संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ६७

उत्तरखण्डः - अध्यायः ६७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महेश्वर उवाच-
इति श्रुतं धर्ममुखान्मुद्गलो द्विजसत्तमः
कथयित्वा ममाग्रे वै गतो यादृच्छिको मुने ॥१॥
गोपिकाचंदनं यत्र तिष्ठते वै द्विजोत्तम
तद्गृहं तीर्थरूपं च विष्णुना भाषितं किल ॥२॥
शोकमोहौ न तत्रास्तां न भवत्यशुभं क्वचित्
गोपिकाचंदनं यस्य तिष्ठति द्विजसद्मनि ॥३॥
सुखिनः पूर्वजास्तेषां संततिर्वर्द्धते सदा
गोपिकाचंदनं यस्य वर्त्ततेऽहर्निशं गृहे ॥४॥
गोपीपुष्करजा मृत्स्ना पवित्रा कायशोधिनी
उद्वर्त्तनाद्विनश्यंति व्याधयो ह्याधयश्च ये ॥५॥
अतो देहे धृतं पुंभिर्मुक्तिदं सर्वकामिकम्
तावद्गर्जंति तीर्थानि तावत्क्षेत्राणि सर्वदा ॥६॥
गोपिकाचंदनं यावन्न दृष्टं न श्रुतं द्विज
इदं ध्येयमिदं पूज्यं मलदोषविनाशनम् ॥७॥
यस्य संस्पर्शनादेव पूतो भवति मानवः
अंतकाले तु मर्त्यानां मुक्तिदं पावनं परम् ॥८॥
किं वदामि द्विजश्रेष्ठ मुक्तिदं गोपिचंदनम्
विष्णोस्तु तुलसीकाष्ठं तथा वै मूलमृत्तिका ॥९॥
गोपिकाचंदनं चैव तथा वै हरिचंदनम्
चत्वारि ह्येतानि संमील्य अंगमुद्वर्तयेत्सुधीः ॥१०॥
तेन तीर्थं कृतं सर्वं जंबूद्वीपेषु सर्वदा
तिलकं कुरुते यस्तु गोपिकाचंदनद्रवैः ॥११॥
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
पितुः श्राद्धादिकं तेन गयां गत्वा तु वै कृतम् ॥१२॥
येन वा पुरुषेणापि विधृतं गोपिचंदनम्
मद्यपो ब्रह्महा चैव गोघ्नो वा बालहा तथा
मुच्यते तत्क्षणादेव गोपीचंदनधारणात् ॥१३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे गोपीचंदनमाहात्म्ये सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP