संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|

उत्तरखण्डः - अध्यायः ११०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


धर्मदत्त उवाच
जयश्च विजयश्चैव विष्णोर्द्वास्थौ मया श्रुतौ
किंतु ताभ्यां पुरा चीर्णं यस्मात्तद्रूपधारिणौ ॥१॥
गणावूचतुः
तृणबिंदोस्तु कन्यायां देवहूत्यां पुरा द्विज
कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ संबभूवतुः ॥२॥
ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चेति नामतः
अन्यस्यामभवत्पश्चात्कपिलो योगधर्मवित् ॥३॥
जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा
संनियम्येंद्रियग्रामं धर्मशीलौ बभूवतुः ॥४॥
नित्यमष्टाक्षरी जाप्यौ विष्णुव्रतकरावुभौ
साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा ॥५॥
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि
जग्मतुर्यज्ञकुशलौ देवर्षिगणसेवितौ ॥६॥
जयस्तत्राभवद्ब्रह्मा याजको विजयोऽभवत्
ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः ॥७॥
मरुतोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु
तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ॥८॥
यजनाय तदा विष्णोस्तुष्ट्यर्थं तौ तदा मुने
तद्धनं विभजंतो वै पस्पर्द्धाते परस्परम् ॥९॥
जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः
विजयश्चाब्रवीत्तत्र यल्लब्धं येन तस्य तत् ॥१०॥
ततो जयोऽशपत्क्रोधाद्विजयं क्षुब्धमानसः
गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम् ॥११॥
विजयस्तस्य तं शापं श्रुत्वा सोऽप्यशपच्च तम्
मदभ्रांतोशपद्यस्मात्तस्मान्मातंगतां व्रज ॥१२॥
तौ तथा चख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम्
शापयोस्तुनिवृत्तिं तौ ययाचाते रमापतिम् ॥१३॥
भक्तावावां कथं देव ग्राहमांतगयोनिगौ
भविष्यावः कृपासिंधो तच्छापो विनिवर्त्यताम् ॥१४॥
श्रीभगवानुवाच
मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति
मयापि नान्यथा कर्तुं शक्यते तत्कदाचन ॥१५॥
प्रह्लादवचनात्स्तंभऽप्याविर्भूतो ह्यहं पुरा
तथांबरीषवाक्येन जातो मार्गे स्वयं किल ॥१६॥
तस्माद्ध्रुवमिमौ शापावनुभूय स्वयंकृतौ
लभेतां मत्पदं नित्यमित्युक्त्वांतर्दधे हरिः ॥१७॥
गणावूचतुः
ततस्तौ ग्राहमातंगा बभूतां गंडकी तटे
जातिस्मरौ च तद्योन्यामपि विष्णुव्रते स्थितौ ॥१८॥
कदाचित्स गजः स्नातुं कार्तिके गंडकीं गतः
तावज्जग्राह च ग्राहः संस्मरञ्छापकारणम् ॥१९॥
ग्राहगृहीतोऽसौ नागः संस्मार श्रीपतिं तदा
तावदाविरभूद्विष्णुः शंखचक्रगदाधरः ॥२०॥
तॄतस्तौ ग्राहमातंगौ चक्रं क्षिप्त्वा समुद्धृतौ
दत्त्वा च निजसारूप्यं वैकुंठमनयद्विभुः ॥२१॥
तदाप्रभृति तत्स्थानं हरिक्षेत्रमिति श्रुतम्
चक्रसंघर्षणाद्यस्मिन्पाषाणोऽपि हि लांछितः ॥२२॥
ताविमौ विश्रुतौ लोके जयश्च विजयश्च ह
नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज ॥२३॥
अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः
त्यक्तमात्सर्यदंभो हि भव स्वसमदर्शनः ॥२४॥
तुलामकरमेषेषु प्रातःस्नायी सदा भव
एकादशीव्रते तिष्ठ तुलसीवनपालकः ॥२५॥
ब्राह्मणानपि गाश्चापि वैष्णवांश्च सदा भज
मसूराश्चारनालाश्च वृंताकानपि खाद मा ॥२६॥
एवं त्वमपि देहांते तद्विष्णोः परमं पदम्
प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् ॥२७॥
तवाजन्मव्रतात्तस्माद्विष्णुसंतुष्टिकारकात्
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ॥२८॥
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः
यत्पुण्यभागाप्तफलं मुरारेः प्रणीयतेस्माभिरियं सलोकताम् ॥२९॥
नारद उवाच
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ
तया कलहया सार्द्धं वैकुंठभवनं गतौ ॥३०॥
धर्मदत्तोप्यसौ जातप्रत्ययस्तद्व्रते स्थितः
देहांते तद्विभोः स्थानं भार्याभ्यामन्वितोऽभ्यगात् ॥३१॥
इतिहासमिमं पुराभवं शृणुते यश्च पुमान्यथाविधि
हरिसंनिधिकारिणीं मतिं लभतेऽसौ कृपया जगद्गुरोः ॥३२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तर
खण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने गणपूर्वपुण्यवर्णनोनाम दशाधिशततमोऽध्यायः ॥११०॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP