संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ६९ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ६९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ६९ Translation - भाषांतर नारद उवाच-उपवासासमर्थानां सदैवामरसत्तमएका या द्वादशी पुण्या तां वदस्व ममानघ ॥१॥शिव उवाच-मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्वितासा वै सर्वप्रदा पुण्या ह्युपवासे महाफला ॥२॥संगमे सरितः स्नात्वा द्वादशीं तामुपोषितःअयत्नात्समवाप्नोति द्वादश द्वादशीफलम् ॥३॥बुधश्रवणसंयुक्ता या च वै द्वादशी भवेत्अतीव महती तस्यां कृतं सर्वमथाक्षयम् ॥४॥द्वादशी श्रवणोपेता यदा भवति नारदसंगमे सरितां स्नात्वा लभेद्गोदानजं फलम् ॥५॥जलपूर्णं तदा कुंभं स्थापयित्वा विचक्षणःतस्योपरि न्यसेत्पात्रं स्थापयित्वा जनार्दनम् ॥६॥ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम्सोदकांश्च नवान्कुंभान्दद्याच्छक्त्या विचक्षणः ॥७॥एवं संपूज्य गोविंदं जागरं तत्र कारयेत्प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम् ॥८॥पुष्पधूपादि नैवेद्यैः फलैर्वस्त्रैः सुशोभनैःपुष्पांजलिं ततो दद्यान्मंत्रमेनमुदीरयेत् ॥९॥नमो नमस्ते गोविंद बुधश्रवणसंयुतअघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥१०॥अन्नं तु ब्राह्मणे पूतं वेदवेदांगपारगेपुराणज्ञे विशेषेण विधिवत्संप्रदापयेत् ॥११॥अनेन विधिना चैव नद्यास्तीरे नरोत्तमःसर्वं निर्वर्त्तयेत्सम्यगेकचित्तरतोऽपि सन् ॥१२॥अत्राप्युदाहरंतीममितिहासं पुरातनम्महत्यरण्ये यद्वृतं भूमिदेव शृणुष्व तत् ॥१३॥यं श्रुत्वा मानवो लोके महादुःखात्प्रमुच्यतेदेशो दासरको नाम तस्य भागे च पश्चिमे ॥१४॥तत्र विद्वन्मरुर्देशः सर्वसत्वभयंकरःसुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः ॥१५॥अल्पच्छायाद्रुमाकीर्णा मृतप्राणिसमाकुलाशमीखदिरपालाशकरीरैः पीलुभिः सह ॥१६॥तत्र भीमा द्रुमगणाः कंटकैरचिता दृढैःजग्धप्राणजनाकीर्णा यत्र भूर्दृश्यते क्वचित् ॥१७॥तथापि जीवा जीवंति सर्वे कर्मनिबंधनात्नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः ॥१८॥पक्षांतरगतैः कैश्चिच्छिशुभिस्तृषितैः समम्उत्क्रांतजीविनो विप्र दृश्यंते नु खगोत्तमाः ॥१९॥तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक्निजसार्थपरिभ्रष्टः प्रविष्टो मरुजांगले ॥२०॥बभ्रामोद्भ्रांतहृदयः क्षुत्तृट्भ्यां श्रमपीडितःक्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध ह ॥२१॥अथ प्रेतान्ददर्शासौ क्षुत्तृषाव्याकुलेंद्रियान्उत्कटान्खलिनो भीमान्निर्मांसान्रौद्रदर्शनान् ॥२२॥प्रेतस्कंधसमारूढमेकं विकृतदर्शनम्ददर्श बहुभिः प्रेतैः समंतात्परिवारितम् ॥२३॥अगच्छमानमत्युग्रं प्रेतशब्दपुरःसरम्प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम् ॥२४॥प्रेतस्कंधान्महीं गत्वा तस्यांतिकमुपागमत्प्रणिपत्य वणिक्श्रेष्ठमिदं वचनमब्रवीत् ॥२५॥अस्मिन्घोरतरे देशे प्रवेशो भवतः कथम्तमुवाच वणिक्धीमान्सार्थभ्रष्टस्य मे वने ॥२६॥प्रवेशो दैवयोगेन पूर्वकर्मकृतेन चतृषा मे बाधतेऽत्यर्थं क्षुधा चैव भृशं तथा ॥२७॥प्राणांतिकमनुप्राप्तं वचनं भ्रमतीव मेअत्रोपायं न पश्यामि जीवेयं येन केनचित् ॥२८॥इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत्फुल्लां शमीं समाश्रित्य प्रतीक्ष त्वं मुहूर्त्तकम् ॥२९॥कृतातिथ्यो मया पश्चाद्गमिष्यसि यथासुखम्एवमुक्तस्तथा चक्रे स वणिक्तृष्णयार्दितः ॥३०॥मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागतःफुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमाम् ॥३१॥दध्योदनसमायुक्तां वर्द्धमानेन संयुताम्अवतीर्य ततः स्वन्नं प्रादादतिथये तदा ॥३२॥स तत्राशनमात्रेण परं तृप्तित्वमागतःवितृष्णो विज्वरश्चैव क्षणेन समपद्यत ॥३३॥ततश्च प्रेताः संप्राप्ताः सोऽस्माद्भागं क्रमाद्ददौदध्योदनात्सपानीयात्प्रेतास्तृप्तिं परां गताः ॥३४॥अतिथिं तर्पयित्वा तु प्रेतलोकं च सर्वतःततः स्वयं स बुभुजे भुक्तशेषं यथासुखम् ॥३५॥तस्य भुक्तवतः स्वन्नं पानीयं च क्षयं ययौप्रेताधिपं ततस्तं वै वणिग्वचनमब्रवीत् ॥३६॥आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मेअन्नं पानं च परमं संप्राप्तं च कुतस्तव ॥३७॥स्वल्पेनैव तथान्नेन त्वमेतांस्तु बहूनपिअतर्पयः कथं त्वेते निर्मांसा भिन्नकुक्षयः ॥३८॥कथमस्यां सुघोरायामटव्यां च कृतालयाःतदेतत्संशयं छिंधि परं कौतूहलं मम ॥३९॥एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत्वाणिज्यसक्तस्य पुरा जन्मातीते ममानघ ॥४०॥सकले नगरे नास्ति ममान्यो हि दुरात्मकःधनलोभान्न कस्यापि दत्ता भिक्षा मया तदा ॥४१॥सखा चैव ततश्चासीद्ब्राह्मणो गुणवान्ममश्रावणद्वादशीयोगे मासि भाद्रपदे ततः ॥४२॥स कदाचिन्मया सार्द्धं तापीं नाम नदीं ययौतस्याश्च संगमः पुण्यो यत्रासीच्चंद्रभागया ॥४३॥चंद्रभागा चंद्रसुता तापी चैवार्कनंदिनीतयोः शीतोष्णसलिले प्रविवेश स ह द्विजः ॥४४॥श्रवणद्वादशीयोगे नराश्च समुपोषिताःचंद्रभागा सुतो येन वारिधानीं ददुर्द्विजे ॥४५॥दध्योदनयुतां सार्द्धं संपूर्णैर्वर्द्धमानकैःछत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः ॥४६॥प्रददौ विप्रमुख्येभ्यो हरस्याग्रे महामतेवित्तसंरक्षणार्थाय तस्यास्तीरे व्रते मया ॥४७॥सोपवासेन दत्तैका वारिधानी मनोरमातत्कृत्वाहं गृहं प्राप्तः ततः कालेन केनचित् ॥४८॥पंचत्त्वमहमासाद्य नास्तिक्यात्प्रेततां गतःअस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा ॥४९॥श्रवणद्वादशीयोगे वारिधान्यर्पिता मयासेयं मध्याह्नसमये लभ्यते च दिनेदिने ॥५०॥ब्रह्मस्वरूपिणः सर्वे पापाः प्रेतत्वमागताःपरदारगताः केचित्स्वामिद्रोहरताश्च ये ॥५१॥भूतप्रेतजरूपेण ते जाता ह्यत्र मानवाःदेशे मरुस्थले त्वस्मिन्ममैते मित्रतां गताः ॥५२॥अक्षयो भगवान्विष्णुः परमात्मा सनातनःदीयते यत्समुद्दिश्य ह्यक्षयं तत्प्रकीर्तनम् ॥५३॥अक्षयेनापि चान्नेन तृप्ता एते पुनः पुनःप्रेतत्वभावं दौर्बल्यं न विमुंचति कर्हिचित् ॥५४॥पूजयित्वाहमन्नैस्त्वामतिथिं समुपस्थितम्प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम् ॥५५॥मया विहीनाः किंत्वेते वनेऽस्मिन्भृशदारुणेपीडामनुभविष्यंति दारुणां कर्मयोनिजाम् ॥५६॥एतेषां तु महाभाग ममानुग्रहकाम्ययाप्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च ॥५७॥अस्ति कक्षागता चैव तव संपुटिका शुभाहिमवंतमथासाद्य तत्र त्वं लप्स्यसे निधिम् ॥५८॥गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामतेइत्याज्ञाप्य स वै प्रेतो वणिजं च यथासुखम् ॥५९॥विसर्जयामास तदा स वै प्रायात्समुत्सुकःसमासाद्य गृहं तत्र पश्चात्प्रायाद्धिमालयम् ॥६०॥ततो दृष्टं निधिं तत्र गृहीत्वा स समागतःषष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात् ॥६१॥तत्र गत्वा गयायां स श्राद्धं कृत्वा महामतिःप्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग्विधानतः ॥६२॥प्रत्येकं नामगोत्राणि गृहीत्वा पिंडमुत्सृजत्यस्य यस्य भवेच्छ्राद्धं स करोति दिने वणिक् ॥६३॥स स तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम्ब्रवीति च महाभाग प्रसादाद्भवतोऽनघ ॥६४॥प्रेतभावं मया त्यक्तं प्राप्तोऽस्मि परमां गतिम्एवं कृत्वा विधानेन गयाशीर्षं महामनाः ॥६५॥पश्चाज्जगाम स्वगृहं विष्णुं ध्यायन्पुनः पुनःमासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः ॥६६॥श्रवणद्वादशीयोगे संगमे सरितां पुनःजगाम स महाबुद्धिः सर्वोपस्करसंयुतः ॥६७॥संगमे सरितां स्नात्वा द्वादशीं तामुपोषितःतत्र स्नात्वापि दत्त्वा तु पूजयित्वा जनार्दनम् ॥६८॥अनंतरं ब्राह्मणस्य ह्युपहारांस्तदा ददौशास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः ॥६९॥निवर्त्तयामास तदा वणिजो बुद्धिमान्स वैवर्षेवर्षे तु संप्राप्ते मासि भाद्रपदे तथा ॥७०॥श्रवणद्वादशीयोगे संगमे सरितां पुनःएवं वै कृतवान्सर्वं विष्णुमुद्दिश्य सत्वरम् ॥७१॥कालेन चातिमहता पंचत्वं समुपागतःअवाप परमं स्थानं दुर्लभं सर्वमानवैः ॥७२॥क्रीडतेऽद्यापि वैकुंठे विष्णुदूतैः स सेवितःएवं कुरु त्वं भो ब्रह्मन्श्रवणद्वादशीव्रतम् ॥७३॥सर्वसौभाग्यदं चैव इह लोके परत्र चसुबुद्धिजननं चैव सर्वपापहरं परम् ॥७४॥श्रवणद्वादशीयोगे यः कुर्याद्व्रतमीदृशम्व्रतस्यास्य प्रभावेन विष्णुलोकं च गच्छति ॥७५॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे श्रवणद्वादशीव्रतनामैकोनसप्ततितमोऽध्यायः ॥६९॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP