेत्रे समायाता एकदा रविपर्वणि
नानादिग्भ्यो जना राजन्नानादान जिहीर्षया ॥१२॥
तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपते
दानं दत्त्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः ॥१३॥
एकः कश्चिद्विशां श्रेष्ठो धनेन महता यतः
पश्चात्सर्वजनेभ्यस्तु चचाल स्वगृहंप्रति ॥१४॥
अश्ववारः पदातीनां विंशतिं पुरतो दधत्
कालिगः स महापापस्तमनुप्रस्थितः श्रियै ॥१५॥
कतिचिद्वसतीर्गत्वा सह तेन विशाधमः
सॐऽत्यजस्तद्धनं हर्तुं न लेभे समयं नृप ॥१६॥
बलेनापि गृहीतुं न क्षमोऽभूत्तस्य सश्रियम्
वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः ॥१७॥
अत्रागतः स पापात्मा वैश्यस्यार्थेन पार्थिव
निशीथे शिबिरं तस्य धनं हर्त्तुं समाविशत् ॥१८॥
एकेन तस्य वैश्यस्य जनेन स तु लक्षितः
प्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् ॥१९॥
तमालक्ष्य समीपस्थं स जनः प्रहरप्रदः
उभयोः पादयोराजन्स्वपन्नेव गृहीतवान् ॥२०॥
तौ गृहीत्वा जनानन्यान्बोधयन्प्रहरप्रदः
हस्तेनैव तु पापेन चौरेणाघातितो हि सः ॥२१॥
श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदा
गृहीतारं पुनर्हत्वा सहसा स पलायितः ॥२२॥
एकेन केनचिद्राजन्सेवकेन धनुर्भृता
दूरादेव शरेणाशु धावन्स निहतोऽधमः ॥२३॥
हतमात्रः शरेणाशु तत्याज स च जीवितम्
चौरेण निहतौ राजन्वैश्यस्यानुचरावुभौ ॥२४॥
ते त्रयो वरयानानि गणानीतानि भूपते
समारुह्य दिविस्थित्वा वैश्यमेतद्बभाषिरे ॥२५॥
कालिगवैश्यानुचरा ऊचुः
भो भो वैश्यपते साधो तीर्थमेतदनुत्तमम्
इंद्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि ॥२६॥
वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपि
गच्छामस्त्रिदिवं वैश्य सांप्रतं शिवमस्तु ते ॥२७॥
श्रीनारद उवाच-
इत्युक्त्वा ते ययुः स्वर्गं शिवे शिवकृतां पदम्
यत्रेच्छया हि लभ्यंते भोग्यवस्तून्यनेकशः ॥२८॥
अथ रात्रौ व्यतीतायां प्रातरत्र विशांवरः
स्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् ॥२९॥
तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभो
स्वर्गात्पुनरिहायातौ तं वैश्यमिदमूचतुः ॥३०॥
भृत्या ऊचतुः
भो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुवि
पापानामपि जंतूनां स्वर्गप्राप्तिर्न संशयः ॥३१॥
स्थले मृतस्य जंतोश्चेत्पतंत्यस्थीनि वारिणि
तीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिर्भवेत् ॥३२॥
स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणि
संप्राप्ता ब्रह्मणो लोके स्थितिराब्रह्मसंस्थिते ॥३३॥
स्थले मृतस्य चौरस्यापेतुरस्थीनिनांबुनि
यतोऽत स विशांनाथ तस्थौ वृंदारकालये ॥३४॥
तस्यापि देहमन्विष्य तीर्थेस्मिन्नाशु पातय
यथासोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् ॥३५॥
उपकारः सदाकार्यः परेषामपि साधुभिः
अपकारो न मंतव्यः कृतो भृशमसज्जनैः ॥३६॥
नारद उवाच-
इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रति
हरिद्वारस्य तीर्थस्य सलिलेनास्थिपातनात् ॥३७॥
स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम्
दग्धुमन्वेषयामास न लब्धं तत्तु भूपते ॥३८॥
पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ
हरिद्वारे महाराज स सस्नाविति वांच्छया ॥३९॥
अहमुत्पाद्य सत्पुत्रान्धर्म्मार्जितधनेन च
संतोष्य विप्रान्बंधूंश्च विष्णुमाराध्य सेवया ॥४०॥
त्वय्येव मरणं प्राप्य गच्छामि हरिमंदिरम्
तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ॥४१॥
इति कामनया राजन्स वैश्यस्तत्र कामदे
तीर्थे स्नात्वा गतः सर्वैर्भृत्य्स्वं समगाद्गृहम् ॥४२॥
तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान्
धर्मोपार्जितवित्तेन तोषयामास बांधवान् ॥४३॥
भक्त्या परमया राजन्नाराध्य कमलापतिम्
तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुंठमाप्नुयात् ॥४४॥
इति वै वर्णितो राजंस्तीर्थस्य महिमा तव
हरिद्वारस्य पुण्यस्य श्रवणेऽस्य फलं शृणु ॥४५॥
तिलद्रोणस्य दानेन माघे यत्फलमाप्नुयात्
जनस्तत्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु ॥४६॥
गोपीचंदन दानेन ब्रह्मपत्रेषु भोजनात्
यत्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके ॥४७॥
जागरे च प्रबोधिन्यां प्रहरे पश्चिमे नृप
यत्फलंन्तन्महिम्नोऽस्य तीर्थस्याकर्णनाद्भवेत् ॥४८॥
हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वै
न तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् ॥४९॥
इतिं श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहाम्त्ये हरिद्वारवर्णनंनाम सप्ताधिकद्विशततमोऽध्यायः ॥२१७॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP