संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|

उत्तरखण्डः - अध्यायः ११७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच
इति सर्वं समाकर्ण्य सत्राजितसुता तदा
हरेर्वाक्यं महाभागा सत्या वचनमब्रवीत् ॥१॥
सत्योवाच
कार्तिकस्य च माहात्म्यं न श्रुतं विस्तरात्प्रभो
सर्वेषामेव मासानां कार्तिकः प्रवरः कथम् ॥२॥
श्रीकृष्ण उवाच
साधु पृष्टं त्वया सत्ये कार्तिकव्रतमादरात्
शौनकाय पुरा प्रोक्तं सूतेन सुमहात्मना ॥३॥
सूत उवाच
श्रूयतां तत्प्रवक्ष्यामि एतत्प्रश्नोत्तरं शुभम्
ईश्वरेण पुरा प्रोक्तं पृच्छते षण्मुखाय वै ॥४॥
कार्तिकेय उवाच
बहूनि पद्मनाभस्य रहस्यानि श्रुतानि च
यथा हि प्रोच्यमानानि वैष्णवेन त्वया प्रभो ॥५॥
संसारसागरे प्राप्ता दुःखोरुलहरीवृते
तेषामुत्तारणार्थाय कथयस्व प्रयत्नतः ॥६॥
कार्तिकस्य विधिश्चैव स्नानस्य वदतां वर
येन दुःखांबुधिं तात संतरिष्यंति मानवाः ॥७॥
फलं वैष्णवधर्मस्य कथयस्व सुविस्तरम्
येन धर्मप्रभावेन पदं गच्छति वैष्णवम् ॥८॥
दीपदानस्य माहात्म्यं मुनिपुष्पस्य सुव्रत
गोपीचंदनमाहात्म्यं तुलस्यास्तु तथा विभो ॥९॥
मालतीपुष्पमाहात्म्यं वारिजानां तथा वद
धात्रीफलानां माहात्म्यं तथा दमनकस्य च ॥१०॥
केतकीपुष्पमाहात्म्यं नैवेद्यस्य परंतप
तीर्थोदकस्य माहात्म्यं माघस्नानफलं विभो ॥११॥
फलं ब्रूहि सुरश्रेष्ठ ब्रह्मपत्रेषु भोजनात्
नीराजनफलं स्थाणो परदीपप्रवेधनात् ॥१२॥
पुष्करक्षेत्रमाहात्म्यं शूकरस्य तथा विभो
शालग्रामस्य माहात्म्यं स्वस्तिकस्य विधानकम् ॥१३॥
दानानां च फलं ब्रूहि परान्नस्य च वर्जनात्
मासोपवासस्य फलं खट्वाया मोक्षणाद्विभो ॥१४॥
दीपावल्याश्च माहात्म्यं प्रबोधिन्याश्च सुव्रत
पंचभीष्मस्यमाहात्म्यं कथयस्व सुविस्तरात् ॥१५॥
ईश्वर उवाच
साधु पृष्टं त्वया वत्स लोकोद्धरणहेतवे
कथयामि न संदेहस्त्वत्समो नास्ति वैष्णवः ॥१६॥
सत्पुत्रेण त्वया वत्स तारितोऽहं न संशयः
निश्चला केशवे भक्तिस्त्वयि तिष्ठति सर्वदा ॥१७॥
नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः
ससागरमही दाने तत्पुण्यं लभते हि सः ॥१८॥
कार्तिकस्य च मासस्य कोट्यंशेनापि नार्हति
एकतः सर्वतीर्थानि सर्वदानानि चैकतः ॥१९॥
एकतो गोप्रदानानि सर्वे यज्ञाः सदक्षिणाः
एकतः पुष्करे वासं कुरुक्षेत्रे हिमालये ॥२०॥
एकतो मथुरातीर्थे वाराणस्यां च शूकरे
एकतः कार्तिको वत्स सर्वदा केशवप्रियः ॥२१॥
सूत उवाच
इत्युक्त्वा मुनिशार्दूल पुनर्वाक्यं जगौ हरः
कार्तिकस्नानमाहात्म्यं कथयिष्ये सुविस्तरात् ॥२२॥
ईश्वर उवाच
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्वयम्
द्वापरं वैश्यमित्याहुः शूद्रं कलियुगं स्मृतम् ॥२३॥
कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि
तथापि कथयिष्यामि स्नानं कार्तिकमाघयोः ॥२४॥
यस्य हस्तौ च पादौ न वाङ्मनश्च सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलभाङ्नरः ॥२५॥
अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः
हेतुवादी च पंचैते न तीर्थफलभागिनः ॥२६॥
प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत्
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ॥२७॥
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिः षडानन
वायव्यं वारुणं दिव्यं ब्राह्मं चेति तथा स्मृतम् ॥२८॥
वायव्यं गोरजः स्नानं वारुणं सागरादिषु
ब्राह्म्य ब्राह्मणमंत्रोक्तं दिव्यं मेघांबु भास्करम् ॥२९॥
स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम्
ब्राह्मणः क्षत्रियो वैश्यो मंत्रवत्स्नानमाचरेत् ॥३०॥
तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव षडानन
बाला च तरुणी वृद्धा नरनारीनपुंसकाः ॥३१॥
पापैः सर्वैः प्रमुच्यंते स्नानात्कार्तिकमाघयोः
स्नाता वै कार्तिके लोकाः प्राप्नुवंतीप्सितं फलम् ॥३२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीशिवषडाननसंवादे सप्तदशाधिकशततमोऽध्यायः ॥११७॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP