संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २४६ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २४६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २४६ Translation - भाषांतर श्रीमहेश्वर उवाच-अथोपनयनं नाम चकारानकदुंदुभिःपुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः ॥१॥आचार्येण हि गर्गेण संस्कृतौ रामकेशवौपंडितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः ॥२॥कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौसांदीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः ॥३॥अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुंगवात्मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ॥४॥आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनःतस्मै प्रणम्य मथुरां जग्मतुर्यदुपुंगवौ ॥५॥अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम्श्वशुरस्तस्य नृपतेर्जरासंधो महाबलः ॥६॥अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैःकृष्णं हंतुं समागत्य रुरोध मथुरां पुरीम् ॥७॥रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात्गजवाजिसमाकीर्णं तद्बलौघमपश्यताम् ॥८॥सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम्तस्य स्मरणमात्रेण दारुको विष्णुसारथिः ॥९॥सुग्रीवपुष्पकं नाम समानीय महारथम्वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् ॥१०॥दिव्यायुधैरुपेतं तं शंखचक्रगदादिभिःवैनतेयपताकेन शोभितं देवदुर्जयम् ॥११॥अवनीं प्राप्य गोविंदं प्रणम्य हरिसारथिःप्रददौ स्यंदनं शुभ्रं सायुधाश्वसमन्वितम् ॥१२॥दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम्आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः ॥१३॥चतुर्भुजं वपुर्भूत्वा शंखचक्रगदासिभृत्किरीटी कुंडली स्रग्वी संग्रामाभिमुखं ययौ ॥१४॥बलदेवोऽपि मुशलं लांगलं गृह्य वीर्यवान्तत्सैन्यं हंतुमारेभे महेश्वर इवापरः ॥१५॥दारुकश्च रथं शीघ्रं नोदयामास तद्रणेतृणगुल्मलताक्रांते काननेऽग्निमिवानिलः ॥१६॥ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथातद्रथं छादयामासुर्जरासंधस्य सैनिकाः ॥१७॥चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलयाबहूनि तृणकाष्ठानि महावह्निरिवार्चिषा ॥१८॥ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैःचिच्छेद तानि सैन्यानि न प्राज्ञायत किंचन ॥१९॥चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाःगदया चूर्णिताः केचित्केचिदन्यैर्महारणे ॥२०॥केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताःलांगलाग्रहतग्रीवा मुशलाहतमस्तकाः ॥२१॥क्षणेन तद्बलं सर्वं निहत्य मधुसूदनःशंखं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम् ॥२२॥शंखरावविनिर्भिन्नहृदयास्ते महाबलाःयोधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः ॥२३॥अक्षौहिणीसहस्रं तु साश्वं सरथकुंजरम्कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् ॥२४॥निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणाततो देवगणाः सर्वे हर्षनिर्भरचेतसः ॥२५॥ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन्सर्वमप्यवनीभारं विमुच्य धरणीधरः ॥२६॥संस्तूयमानस्त्रिदशैर्बभौ संग्राममूर्द्धनिनिहतं स्वबलं दृष्ट्वा जरासंधोऽतिवीर्यवान् ॥२७॥योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिःतयोर्युद्धमभूद्धोरं संग्रामेष्वनिवर्तिनोः ॥२८॥रामो लांगलमादाय रथं तस्य ससारथिम्विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् ॥२९॥उद्यम्य मुशलं तूर्णं तं हंतुमुपचक्रमेप्राणसंशयमापन्नं जरासंधं नृपोत्तमम् ॥३०॥कृतं रामेण बलिना सिंहेनेव महागजम्दृष्ट्वा कृष्णोग्रजं प्राह न हंतव्य इति प्रभुः ॥३१॥मोचयामास धर्मात्मा जरासंधं महामतिःविमुच्य कृष्णवाक्येन शत्रुं संकर्षणोऽव्ययः ॥३२॥सानुजो रथमारुह्य मथुरां प्रविवेश हस कालयवनं प्राप्य महावीर्यं बलान्वितम् ॥३३॥पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम्दानवानां वधं चैव कंसस्य निधनं तथा ॥३४॥अक्षौहिणीनां च वधं तथा स्वस्य पराजयम्सर्वं निवेदयामास कृष्णस्य चरितं महत् ॥३५॥तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैःम्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः ॥३६॥मगधाधिपतेस्तस्य सहायार्थं महाबलःतेनैव सहितस्तूर्णं जगाम मथुरां पुरीम् ॥३७॥बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम्संनिवेश्य महासैन्यं रुरोध मथुरां पुरीम् ॥३८॥कृष्णोऽपि चिंतयित्वाऽथ पौराणां कुशलं तदाययाचे सागरं भूमिं निवासार्थं जनस्य च ॥३९॥त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरःअसृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम् ॥४०॥बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम्नानामणिमयैर्दिव्यैर्गृहपंक्तिभिरावृताम् ॥४१॥उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम्असृजत्पुंडरीकाक्षो यथेंद्रस्यामरावतीम् ॥४२॥सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनःउद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत् ॥४३॥प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताःहेमहर्म्यतलेविष्टा विस्मयं परमं ययुः ॥४४॥बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैःपरिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः ॥४५॥तस्मिन्प्रहृष्टाः संतस्थुर्दिवि देवगणा इवयवनेन तदा योद्धुं रामकृष्णौ महाबलौ ॥४६॥विनिर्ययतुरात्मेशौ मथुराया बहिस्तदारामो लांगलमादाय मुशलं च महारथः ॥४७॥जघान समरे क्रुद्धो यवनानां महद्बलम्कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ॥४८॥निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतःनिहतं स्वबलं दृष्ट्वा स कालयवनो बली ॥४९॥युयुधे वासुदेवेन गदया यवनेश्वरःकृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ॥५०॥ विमुखः प्राद्रवत्तस्मात्संग्रामात्कमलेक्षणःसोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन् ॥५१॥वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिःतत्र प्रसुप्तो राजाऽसौ मुचुकुंदो महामुनिः ॥५२॥अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिःयवनोऽपि महावीरो गदामुद्यम्य पाणिना ॥५३॥कृष्णं हंतु समारब्धो गुहां तां प्रविवेश हदृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ॥५४॥पादेन ताडयामास मुचुकुंदं महामुनिम्ततः प्रबुद्धो भगवान्मुचुकुंदो महामुनिः ॥५५॥क्रोधात्संरक्तनयनो हुंकारं कृतवानसौतस्य हुंकारशब्देन तथा क्रोधनिरीक्षणात् ॥५६॥निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितःततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः ॥५७॥नीलोत्पलदलश्यामः पुंडरीकनिभेक्षणःशंखचक्रगदापाणिः पीतवासा जनार्दनः ॥५८॥दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम्अहोभाग्यमहोभाग्यमित्युवाच महामुनिः ॥५९॥पुलकांकितसर्वांगः सानंदाश्रुजलाकुलःस्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ॥६०॥मुचुकुंद उवाच-धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वरअद्य मे सफलं जन्म जीवितं सफलं मम ॥६१॥नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणेदामोदराय देवाय तेजसां निधये नमः ॥६२॥अधोक्षजाय हरये नृसिंहवपुषे नमःराघवाय नमस्तुभ्यं पुंडरीकेक्षणाय च ॥६३॥अच्युतायाविकाराय तथानंताय ते नमःगोविंदाय नमस्तुभ्यं विष्णवे जिष्णवे नमः ॥६४॥नारायणाय श्रीशाय कृष्णाय परमात्मनेमुकुंदाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥६५॥नमः परमकल्याण नमस्ते परमात्मनेवासुदेवाय शांताय यदूनां पतये नमः ॥६६॥महेश्वर उवाच-एवं स्तुत्वा तु गोविंदं प्रणनाम पुनः पुनःसंतुष्टो भगवान्प्राह मुचुकुंदं महामुनिम् ॥६७॥श्रीभगवानुवाच-वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्ततेमहेश्वर उवाच-सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् ॥६८॥तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम्राजा तु मानुषं रूपं विहायाथ महामतिः ॥६९॥समानं रूपमास्थाय देवस्य परमात्मनःवैनतेयं समारुह्य शाश्वतं पदमाविशत् ॥७०॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमाहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुंदमोक्षोनाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४६॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP