संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|

उत्तरखण्डः - अध्यायः २२०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
शिवस्यतीर्थराजस्य प्रयागस्य तवाग्रतः
महिमानं महापुण्यं श्रद्धया वर्णयामि ते ॥१॥
विश्वावसुर्महीपाल गंधर्वो लोकविश्रुतः
एकदा स गतो गातुं सुमेरौ ब्रह्मणः सभाम् ॥२॥
तत्र सर्वैः सुरश्रेष्ठमुपविष्टं सुविष्टरे
जुष्टं सुरगणैर्भूप विश्वावसुरवैक्षत ॥३॥
ब्रह्मासनसमीपे तु वरासनगतं नृप
द्वितीयमिव लोकेशमिंद्रप्रस्थं स एक्षत ॥४॥
सुरराजतीर्थराजौ ब्रह्मेंद्रप्रस्थयोर्नृप
चामरोद्धूननं मूर्ध्नि कुर्वंतौ स ददर्श ह ॥५॥
अन्यानि देवतीर्थानि तयोर्दूरे महीपते
स्थितानि तेन दृष्टानि बद्धांजलिपुटानि तु ॥६॥
तयोरग्रे जगौ राजन्गांधर्वं रागमुत्तमम्
तीर्थैः सममगात्सत्यलोकं देवान्विसृज्य हि ॥७॥
अथ विश्वावसुर्द्धीमान्दृष्ट्वा तीर्थस्य वैभवम्
इंद्रप्रस्थस्य राजेंद्र हाहामेतदुवाच ह ॥८॥
विश्वावसुरुवाच-
भोभो गंधर्वशार्दूल तीर्थमेतन्महाद्भुतम्
इंद्रप्रस्थाख्यमेतस्मिन्संसारे तीर्थराशिषु ॥९॥
चराचरगुरुर्ब्रह्मा सुरवंद्य पदांबुजः
तस्यासनसमीपस्थं यदतिष्ठ समासनम् ॥१०॥
तीर्थराजोऽपि पृष्ठस्थश्चामरं यस्य मस्तके
अधुना भृत्यवज्जातस्तीर्थेष्वन्येषु का कथा ॥११॥
पृथिव्यां यानि तीर्थानि त्रिवर्गफलदानि तु
इंद्रप्रस्थमिदं तीर्थं चतुर्वर्गफलप्रदम् ॥१२॥
अत्र स्थितानि तीर्थानि तादृशानि गुणैर्ध्रुवः
शेषेनापि न शक्यंते स्तोतुं तेषां महागुणाः ॥१३॥
नारद उवाच-
एवं विश्वावसुर्धीमान्दृष्ट्वेंद्रप्रस्थवैभवम्
गत्वा तस्य गृहं राजन्पावनं सर्वकामदम् ॥१४॥
यथा देवेषु सर्वेषु शक्रः श्रेष्ठः शचीपतिः
तस्माद्ब्रह्मा च तीर्थेषु प्रयागोऽयं तथा वरः ॥१५॥
तस्मादपि महाराज शक्रप्रस्थमिदं वरम्
अस्यांतरगतो योऽयं प्रयागो नृप दृश्यते ॥१६॥
कथयाम्यत्र यद्वृत्तं मोहिन्याः पण्ययोषितः
नर्मदासरितस्तीरे पुरी माहिष्मती नृप ॥१७॥
मोहिनीनाम तत्रासीद्वेश्या बहुधनान्विता
रूपयौवनसंपन्ना निष्णाता नृत्यगीतयोः ॥१८॥
तया बहूनि पापानि कृतानि धनलुब्धया
ब्रह्महत्याः कृताः सप्त दास्यश्च बहवो हताः ॥१९॥
तासां च पातिता गर्भाः बहुशः पापया तया
एवं तया सुतारुण्यं गमितं पापकर्मभिः ॥२०॥
ततो जरा कियत्काले तद्देहे समपद्यत
जराग्रस्तशरीरा सा निवृत्तविषयस्पृहा ॥२१॥
न चक्रे मानसं यूनां ते च तां पतिभूपते
पापार्जितं धनं स्वीयं न विश्वसिति कस्यचित् ॥२२॥
न दत्ते न स्वयं भुंक्ते न निक्षिपति वै क्वचित्
एकदा सा निशीथे तु विबुध्येति विचिंतयत् ॥२३॥
मृतायां मयि कस्येदं धनं पापैरुपार्जितम्
तं नयिष्यति मां घोरं नरकं भृशदारुणम् ॥२४॥
दास्यस्तासां च भर्त्तारस्तद्भोक्ष्यंति धनं मम
मयैव सद्गतिस्तस्य कथं न क्रियतेऽधुना ॥२५॥
एवं विचिंत्य सा धर्मे विधाय मतिमुत्तमाम्
चकारारामसरसि वापीकूपसुरालयान् ॥२६॥
अभितः पुरमाधत्ते प्रपाः पथिकहेतवे
निदाघे च महाराज तेभ्योऽन्नं प्रददौ च सा ॥२७॥
धर्मशालां गृहाभ्याशे निवासाय विदेशिनाम्
विदधे सा पुनस्तेभ्यो ददावाहारमुत्तमम् ॥२८॥
एवं प्रवर्त्तमाना हि धर्मे सा भूपमोहिनी
ज्वरातुराभवत्काले क्वचिच्चेति विचिंतयत् ॥२९॥
धर्मार्थे हि मया वित्तं व्ययितं भूरि यद्यपि
तथापि स्वर्णरूप्यादि प्रचुरं वर्त्तते परम् ॥३०॥
श्रोत्रियेभ्यो ददाम्येतज्ज्ञानेनेति व्यचिंतयत्
विचिंत्येति समाहूता मोहिन्या नगरद्विजाः ॥३१॥
नागतास्ते महीपाल ज्ञात्वा घोरं प्रतिग्रहम्
यदा तदा द्विभागं च चक्रे तत्तु धनं स्वकम् ॥३२॥
एको भागस्तु दासीनां दत्तोन्यश्च विदेशिनाम्
स्वयं तु निर्द्धना राजन्नभवत्सा तु मोहिनी ॥३३॥
तथा समागतं मृत्युं विज्ञायांतिकमंतिके
मुक्त्वा दास्यो धनं नीत्वा यथेष्टगतयोऽभवत् ॥३४॥
इति मत्वा यदा ह्येषा ज्वरमुक्ता भविष्यति
तदानीं यद्धनं दत्तं नूनमादास्यते हि तत् ॥३५॥
अथ सा लंघनान्यष्टादशकृत्वा महीपते
निजायुषस्तु शेषेण ज्वरमुक्ता तदाभवत् ॥३६॥
एका जरद्गवानाम सखी तस्या महीपते
सा तामुपचचाराशु पथ्यादिभिरतंद्रिता ॥३७॥
कियद्भिर्वासरैः सा तु पूर्णाहारा व्यजायत
तस्या जरद्गवायास्तु गृहे भुक्तं स्म लज्जया ॥३८॥
मया स्थितं सुखेनात्र दुःखमद्य समागतम्
दारिद्र्यान्न मया स्थेयं सचिंत्येति गतान्यतः ॥३९॥
गच्छती सा वने राजन्मोहिनी पुरतस्करैः
इति मत्वा विनिहता गृहीत्वा यात्यसौ धनम् ॥४०॥
धनमप्राप्य तैस्तस्याः सकाशात्पुरतस्करैः
श्वसती सा परित्यक्ता तस्मिन्नेव वने नृप ॥४१॥
अथ वैखानसः कश्चित्प्रयागस्यास्य वै जलम्
बिभ्रत्कमंडलौ राजन्नत्रारण्ये समाययौ ॥४२॥
अथ तां पतितां वीक्ष्य शस्त्रविक्षतविग्रहाम्
याचमानामिदं राजन् जीवनं हस्तसंज्ञया ॥४३॥
वैखानस उवाच-
का त्वं केन शितैः शस्त्रैः सक्षतीकृतविग्रहा
एकाकिनी किमर्थं वा निर्जनारण्यमागता ॥४४॥
इंद्रप्रस्थगतस्येदं प्रयागस्य जले शुभे
भाग्योदयेन केनापि प्रापितं प्रियकाम्यया ॥४५॥
इत्युक्ता तेन सा वक्तुमक्षमा व्याददे मुखम्
पातुं तद्वारिमहिषी भवेयमिति वांछया ॥४६॥
अथैतस्य प्रयागस्य पातितेंबुनि तन्मुखे
तत्याज जीवितं सा तु मोहिनीगणिका नृप ॥४७॥
प्राणप्रयाणकाले तु महिषीत्वं च वांच्छयत्
अतः सा महिषी जाता द्राविडे वीरवर्मणः ॥४८॥
संभूय केरलाधीश गृहे तीर्थांबुपानतः
कुलशीलधनैश्वर्यसंयुक्तस्य महीपते ॥४९॥
हेमगौरं ततः सांगं बभार कमलेक्षणा
अतस्तस्य पिता नाम हेमांगीति चकार ह ॥५०॥
एकदा सा तु हेमांगी हेमाभरणभूषिता
कलायाः स्ववयस्याया मंत्रिपुत्र्या गृहं ययौ ॥५१॥
तत्र यावकतैलेन स्नापिता भोजिता च सा
विविधान्नैस्तदा राजन्निविष्टा वरविष्टरे ॥५२॥
पुष्पोद्ग्रथित धमिल्ला क्षामक्षौमविभूषिता
कलां प्रोवाच दधती मुखे तांबूलवीटिकाम् ॥५३॥
हेमांग्युवाच -
कले कलय मे वाक्यं कोकिलाकलभाषिणि
गृहे यदद्भुतं वस्तु तव मामभिदर्शय ॥५४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये इंद्रप्रस्थवर्णनोनाम विंशाधिकद्विशततमोऽध्यायः ॥२२०॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP