संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १६३

उत्तरखण्डः - अध्यायः १६३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
तीर्थानां प्रवरं तीर्थं महापातकनाशनम्
गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः ॥१॥
यानि कानि च पापानि ब्रह्महत्या समानि च
गोतीर्थे तु ततः स्नात्वा नश्यंते नात्र संशयः ॥२॥
गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः
यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः ॥३॥
तत्र तीर्थे नरः स्नात्त्वा दत्वा गोभ्यो गवाह्निकम्
गोमातॄणां प्रसादेन मातॄणामनृणी भवेत् ॥४॥
गोतीर्थे तु नरो गत्वा स्नात्वा गां तु पयस्विनीम्
ददाति विप्रमुख्येभ्यः स याति ब्रह्मणः पदम् ॥५॥

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर खंडे
साभ्रमतीमाहात्म्ये गोतीर्थंनाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥१६३॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP