संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २४१ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २४१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २४१ Translation - भाषांतर ईश्वर उवाच-भृगुपुत्रो महानासीज्जमदग्निर्द्विजोत्तमःसमस्तवेदवेदांगपारगश्च महातपाः ॥१॥तपस्तेपे सुधर्मात्मा महेंद्रं प्रति भामिनिसहस्रवर्षपर्य्यंतं गंगायाः पुलिने शुभे ॥२॥ततः प्रसन्नः प्राहेदं भगवान्पाकशासनःइंद्र उवाच-वरं वृणीष्व विप्रेंद्र यत्ते मनसि वर्त्तते ॥३॥ईश्वर उवाच-ततः प्रोवाच विप्रर्षिः परितुष्टं शतक्रतुम्जमदग्निरुवाच-सुरभिं देहि मे देव सर्वकामदुघां सदा ॥४॥ईश्वर उवाच-ततः प्रसन्नो देवेशस्तस्मै विप्राय गोत्रभित्प्रददौ सुरभिं देवीं सर्वकामदुघां तदा ॥५॥स लब्ध्वा सुरभीं देवीं जमदग्निर्महातपाःउवास महदैश्वर्यः शतक्रतुरिवापरः ॥६॥रेणुकस्य सुतां रम्यां रेणुकां नामनामतःउपयेमे विधानेन जमदग्निर्महातपाः ॥७॥तया सह स धर्मात्मा रेमे वर्षाण्यनेकशःपौलोम्या शुभया देव्या यथा संक्रन्दनो विभुः ॥८॥ततः स पुत्रकामत्वादिष्टिं चक्रे सुधार्म्मिकःइष्ट्या संतोषयामास पाकशासनमीश्वरम् ॥९॥परितुष्टः शचीभर्त्ता तस्मै पुत्रं महाबलम्महौजसं महाबाहुं सर्वशत्रुप्रतापनम् ॥१०॥अथ कालेन विप्रेंद्रो रेणुकायां शुचिस्मितेपुत्रमुत्पादयामास महावीर्य्यं बलान्वितम् ॥११॥विष्णोरंशांशभागेन सर्वलक्षणलक्षिणम्तस्मिन्सुते महावीर्य्ये भृगुस्तस्य पितामहः ॥१२॥नाम चास्मै ददौ हर्षाद्विष्णोरंशोपलक्षितम्चक्रेऽथ नामधेयं तु राम इत्यस्य शोभनम् ॥१३॥जमदग्नेः समुत्पन्नो जामदग्न्य इतीरितःतद्भार्गवान्वयः सोऽपि ववृधे द्विजपुंगवः ॥१४॥उपनीतं स्तुतो येन सर्वविद्याविशारदःतपस्तप्तुं जगामाथ शालग्रामाचलं प्रति ॥१५॥ददर्श कश्यपं तत्र ब्रह्मर्षिममितौजसम्हर्षेण पूरितस्तस्मिन्मरीचितनयो द्विजः ॥१६॥विधिना प्रददौ तस्मै मंत्रं वैष्णवमव्ययम्लब्धमंत्रस्तदा रामं कश्यपात्तु महात्मनः ॥१७॥पूजयामास विधिना स तदा कमलापतिम्षडक्षरं महामंत्रं जपन्नेव दिवानिशम् ॥१८॥ध्यायन्कमलपत्राक्षं विष्णुं सर्वगतं हरिम्तपस्तेपे स धर्मात्मा बहुवर्षाणि भार्गवः ॥१९॥जितेंद्रियस्तु यतवाक्तदा तस्थौ महातपाःजमदग्निस्तु विप्रर्षिः स्थितो गंगातटे शुभे ॥२०॥चकार विधिवद्धर्म्यं यज्ञदानादिकं महत्धेन्वाः प्रसादादिंद्रस्य संपूर्णास्तस्य सम्पदः ॥२१॥कस्यचित्त्वथकालस्य हैहयाधिपतिः प्रभुःविजित्वा सर्वराष्ट्राणि सर्वसैन्यसमावृतः ॥२२॥भार्गवस्याश्रमं प्राप्य जमदग्नेर्महीपतिःसमीक्ष्य तं महाभागं ववंदे मुनिसत्तमम् ॥२३॥पृष्ट्वा तु कुशलं तस्य महर्षेर्भावितात्मनःप्रददौ नृपतिस्तस्मै वस्त्राण्याभरणानि च ॥२४॥स च संपूजयामास राजानं गृहमागतम्मधुपर्केण विधिना पूजयित्वा नृपोत्तमम् ॥२५॥ससैन्याय नृपेंद्राय भोजनं प्रददौ मुनिःप्रार्थिता सुरभिस्तेन भार्गवेण सुधीमता ॥२६॥संपूर्णमन्नपानादि ससर्ज शबला तदाअक्षय्यमन्नपानादि तया सृष्टं महातपाः ॥२७॥ससैन्याय नृपेंद्राय प्रददौ मुनिसत्तमःतां दृष्ट्वा शबलां राजा कुतूहलसमन्वितः ॥२८॥स्पृहां चकारयामास तस्यां गवि सुदुर्म्मतिःअयाचत्सुरभिं तत्र जमदग्निं नृपोत्तमः ॥२९॥कार्त्तवीर्य उवाच-शबलां देहि मे विप्र कपिलां सर्वकामदाम्अन्यधेनुसहस्राणि दास्यामि तव सुव्रत ॥३०॥ईश्वर उवाच-इत्युक्तस्तेन राज्ञाथ जमदग्निर्महातपाःजमदग्निरुवाच-न देया शबला राजन्मया तव महीपते ॥३१॥इयं च देवदेवेन शक्रेण परिपालितादेवतानां धनं राजन्दातव्यं स्यात्कथं मया ॥३२॥ईश्वर उवाच-इत्युक्तः स तदा राजा क्रोधेन कलुषीकृतःबलाज्जग्राह शबलां सर्वसैन्यसमावृतः ॥३३॥ततः क्रुद्धा महाभागा शबला वरवर्णिनिजघान तस्य सैन्यानि शृंगैः खुरतलैरपि ॥३४॥घातयित्वा मुहूर्त्तेन तत्सैन्यं शबला बलात्अंतर्द्धानं गता देवी ययौ शक्रांतिकं क्षणात् ॥३५॥स्वसैन्यं निहतं दृष्ट्वा सोऽर्जुनः क्रोधमूर्च्छितःमुष्टिना ताडयामास भार्गवं द्विजसत्तमम् ॥३६॥ताडितस्तेन बहुशो विकलांगः प्रकल्पितःपपात सहसा भूमौ ममार द्विजसत्तमः ॥३७॥हत्वा मुनिवरं तत्र पापत्मा हैहयाधिपःमहासैन्यपरीवारो विवेश नगरं स्वकम् ॥३८॥रामस्तु देवदेवेशं पूजयामास भार्गवःतेन संपूजितो देवः प्रसन्नः प्राह केशवः ॥३९॥श्रीभगवानुवाच-प्रीतोस्मि तपसा वत्स भवतो नियतात्मनःसंप्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम् ॥४०॥आवेशितोऽथ मच्छक्त्या जहि दुष्टान्नृपोत्तमान्भूभारकविनाशाय देवतानां हिताय वै ॥४१॥ईश्वर उवाच-इत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्षणम्वैष्णवं च महच्चापं दिव्यान्यस्त्राण्यनेकशःदत्वा प्रोवाच भगवाञ्जामदग्निं जनार्द्दनः ॥४२॥श्रीभगवानुवाच-मदोत्कटान्नृपान्हत्वा बहुशः परवीरहागृहाण पृथिवीं सर्वां सागरान्तां द्विजोत्तम ॥४३॥पालयस्व च धर्मेण वीर्य्येण महता वृतःकालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ॥४४॥ईश्वर उवाच-इत्युक्त्वांतर्हितो देवो वरं दत्वा द्विजन्मनेरामोऽपि चाथ सहसा प्रययौ पितुराश्रमम् ॥४५॥पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्च्छितःनिष्क्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलाम् ॥४६॥जगाम हैहयपतेर्नगरं नृपसंवृतम्क्रोधावेशज्वलद्गात्रो द्वार्य्यतिष्ठदुदायुधः ॥४७॥तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजसम्जाज्वल्यमानं वपुषा कालाग्निमिव मेनिरे ॥४८॥भयार्ता विद्रुताः सर्वे राजानं हैहयाधिपम्शशंसुस्तं महासत्वं सर्वायुधसमन्वितम् ॥४९॥श्रुत्वा स राजा तद्वाक्यं प्राह विस्मितचेतसाहैहयाधिप उवाच-कोऽसौ मम पुरद्वारि सायुधः संस्थितो बलात् ॥५०॥महेंद्रो वा यमो वापि रुद्रो वा धनदोऽपि वासायुधो मत्पुरद्वारि स्थातुं शक्तो न कर्हिचित् ॥५१॥महादेव उवाच-इत्युक्त्वा पार्थिवेंद्रो ऽसौ किंकरान्सुमहाबलान्प्रेरयामास तं द्रष्टुं गृह्णीतेत्याह दुर्मतिः ॥५२॥ते गत्वा ददृशुर्वीरं पुरद्वारि महाबलम्ज्वलंतमिव कालाग्निं दुर्निरीक्ष्यं स्वतेजसा ॥५३॥तस्य संदर्शनेऽप्यत्र न शक्तास्ते महाबलाःग्रहीतुकामस्तं वीरं समंतात्प्रययुर्भृशम् ॥५४॥तान्दृष्ट्वा सायुधान्सर्वान्पार्थिवेन्द्रस्य किंकरान्प्रहसन्प्राह विप्रेन्द्रो जामदग्निर्महाबलः ॥५५॥परशुराम उवाच-भार्गवस्य सुतो रामः संप्राप्तोऽहं नराधमाःस्वपितुर्निधनात्सर्वान्हनिष्यामि नृपोत्तमान् ॥५६॥कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुतम्दास्यामि पिण्डदानं च तच्छिरः कमलेन वै ॥५७॥महादेव उवाच-इत्युक्तास्ते महावीर्य्याः किंकरास्तस्य भूपतेःशरैः स्म ताडयामासुः पलालैरिव पावकम् ॥५८॥ततः क्रुद्धो महावीर्यो रामस्सत्यपराक्रमःवैष्णवं चापमाकृष्य ज्यानिनादमथाकरोत् ॥५९॥तेन नादेन महता पूरितं भुवनत्रयम्देवानामपि संत्रासो बभूव महदद्भुतम् ॥६०ततः पावकसंकाशैराशुगैः सुमहाबलःताडयामास तान्वीरान्किंकरान्वै महाबलान् ॥६१॥हत्वा तु किंकरास्तस्य पार्थिवस्य महात्मनःकालाग्निरिव संतस्थौ सर्वभूतभयंकरः ॥६२॥श्रुत्वा तु किंकरान्स्वस्य हतान्रामेण धीमताहैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः ॥६३॥निर्य्ययौ सहसैन्येन यत्रास्ते भागवोऽव्ययःतं दृष्ट्वा घोरसंकाशं ज्वलंतं स्वेन तेजसा ॥६४॥त्रस्ताः सर्वे जनास्तत्र शंकमाना जनक्षयम्ततो युद्धं महाघोरं रामस्य नृपतेस्तदा ॥६५॥शस्त्रास्त्रपातनैर्भीमैर्मेघयोरिव वर्षतोःततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा ॥६६॥निर्ददाह क्षणात्सर्वं वैष्णवास्त्रेण लीलयाततः परशुना रामस्तीक्ष्णेनामितविक्रमः ॥६७॥चिच्छेद बाहुसाहस्रं कार्त्तवीर्यस्य दुर्मतेःन शशाक महावीर्यो योद्धुं रामेण भूपतिः ॥६८॥नष्टवीर्य्यो बभूवात्र पापेन स्वेन दुर्म्मतिःचिच्छेद तच्छिरः क्रुद्धो रेणुकातनयो बली ॥६९॥महाद्रिशृड्गंवज्रेण यथा देवपतिर्बलीहत्वा सहस्रबाहुं तं जामदग्न्यः प्रतापवान् ॥७०॥जघान पार्थिवान्सर्वान्क्रुद्धः परशुना मृधेरामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले ॥७१॥भयार्त्ता विद्रुताः सर्वे मातंगा इव केसरिम्विद्रुतानपि भूपालान्पितुर्निधनमन्युना ॥७२॥जघान भार्गवः क्रुद्धो नागानिव खगेश्वरःनिःक्षत्रं कृतवान्सर्वं जामदग्निः प्रतापवान् ॥७३॥ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम्मातामहस्यान्वयत्वाद्रेणुकावचनादथ ॥७४॥तान्भ्रष्टराज्यान्कृत्वा वै मातामहकुलोद्भवान्न हत्वा मनुवंशांस्तान्रामो नृपकुलांतकः ॥७५॥सर्वं तु भूभृतां वंशं नाशयामास वीर्य्यवान्कृत्वा चोर्वीं तु निःक्षत्रां जमदग्निसुतो बली ॥७६॥अश्वमेधं महायज्ञं चकार विधिवद्द्विजःप्रददौ विप्रमुख्येभ्यः सप्तद्वीपवतीं महीम् ॥७७॥दत्वा महीं स विप्रेभ्यो जामदग्न्यः प्रतापवान्तपस्तप्तुं ययौ सोऽथ नरनारायणाश्रमम् ॥७८॥एतत्ते कथितं देवि जामदग्नेर्महात्मनःशक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥७९॥नोपास्यं हि भवेत्तस्य शक्त्यावेशान्महात्मनःउपास्यौ भगवद्भक्तैर्विप्रमुख्यैर्महात्मभिः ॥८०॥रामकृष्णावतारौ तु परिपूर्णौ हि सद्गुणैःउपास्यमानावृषिभिरपवर्गप्रदौ नृणाम् ॥८१॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे परशुरामचरितंनामैकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४१॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP