संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २०२ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २०२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २०२ Translation - भाषांतर देवल उवाच-शृणुष्व भो महाप्राज्ञ दिलीपस्य महीपतेःकथां दिव्यां विचित्रां च शृणुतां पापनाशिनीम् ॥१॥वैवस्वतमनोर्वंशे दिलीपो भूभुजां वरःआसीत्प्राचीनबर्हिस्तु स्वायंभुवमनोरिव ॥२॥स तु धर्मभृतां श्रेष्ठो धर्मेण प्रतिपालयन्महीं महीपतिर्लोकान्गुणैराद्धैररंजयत् ॥३॥मगधाधिपतेः पुत्री महिषी तस्य भूपतेःसुदक्षणाख्यया ख्याता शचीवासीद्दिवस्पतेः ॥४॥गते महति काले तु महिष्यां नाभवत्सुतःदध्याविति निजस्वांते स सम्राट्कोशलाधिपः ॥५॥रत्नाकरसुमेर्वादि नगरत्नैर्विराजितम्धृतं भूवलयं दोषो भूषायै नाप्रजस्य मे ॥६॥वर्गत्रयी यथाकालं सेविता न विरोधितातथापि मेऽनपत्यस्य न सौख्यं विद्यते हृदि ॥७॥यज्ञैराराधितो विष्णुरिंद्राद्याश्च सुरोत्तमाःदीर्घिकारामकूपाश्च कारिताः सर्वतो भुवि ॥८॥गोभूहिरण्यवासोभिः षड्रसान्वितभोजनैःविप्रा अतिथयश्चैव भक्त्या संतोषिता मया ॥९॥वृत्यर्थं पृथिवीपालानुद्धृत्य युधि धर्मतःधनेन महता कोशो मया हि बहुलीकृतः ॥१०॥उन्मार्गगामिनो मत्ता निजधर्मविलंघिनःविमुखः पितृदेवेभ्यो दंड्यास्ते दंडिता मया ॥११॥पंचपर्वसु वैष्णव्यां रवौ पित्र्ये च कर्मणिदशम्यैकादशीतिथ्योर्न स्त्रीसेवा कृता मया ॥१२॥ऋतुकालावधौ स्नातां स्वस्त्रियं नाहमत्यजम्अनृतावपि तद्योग्ये काले चेत्प्रार्थितस्तया ॥१३॥तदा तस्यां सकामिन्यां सकामं रमितं मयाएवं धर्मार्थकामा मे यथाकालं निषेविताः ॥१४॥महिष्यां केन दोषेण जायते मे न संततिःअतीतानागतज्ञानो वसिष्ठो गुरुरेव नः ॥१५॥कथयिष्यति तं दोषं यन्मे पुत्रो न जायतेदेवल उवाच-इत्यालोच्य स भूपालो गमिष्यन्नाश्रमं गुरोःमंत्रिष्वारोपयामास कोशलामृद्धिकोशलाम् ॥१६॥अथ प्रजासृजं देवं पूजयित्वाश्रमं गुरोःप्रतस्थाते पुत्रकामौ दंपती तौ शुभेऽहनि ॥१७॥कतिचिद्वासरैर्मार्गमुल्लंघ्यैकरथे स्थितौतौ दंपती गुरोः सायमाश्रमं प्रापतुः शुभम् ॥१८॥वैश्वदेवांत संप्राप्तातिथिसत्कारकृन्मुनिम्हुताशनहुतद्रव्यप्रसरद्धूममालया ॥१९॥पवित्रयंतमात्मस्थान्मुनीनागंतुकानपिमृगैर्दूर्वाप्रतानौघप्रपूर्णोदरमंथरम् ॥२०॥अभ्यागच्छद्भिरभितो मंडपं स मृगीगणैःवासवृक्षमिलत्पक्षिकुलकोलाहलाकुलम् ॥२१॥परस्परविनिर्मुक्तवैरव्याघ्रमृगादिकम्जपध्यानपरर्षीणां क्षणश्रांतश्रुतिध्वनिम् ॥२२॥अनध्ययनकालोत्थ क्रीडारक्तकुमारकम्तस्मिन्वसिष्ठमद्राष्टां दंपती तौ कृतक्रियम् ॥२३॥बृस्यां निषणमव्यग्रमरुंधत्योपसेवितम्स ववंदे गुरोः पादौ महिषी सा च तत्स्त्रियः ॥२४॥आशिषा गुरुरप्येनं युयोजारुंधती च ताम्अतिथिं तमथाभ्यर्च्य मधुपर्कादिभिर्गुरुः ॥२५॥अर्हणैरर्हतां श्रेष्ठो वसिष्ठ इति पृष्टवान्वसिष्ठ उवाच-भो भो भूमिभृतां श्रेष्ठ राज्ये कुशलमस्ति ते ॥२६॥कुले च कच्चिल्लोके च निजधर्मानुवर्त्तिनिधर्मेण पालिता कच्चित्वया वीरवसुंधरा ॥२७॥संवर्द्धयति ते कोशं धर्मधीरिव सात्विकीतव जानपदा राजन्पौराश्च स्थितिमात्मनः ॥२८॥सारवंतो विमुंचंति कच्चिन्नांबुधयो यथास्नेहेन साहचर्येण सहवासतया प्रभो ॥२९॥लक्ष्मीनारायणायेते कच्चित्ते पुरदंपतीकाम्यव्रतानि राजेंद्र प्रजानां नगरे तवफलंति वांछितं कच्चिद्धरिचंदनवद्दिवि ॥३०॥देवल उवाच-पृष्ट्वैवं स मुनिश्रेष्ठो वसिष्ठो मुनिपुंगवःयोगप्रभावोपनतैर्नृपं भोज्यैरभोजयत् ॥३१॥अरुंधतीच तां राज्ञीं बह्वादरसमन्वितानानाव्यंजनपक्वान्नैरभोजयदुदारधीः ॥३२॥कृतभोजनमासीनं स्वस्थः स्वस्थं मुनिर्नृपम्पुनः पप्रच्छ संगृह्य पाणिना पाणिमानतम् ॥३३॥वसिष्ठ उवाच-सप्तांग संयुतं राज्यं निजधर्मरतप्रजम्प्रीतबंधुजनामात्यं शस्त्रास्त्रविधिवद्भटम् ॥३४॥वश्यमित्रं हृतामित्रं कृष्णार्चापरमानसम्यस्यास्ति नृपते राज्यं स्वर्गराज्येन तस्य किम् ॥३५॥इक्ष्वाकुवंशराजानः पुत्रानुत्पाद्य धार्मिकाःराज्यं च तेषु विन्यस्य प्रपन्नास्तपसि प्रभो ॥३६॥त्वं युवा दृष्टपुत्रास्यो नाधिकारी तपोविधौकिमर्थमागतो ह्यत्र राज्यं त्यक्त्वा तथाविधम् ॥३७॥राजोवाच-ब्रह्मन्नाहं तपः कर्तुमागतस्तावकाश्रमेस्वर्गकामनया त्यक्त्वा राज्यमत्र तथाविधम् ॥३८॥ब्रह्मन्सत्यमिदं चोक्तं भवता यत्तपोवनम्राज्यमारोप्य पुत्रेषु प्राप्ता इक्ष्वाकुवंशजाः ॥३९॥न तैस्त्यक्तं महीराज्यमिदं स्वर्गगतैरपितन्मूर्तिरस्यां विमनास्तिष्ठति ह्येव संततिः ॥४०॥यथा बाल्यं गतं तात यौवनं च समागतम्यास्यत्यदोपि च तथा जराप्येष्यति निश्चितम् ॥४१॥जरसोऽनतरं मृत्युः पुरुषस्य न संशयःमृत्युंगते मयि ब्रह्मन्विनातनयसंभवम् ॥४२॥कस्येदं जगतीराज्यं भविष्यति गुरो वदतस्मादपत्यहीनस्य राज्येऽपि मम तिष्ठतः ॥४३॥ममत्वं विद्यते नात्र पुरस्तात्तदभावतःवर्गत्रयस्य वै सम्यक्संवेत्ता त्वं गुरो मम ॥४४॥केन दोषेण मे पुत्रो जायते न तपोनिधेध्यानेन दोषमालोक्य तं गुरो कथयाशुमे ॥४५॥तस्य प्रतिक्रियां कुर्यां श्रुत्वा संतानलब्धयेदेवल उवाच-इत्याकर्ण्य वसिष्ठस्तु वचस्तस्य महीपतेः ॥४६उवाच संततिस्तंभहेतुं वीक्ष्य समाधिनावसिष्ठ उवाच-त्वं पुरा राजशार्दूल संसेव्य सुरनायकम् ॥४७॥स्नातामिमां वधूं स्मृत्वा चलितो निजमंदिरम्गच्छतस्त्वरया तात संतानोत्कंठितस्य ते ॥४८॥आसीत्सुरतरोर्मूले कामेधनुः स्थिता पथिउत्पादिता त्वया तस्याः पूज्यांघ्रिरजसोऽतिरुट् ॥४९॥प्रदक्षिणनमस्कारसदाचारमकुर्वतासाऽशपत्त्वामतिक्रोधात्पुत्रो नोत्पत्स्यते तव ॥५०॥मम संतानशुश्रूषां यावत्त्वं न करिष्यसिगच्छंस्त्वमृतुदानाय त्वरया सुतकामुकः ॥५१॥तन्मना नाश्रृणोः शापं नयंताक्षनिनादतःतस्याः सुतासुतां धेनुं नंदिनीं ससुतां मम ॥५२॥आराधयानया वध्वा सार्द्धं सा दास्यते सुतम्देवल उवाच-इत्युक्तवति तत्रर्षौ वसिष्ठे सा तु नंदिनी ॥५३॥तपोवनात्समायाता वत्सस्नेहस्नुतस्तनीतां दृष्ट्वा हृष्टहृदयो वसिष्ठो मुनिपुंगवःउवाच भूपतिं भूयो दर्शयित्वा च नंदिनीम् ॥५४॥वसिष्ठ उवाच-राजन्समागता ह्येषा स्मृतमात्रशुभाह्वयाअतो विद्धि समीपस्थां कार्यसिद्धिमिहात्मनः ॥५५॥आराधितानुगत्येयं त्वयारण्ये तथाश्रमेवध्वा प्रसादात्ते पुत्रं दास्यते नात्र संशयः ॥५६॥यथानाभिभवेदेनां जंतुः कश्चिद्वनोद्भवःतथा चारय राजेंद्र वने हिंस्रो धनुर्द्धर ॥५७॥देवल उवाच-तथेति लघुवादिने नृपतये स्नुषायै च सक्षपाशयनहेतवे सदुटजं ददौ तापसःस तत्र सहभार्यया समधिशय्यदर्भास्तृतां महीमगमयन्निशां नियतमानसो विश्पतिः ॥५८॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्व्यधिकद्विशततमोध्यायः ॥२०२॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP