उत्तरखण्डः - अध्यायः ७९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच-
अपामार्जनकं दिव्यं परमाद्भुतमेव च
पठितव्यं विशेषेण पुत्रकामार्थसिद्धये ॥१॥
एतत्स्तोत्रं पठेत्प्राज्ञः सर्वकामार्थसिद्धये
एककालं द्विकालं वा ये पठंति द्विजातयः ॥२॥
आयुश्च श्रीर्बलं तस्य वर्द्धयंति दिने दिने
ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा ॥३॥
वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विंदति
अन्यैश्च लभते भक्तिं पठनाच्छ्रवणाज्जपात् ॥४॥
सामवेदफलं तस्य जायते नगनन्दिनि
अखिलं पापसंघातं तत्क्षणादेव नश्यति ॥५॥
इति ज्ञात्वा तु भो देवि पठितव्यं समाहितैः
पुत्राश्चैव तथा लक्ष्मीः संपूर्णा भवति ध्रुवम् ॥६॥
लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः
इहलोके सुखं भुक्त्वा याति विष्णोः परं पदम् ॥७॥
पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेत्
सर्वं तीर्थं कृतं तेन तुलस्याः पूजने कृते ॥८॥
एतत्स्तोत्रं तु परमं वैष्णवं मुक्तिदायकम्
पृथ्वीदानसमं पाठाद्विष्णुलोकं तु गच्छति ॥९॥
जपेत्स्तोत्रं विशेषेण विष्णुलोकस्य वांछया
बालानां जीवनार्थाय पठितव्यं समाहितैः ॥१०॥
रोगग्रहाभिभूतानां बालानां शांतिकारकम्
भूत ग्रह विषं चैव पठनादेव नश्यति ॥११॥
कंठे तुलसिजां मालां धृत्वा विप्रो हि यः पठेत्
स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति ॥१२॥
कंठे माला धृता येन शंखचक्रादिचिह्नितः
वैष्णवः प्रोच्यते विप्रः स्तोत्रं चैतत्पठन्सदा ॥१३॥
इहलोकं परित्यज्य विष्णुलोकं स गच्छति
मोहमायापरित्यक्तो दंभतृष्णाविवर्जितः ॥१४॥
एतत्स्तोत्रं पठेद्दिव्यं परं निर्वाणमाप्नुयात्
ते धन्याः संति भूर्लोके ये विप्रा वैष्णवाः स्मृताः ॥१५॥
स्वात्मा वै तारितस्तैस्तु सकुलं नात्र संशयः
ते वै धन्यतमा लोके नारायणपरायणाः
तैर्भक्तिश्च सदा कार्या ते वै भागवता नराः ॥१६॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे अपामार्जनमहिमानामैकोनाशीतितमोऽध्यायः ॥७९॥
N/A
References : N/A
Last Updated : November 20, 2020
![Top](/portal/service/themes/silver/images/up.gif)
TOP