संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १७४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १७४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १७४ Translation - भाषांतर महादेव उवाचशृणु देवि प्रवक्ष्यामि व्रतं त्रैलोक्यदुर्लभम्यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात् ॥१॥उत्पतिः स्वप्रकाशस्य भक्तानां सुखहेतवेतिथिर्वापि समासो वै संजातः पुण्यकारकः ॥२॥यस्य नाम गृणन्देवि मुक्तिं लभति शाश्वतीम्स एव परमात्मा च कारणानां च कारणम् ॥३॥विश्वात्मा विश्वरूपी च सर्वेषां भगवान्प्रभुःद्वादशार्का धृता येन नृसिंहेन महात्मनास एव प्रकटीजातो भक्तानां शमभीप्सया ॥४॥पार्वत्युवाचअवतारा ह्यसंख्याताः कथिताः सुरसत्तमनृसिंहाख्यं परं धाम वद विश्वेश्वर प्रभोयेन विज्ञानमात्रेण सुख लोकमवाप्नुयात् ॥५॥महादेव उवाचहिरण्यकशिपुं हत्वा देवदेवं जगद्गुरुम्सुखासीनं तदुत्संगे स्थितो वचनमब्रवीत् ॥६॥प्रह्लादो ज्ञानिनां श्रेष्ठः पितॄहंतारमुत्तमम् ॥७॥प्रह्लाद उवाचनमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणेत्वद्भक्तोहं सुरश्रेष्ठ त्वां पृच्छामि च तत्वतः ॥८॥स्वामिंस्त्वयि ममाभिन्ना भक्तिर्जाता ह्यनेकधाकथं तेऽहं प्रियो जातः कारणं वद मे प्रभो ॥९॥नृसिंह उवाचकथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसःभक्तेर्यत्कारणं वत्स प्रियत्वस्य च यत्पुनः ॥१०॥पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान्नाम्ना तु वसुदेवो हि वेश्यायामति लंपटः ॥११॥तस्मिन्जन्मनि नैवं च चकार सुकृतं कियत्भुक्त्वा मधु घृतं चैव वेश्यासंगमलालसः ॥१२॥मद्व्रतस्य प्रभावेन भक्तिर्जाता तवानघप्रह्लादोवाचविस्तराद्वद देवेश कस्य पुत्रस्य किं व्रतम् ॥१३॥वेश्यायां वर्तमानेन कथंचिद्धि कृतं मयाममोपरि कृपां कृत्वा सर्वं कथय सांप्रतम् ॥१४॥नृसिंह उवाचसृष्ट्यर्थं तु पुरा ब्रह्मा चक्रे ह्येतदनुत्तमम्मद्व्रतस्य प्रभावेन निर्मितं सचराचरम् ॥१५॥ईश्वरेण व्रतं चीर्णं वधार्थं त्रिपुरस्यचव्रतस्यास्यप्रभावेन त्रिपुरस्तु निपातितः ॥१६॥अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैःराजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम् ॥१७॥व्रतस्यास्य प्रभावेन सर्वे सिद्धिमवाप्नुयुःमम ते वै प्रिया जाता दिवि भोगाननेकशः ॥१८॥भुक्त्वा मयि विलीनास्तु प्रह्लाद त्वं विशस्व माम्कार्यार्थमवतारस्ते मच्छरीरत्पृथग्यतः ॥१९॥न तेषां पुनरावृत्तिर्महाकल्पशतैरपिदरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी ॥२०॥ततः कामी लभेत्कामं राज्यार्थी राज्यमुत्तमम्आयुष्कामो लभेदायुर्यादृशं च शिवस्य हि ॥२१॥अवैधव्यकरं स्त्रीणां पुत्रदं भाग्यदं तथाधनधान्यकरं चैव तथाशोकविनाशनम् ॥२२॥स्त्रियो वा पुरुषा वापि कुर्वंति व्रतमुत्तमम्तेभ्यो ददाम्यहं सौख्यं भुक्ति मुक्ति फलं तथा ॥२३॥बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हिमद्व्रतस्य फलं वक्तुं नाहं शक्तो न शंकरः ॥२४॥प्रह्लाद उवाचभगवंस्त्वत्प्रसादेन श्रुतं व्रतमनुत्तमम्व्रतस्यास्य फलं श्रोतुं त्वयि मे भक्ति कारणम् ॥२५॥अधुना श्रोतुमिच्छामि व्रतस्यास्य विधिं परम्कस्मिन्मासे भवेदेव कस्मिंश्चिद्वासरे प्रभो ॥२६॥एतद्विस्तरतो देव वक्तुमर्हसि सांप्रतम्विधिना येन वै स्वामिन्समग्रफलभाग्भवेत् ॥२७॥नृसिंह उवाचप्रह्लाद वत्स भद्रं ते शृणुष्वैकमना व्रतम्वैशाखेसित पक्षे तु चतुर्दश्यां समाचरेत् ॥२८॥ममाविर्भावसंयुक्तं मम संतुष्टिकारणम्शृणु पुत्र ममोत्पत्तिं भक्तानां सुखहेतवे ॥२९॥पश्चिमायां दिशायां च संजातं कारणांतरात्मौलिस्तानमिदं क्षेत्रं पवित्रं पापनाशनम् ॥३०॥तस्मिन्क्षेत्रे तु विख्यातो ब्राह्मणो वेदपारगःहारीत इति नाम्ना च ज्ञानध्यानपरायणः ॥३१॥तस्य स्त्री तु महापुण्या सतीरूपा सदा प्रभोलीलावती तु नाम्ना च भर्तुर्वशपरा सदा ॥३२॥ताभ्यां तपो महत्तप्तं कालं बहुतरं सुतएकविंशयुगाश्चैव यातास्तत्र न संशयःतस्मिन्क्षेत्रे तु वै ताभ्यां प्रत्यक्षो वाभवत्तदा ॥३३॥नृसिंह उवाचयं यं वांछयसे ब्रह्मंस्तं ददामि न संशयःताभ्यामुक्तं तदा तस्मै दीयते चेद्वरो मम ॥३४॥त्वादृशो मम पुत्रस्तु ह्यधुनैव भवत्वितिमयोक्तं तु तदा वत्स पुत्रोऽहं ते न संशयः ॥३५॥विश्वकर्मा ह्यहं साक्षात्परमात्मा परात्परःउदरेऽहं न वत्स्यामि यतोऽहं वै सनातनः ॥३६॥हारीतेन तदा चोक्तं भवत्वेवं न संशयःतदाप्रभृति वै क्षेत्रे स्थितोऽहं भक्तकारणात् ॥३७॥अत्रागत्य प्रकुर्वीत दर्शनं भक्तसत्तमःतस्याहं सकलां बाधां नाशयामि निरंतरम् ॥३८॥एतस्मात्कारणाच्चैव व्रतं वै विधिपूर्वकम्ये कुर्वंति नरश्रेष्ठा न तेषां विद्यते भयम् ॥३९॥बालरूपमयं ध्यात्वा ताभ्यां सह विशेषतःपूजनं कुरुते रात्रौ स वै नारायणो भवेत् ॥४०॥चतुर्भुजं महादंष्ट्रं कालरूपं दुरासदम्सूर्यकोटिप्रतीकाशं यमकोटिदुरासदम्सिंहवच्च मुखं यस्य नरवच्चांगसंयुतम् ॥४१॥श्रीनृसिंहं दिव्यसिंहं कालरूपं भजेत्सदाएवं ज्ञात्वा विशेषेण यः स्थानं मामकं व्रजेत् ॥४२॥व्रतं पवित्रं परमं श्रीकदंब प्रदं महत्अंते मुक्तिप्रदं चैव भक्तानां च न संशयः ॥४३॥येन वै क्रियमाणेन सहस्रद्वादशी फलम्स्वाती नक्षत्र संयोगे शनिवारे तु मद्व्रतम् ॥४४॥सिद्धियोगस्य संयोगे वणिजे करणे तथायोगैः सर्वैश्च संयोगं हत्याकोटि विनाशनम् ॥४५॥एतदन्यतरैर्योगे मद्दिनं पापनाशनम्विज्ञाय मद्दिनं यस्तु लंघयेत्स तु पापकृत् ॥४६॥अकर्त्ता नरकं याति यावच्चंद्र दिवाकरौप्राप्ते मम दिने वत्स दंतधावनपूर्वकम् ॥४७॥ममाग्रे व्रतसंकल्पं मद्भक्तो विजितेंद्रियःअद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय ॥४८॥व्रतस्थेन न कर्त्तव्यं दुष्टसंभाषणादिकम्ततो मध्याह्नसमये नद्यादौ विमले जले ॥४९॥गृहे वा देवखाते वा तडागे वाथ शोभनेवैदिकेन तु मंत्रेण स्नानं कुर्याद्विचक्षणः ॥५०॥मृत्तिका गोमयेनैव तथा धात्रीफलेन चतिलैश्च विधिवत्स्नायात्सर्वपापौघ शांतये ॥५१॥परिधाय शुभे वस्त्रे नित्यकर्म समारभेत्ततो गृहं विलिप्याथ कुर्यादष्टदलं शुभम् ॥५२॥कलशं तत्र संस्थाप्य ताम्रंत्रसमन्वितम्तस्योपरि न्यसेत्पात्रं तंडुलैः परिपूरितम् ॥५३॥हैमीं च तत्र मन्मूर्ति स्थाप्य लक्ष्म्या समन्विताम्निर्माय शक्त्या स्वर्णेन स्नाप्य पंचामृतैस्ततः ॥५४॥ततो ब्राह्मणमाहूय आचार्यं नातिलोलुपम्शास्त्रज्ञमग्रतः कृत्वा ततो देवं समर्चयेत् ॥५५॥मंडपं कारयेत्तत्र पुष्पस्तबक शोभितम्ऋतुकालोद्भवैः पुष्पैः पूज्योऽहं च यथाविधि ॥५६॥उपचारैः षोडशभिर्मंत्रैर्नियमैश्च यःततः पौराणिकैर्मंत्रैः पूजनीयो विशेषतः ॥५७॥चंदनं च सकर्पूरं घनकुंकुममिश्रितम्कालोद्भवानि पुष्पाणि तथा तुलसीदलानि च ॥५८॥श्रीनृसिंहाय यो दद्यात्स मुक्तो नात्र संशयःकृष्णागुरुमयं धूपं सर्वदा हरिवल्लभम् ॥५९॥हरये गुरवे दद्यात्सर्वकामार्थसिद्धयेमहादीपः प्रकर्त्तव्यो ह्यज्ञानध्वांत नाशनःमहानीराजनं कुर्याद्घंटानाद पुरःसरम् ॥६०॥नैवेद्यं शर्करां चापि भक्ष्यभौज्यसमन्वितम्ददामि ते रमाकांत सर्वपापक्षयं कुरु ॥६१॥नैवेद्य मंत्रनृसिंहाच्युत देवेश तव जन्मदिने शुभेउपवासं करिष्यामि सर्वभोगविवर्जितः ॥६२॥तेन प्रीतो भव स्वामिन्पापं जन्म निराकुरुरात्रौ जागरणं कार्यं गीतवादित्र निःस्वनैः ॥६३॥पुराणपठनं नित्यं श्रीनृसिंकथाश्रयम्ततः प्रभातसमये स्नानं कृत्वा ह्यनंतरम् ॥६४॥पूर्वोक्तेन विधानेन पूजयेन्मां प्रतर्पयन्वैष्णवं कारयेच्छ्राद्धं मदग्रे स्वस्थमानसः ॥६५॥ततो दानानि देयानि वक्ष्यमाणानि यान्युतपात्रेभ्यः स द्विजेभ्यो हि लोकद्वय जिगीषया ॥६६॥सहस्वर्णमयो देवो मम संतोषकारकःगोभूतिलहिरण्यादि प्रददाति द्विजातये ॥६७॥शय्या सतूलिका देया सप्तधान्यसमन्विताअन्यानि च यथाशक्त्या देयानि निजशक्तितः ॥६८॥वित्तशाठ्यं न कुर्वीत यथोक्तफलकांक्षयाब्राह्मणान्भोजयेत्पश्चात्तेभ्यो दद्यात्सुदक्षिणाम् ॥६९॥निर्धनैरपि कर्त्तव्यं देयं शक्त्यनुसारतःसर्वेषामेव वर्णानामधिकारोऽस्ति मद्व्रतेमद्भक्तैस्तु विशेषेण कर्त्तव्यं मत्परायणैः ॥७०॥ततः प्रार्थना मंत्रःमद्वंशे येन राजा ता ये भविष्याश्च मानवाःतानुद्धरस्व देवेश दुःखदाद्भवसागरात् ॥७१॥पातकार्णवमग्नस्य व्याधिभिश्चांबुचारिभिःजीवैस्तु परिभूतस्य महादुःखगतस्य मे ॥७२॥करावलंबनं देहि शेषशायी जगत्पतेव्रतेनानेन देवेश भुक्तिमुक्तिप्रदो भव ॥७३॥एवं प्रार्थ्य ततो देवं विसृज्य च यथाविधिउपहारादिकं सर्वे आचार्याय निवेदयेत् ॥७४॥दक्षिणाभिश्च संतोष्या ब्राह्मणांश्च विसर्जयेत्मम ध्यान समायुक्तो भुंजीत सह बंधुभिः ॥७५॥अकिंचनोपि नियतमुपोष्यति चतुर्दशीम्सप्त जन्म कृतात्पापान्मुच्यते नात्र संशयः ॥७६॥य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम्तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति ॥७७॥पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवःसर्वकामानवाप्नोति व्रतस्यास्य फलं सदा ॥७८॥य इदं कुरुते शक्त्या काले मध्याह्न संज्ञकेलीलावत्या सह ऋषिं श्रीनृसिंह प्रसादतः ॥७९॥पूजयेत्परया भक्त्या मुक्तिं प्राप्नोति शाश्वतीम्तस्मिन्क्षेत्रे तु यो गत्वा श्रीनृसिंहं प्रपूजयेत् ॥८०॥वांच्छितं लभते नित्यं श्रीनृसिंह प्रसादतःश्रीनृसिंह महद्रूप कालकोटिदुरासद ॥८१॥भैरवेश हरार्तिघ्न बालरूप नमोस्तु तेश्रीनृसिंहाय रूपाय बालाय बालरूपिणे ॥८२॥व्यापकाय सुनंदाय स्वात्मप्रकट रूपिणेसर्वजीवात्मकायैव विश्वेशाय स्वरात्मने ॥८३॥मार्तंड मंडलस्थाय दयासिंधो नमोस्तु तेचतुर्विंशस्वरूपाय कालरुद्राग्निरूपिणे ॥८४॥जगदेकस्वरूपाय नृसिंहाय नमोस्तु तेभाले दधार यो देवो नृसिंहो वीरभद्र जित् ॥८५॥द्वादशादित्यबिंबानि सुतप्तानि प्रमाणतःतत्र सिंधु महापुण्या नदी रम्या विशेषतः ॥८६॥तस्याः समीपे नगरं वर्त्ततेऽद्यापि सुंदरिमौलिस्तानेति विख्यातं सर्वदा देवनिर्मितम् ॥८७॥वसतिर्वर्त्तते तत्र हारीतस्य महात्मनःलीलावती तु तत्रैव तिष्ठते नात्र संशयः ॥८८॥प्रतिशब्दो भवेत्तत्र सिंधुनद्याः समीपतःकलौ युगे तु संप्राप्ते म्लेच्छा वै पापचारिणः ॥८९॥निवसंति तु तत्रैव बहवो नात्र संशयःनृसिंहजन्मनि यथा शब्दोऽभूदद्भुतः परः ॥९०॥नृसिंहेति नृसिंहेति य उच्चैर्नदते नरःतादृशः प्रतिशब्दो वै जायते नगनंदिनि ॥९१॥ब्रह्महा हेमहारी वा सुरापो गुरुतल्पगःसिंधौ गत्वा विशेषेण स्नानं कुर्वंति ये जनाः ॥९२॥मुच्यते नात्र संदेहः श्रीनृसिंह प्रसादतःदशारात्रिप्रमाणेन मानवा ये वसंति हि ॥९३॥ते ज्ञेयाः पुण्यकर्माणो नासत्यं मामकं वचःनिवसंति कलौ तत्र वर्णा ये द्विजपूर्वकाः ॥९४॥म्लेच्छवत्तेऽपि विज्ञेया वेदबाह्याः सुरोत्तमैःमांसं खादंति ते तत्र मद्यपानं पपुः सदा ॥९५॥अतो ह्यधर्मरूपास्ते पापिष्ठा नात्र संशयःसंध्याहीना यथा विप्रा वेदबाह्यास्तथैव च ॥९६॥निवसंति पुरे तस्मिन्पश्चिमायां सुरेश्वरिएकमेव परं तीर्थं नृसिंहाख्यं सुविस्तरम्यं श्रुत्वा मुच्यते पापान्नरः सद्यो न संशयः ॥९७॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे नृसिंहोत्पत्तिर्नाम चतुःसप्तत्यधिकशततमोऽध्यायः ॥१७४॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP