संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ११३ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ११३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ११३ Translation - भाषांतर श्रीकृष्ण उवाचपुरावंतीपुरे वासी विप्र आसीद्धनेश्वरःब्रह्मकर्मपरिभ्रष्टः पापनिष्ठः सुदुर्मतिः ॥१॥रसकंबलचर्मादि विक्रयानृतवर्त्तनःस्तेयवेश्यासुरापानद्यूतसंसक्तमानसः ॥२॥देशाद्देशांतरं गच्छन्क्रयविक्रयकारणात्माहिष्मतीं पुरीं यातः कदाचित्स धनेश्वरः ॥३॥महिषेण कृता पूर्वं तस्मान्माहिष्मतीभवत्यस्यां वप्रतटाभाति नर्मदा पापनाशिनी ॥४॥कार्तिकव्रतिनस्तत्र नानाग्रामागतान्नरान्स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास ह ॥५॥स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात्ददर्श ब्राह्मणान्स्नातान्जपदेवार्चनेरतान् ॥६॥कांश्चित्पुराणं पठतः कांश्चित्तच्छ्रवणे रतान्नृत्यगायनवादित्रविष्णुस्तवनतत्परान् ॥७॥विष्णुमुद्रांकितान्कांश्चिन्मालातुलसिधारिणःददर्श कौतुकाविष्टस्तत्र तत्र धनेश्वरः ॥८॥नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात्वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् ॥९॥एवं मासं स्थितःसोऽथ कार्तिकोद्यापने विधौक्रियमाणे ददर्शासौ भक्तैर्जागरणं हरेः ॥१०॥पौर्णमास्यां ततोऽपश्यद्विविधं पूजनादिकम्दक्षिणा भोजनाद्यं च दीपदानं व्रतस्थितैः ॥११॥ततोऽर्कास्तमये चैवं दीपोत्सवविधिं तदाक्रियमाणं ददर्शासौ प्रीत्यर्थं त्रिपुरद्विषः ॥१२॥त्रिपुराणां कृतो दाहो यतस्तस्यां शिवेन तुअतस्तु क्रियते तस्यां तिथौ भक्तैर्महोत्सवःमम रुद्रस्य यः कश्चिदंतरं परिकल्पयेत् ॥१३॥तस्य पुण्यक्रियाः सर्वा निष्फलाः स्युर्न संशयःतत्र नृत्यादिकं पश्यन्बभ्राम स धनेश्वरःतावत्कृष्णाहिना दष्टो विकलः स पपात हजनास्तंपति तं वीक्ष्य परिवव्रुः कृपान्विताः ॥१४॥तुलसीमिश्रितैस्तोयैस्तन्मुखं सिषिचुस्तदाअथ देहे परित्यक्ते तं बद्ध्वा यमकिंकराः ॥१५॥बाध्यमानं कशाघातैर्निन्युः संयमिनीं रुषाचित्रगुप्तस्तु तं दृष्ट्वा निर्भर्त्स्यावेदयत्तदा ॥१६॥यमायतेन बाल्यात्तु कर्म यद्दुष्कृतं कृतम्चित्रगुप्त उवाचनैवास्य दृश्यते किंचिदाबाल्यात्सुकृतं क्वचित् ॥१७॥दुष्कृतं शक्यते वक्तुं शतवर्षैर्न भास्करेपापमूर्तिरयं दुष्टः केवलं दृश्यते विभो ॥१८॥तस्मादाकल्पमर्यादं निरये परिपाच्यताम्श्रीकृष्ण उवाचनिशम्येत्थं वचः क्रोधाद्यमः प्राह स्वकिंकरान् ॥१९॥दर्शयन्नात्मनोरूपं कालाग्निसदृशप्रभम्यम उवाचभो प्रेतापनयस्वैनं बध्यमानं स्वमुद्गरैः ॥२०॥कुंभीपाके क्षिपस्वाशु तैलक्वथनशब्दितेयावत्क्षिप्तस्तु तत्रासौ तावच्छीतलतां ययौ ॥२१॥कुंभीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरातद्दृष्ट्वा महदादश्चर्यं प्रेतपो विस्मयान्वितः ॥२२॥वेगादागत्य तत्सर्वं यमायाकथयत्तदायमस्तु कौतुकं श्रुत्वा प्रेतपेन निवेदितम् ॥२३॥आः किमेतदिति प्रोच्य सम्यगेतद्विचारयत्तावदभ्यागतस्तत्र नारदः प्रहसंस्त्वरन् ॥२४॥यमेन पूजितः सम्यक्तं दृष्ट्वा वाक्यमब्रवीत्नारद उवाचनैवायं निरयान्भोक्तुं क्षमः सवितृनंदन ॥२५॥यस्मादेतस्य संजातं कर्म यन्निरयापहम्यः पुण्यकर्मणां कुर्याद्दर्शनस्पर्शभाषणम् ॥२६॥तत्षडंशमवाप्नोति पुण्यस्य नियतं नरःअसंख्यातैस्तुसंसर्गैः कृतवानेष यद्धरेः ॥२७॥कार्तिकव्रतिभिर्मासं तस्मात्पुण्यांशभागयम्परिचर्याकरस्तेषां संपूर्णव्रतपुण्यभाक् ॥२८॥अतोऽस्योर्जव्रतोद्भूतपुण्यसंख्या न विद्यतेकार्त्तिकव्रतिनां पुंसां पातकानि महांत्यपि ॥२९॥नाशयत्येव सर्वाणि विष्णुः सद्भक्तवत्सलःअंते तन्नामभिस्तोयैस्तुलसीमिश्रितैस्त्वयम् ॥३०॥वैष्णवानुग्रही यस्मान्नरके नैव पच्यतेतस्मान्निहतपापोऽयं सद्गतिं यातुमर्हति ॥३१॥आर्द्रैः शुष्कैर्यथापापैर्निरये भोगसंनिधिःप्राप्यते सुकृतैस्तद्वत्स्वर्गभोगस्य संनिधिः ॥३२॥तस्मादकामपुण्यो हि यक्षयोनिस्थितस्त्वसौविलोक्य नरकान्सर्वान्पापभोगमवाप्नुयात् ॥३३॥श्रीकृष्ण उवाचइत्युक्त्वा गतवति नारदेऽथ सौरिस्तद्वाक्यश्रवणविबुद्ध तत्सुकर्माविप्रं तं पुनरनयत्स्वकिंकरेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन् ॥३४॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्त्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धनेश्वरोपाख्याने त्रयोदशाधिकशततमोऽध्यायः ॥११३॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP