संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ३७ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ३७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३७ Translation - भाषांतर महादेव उवाच-शृणु नारद वक्ष्यामि माहात्म्यं जागरस्य चयच्छ्रुत्वा मुक्तिमाप्नोति महापापी न संशयः ॥१॥नारद उवाच-अहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदातस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्छिव ॥२॥तथापि श्रोतुमिच्छामि माहात्म्यं जागरस्य तुकीदृक्जागरमाहात्म्यं रात्रो भक्तिस्तु कीदृशी ॥३॥प्रहरेषु च या पूजा वद विश्वेश्वर प्रभोत्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनःत्वं हि विश्वेश्वरो देवो यतो भक्तिर्जनार्दने ॥४॥सर्वेषां चैव भक्तानां त्वं च श्रेष्ठ उमापतिःलोकेस्मिन्सर्वदा भक्त्या तवाख्या वर्त्तते सदा ॥५॥अतो येन प्रकारेण लोकानां मुक्तिरेव चविश्वेश्वर वद त्वं तु माहात्म्यं जागरस्य तु ॥६॥महादेव उवाच-एकादश्यां जनो विष्णुं रात्रौ संपूज्य भक्तितःकुर्याज्जागरणं विष्णोः पुरतो वैष्णवैः सह ॥७॥गीतं वाद्यं तथा नृत्यं पुराणपठनं तथाधूपं दीपं च नैवेद्यं पुष्पं गंधानुलेपनम् ॥८॥फलमर्घं तथा श्रद्धा दानमिंद्रियसंयमम्सत्यान्वितं च विप्रेंद्र वचोयुक्तं क्रियान्वितम् ॥९॥विनिद्रं च मुदायुक्तो यः करोति नरः सदासर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः ॥१०॥रात्रौ जागरणे प्राप्ते निद्रां कुर्वंति वैष्णवाःहारितं चोपवासं तैर्व्रतं वै विष्णुसंज्ञकम् ॥११॥ये कुर्वंति नराः प्राज्ञ जागरे विष्णुसंज्ञकेजागरं कृष्णभावेन न स्वपंति कदाचन ॥१२॥कृष्णस्य नाम मनसा वदंति च पुनः पुनःते तु धन्यतमा ज्ञेया अस्यां रात्रौ विशेषतः ॥१३॥क्षणेक्षणे तु गोदानं घट्यां चैव चतुर्गुणम्प्रहरे कोटिगुणितं चतुर्यामेष्वसंख्यकम् ॥१४॥जागरे निमिषार्द्धे तु केशवाग्रे विशेषतःतत्फलं कोटिगुणितं तस्य संख्या न विद्यते ॥१५॥नर्त्तनं कुरुते यस्तु केशवाग्रे नरोत्तमःन फलं हीयते तस्य आजन्ममरणांतिकम् ॥१६॥साश्चर्यं चैव सोत्साहं पापालापादिवर्जितम्प्रदक्षिणसमायुक्तं नमस्कारपुरःसरम् ॥१७॥नीराजनसमायुक्तमनिर्विण्णेन चेतसायामेयामे महाभाग कुर्यादारार्तिकं हरेः ॥१८॥षड्विंशगुणसंयुक्तमेकादश्यां च जागरम्यः करोति नरो भक्त्या न पुनर्जायते भुवि ॥१९॥य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितःजागरं वासरे विष्णोर्लीयते परमात्मनि ॥२०॥धनवान्वित्तशाठ्येन यः करोति प्रजागरम्तेनात्माहारितो नूनं कितवेन दुरात्मना ॥२१॥विष्णुजागरणे प्राप्ते उपहासं करोति यःषष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥२२॥वेदविद्ब्राह्मणो यस्तु नर्त्तनेन विशेषतःउपहासपरः प्राप्तः स वै चांडाल उच्यते ॥२३॥निमिषं निमिषार्द्धं वा यः करोति प्रजागरम्धर्मार्थकाममोक्षाणां प्राप्नोति पदमव्ययम् ॥२४॥वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकःरात्रौ जागरणे प्राप्ते निंदां कुर्वन्व्रजत्यधः ॥२५॥मम पूजां प्रकुर्वाणो विष्णुनिंदासु तत्परःएकविंशत्कुलेनैव नरकं प्रतिपद्यते ॥२६॥विष्णुः शिवः शिवो विष्णुरेकमूर्तिर्द्विधा स्थिताःतस्मात्सर्वप्रकारेण नैव निंदां प्रकारयेत्दष्टाः कलिभुजंगेन स्वपंति मधुहाहनि ॥२७॥कुर्वंति जागरं नैव मायया ते च मोहिताःप्राप्ता एकादशी येषां कलौ जागरणं विना ॥२८॥ते विनष्टा न संदेहो यस्माज्जीवितमध्रुवम्उद्धृतं नेत्रयुग्मं तु दत्त्वा वै वैष्णवं पदम् ॥२९॥कृतं ये नैव पश्यंति पापिनो हरिजागरम्अभावे वाचकस्याथ गीतं नृत्यं तु कारयेत् ॥३०॥वाचके सति देवर्षे पुराणं प्रथमं पठेत्अश्वमेधसहस्रस्य वाजपेयायुतस्य च ॥३१॥पुण्यं कोटिगुणं वत्स विष्णोर्जागरणे कृतेपितृपक्षे मातृपक्षे भार्यापक्षे तु वाडव ॥३२॥कुलानुद्धरते चैतान्कृत्वा जागरणं हरेःउपोषणदिने विद्धे जागरं पूजनं हरेः ॥३३॥वृथादानादिकं सर्वं कृतघ्नेषु कृतं यथाउपोषणदिने विद्धे प्रारब्धे जागरे स्थितिम् ॥३४॥विहाय स्थानं तद्विष्णुः शापं दत्वा प्रगच्छतिअविद्धे वासरे विष्णोर्ये कुर्वंति प्रजागरम् ॥३५॥तेषां मध्ये तु तुष्टः सन्नृत्यं तु कुरुते हरिःयावद्दिनानि कुरुते जागरं केशवाग्रतः ॥३६॥युगानि तानि तावंति विष्णुलोके महीयतेयावद्दिनानि वसते विना जागरणं हरेः ॥३७॥तावद्वर्षसहस्राणि रौरवान्न निवर्ततेएकदश्यां शयानस्तु विना जागरणं हरेः ॥३८॥मूकवत्तिष्ठते यो वै गानं पाठं न वाचरेत्सप्तजन्मानि मूकत्वं जायतेऽजागरे हरेः ॥३९॥यो न नृत्यति मूढात्मा पुरतो जागरे हरेःपंगुत्वं तस्य जानीयात्सप्तजन्मानि वाडव ॥४०॥यः पुनः कुरुते गीतं नृत्यं जागरणं हरेःब्राह्मं पदं मदीयं च सत्यं वै तस्य वैष्णवम् ॥४१॥यः प्रबोधयते लोकान्विष्णोर्जागरणे रतःवसेच्चिरं तु वैकुंठे पितृभिः सह वैष्णवः ॥४२॥मतिं प्रयच्छते यस्तु हरेर्जागरणं प्रतिषष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः ॥४३॥यत्किंचित्क्रियते पापं कोटिजन्मनि मानवैःश्रीकृष्णजागरे सर्वं रात्रौ नश्यति वाडव ॥४४॥शालग्रामशिलाग्रे ये कुर्वंति प्रतिजागरम्यामेयामे फलं प्रोक्तं कोट्यैंदवसमुद्भवम् ॥४५॥संप्राप्ते वासरे विष्णोर्ये न कुर्वंति जागरम्वृथा स्यात्तत्कृतं तेषां वैष्णवानां च निंदया ॥४६॥कामार्थौ संपदः पुत्राः कीर्तिर्लोकाश्च शाश्वताःयज्ञायुतैर्न लभ्यंते द्वादशीजागरं विना ॥४७॥मतिर्न जायते यस्य द्वादश्यां जागरं प्रतिन हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥४८॥यावत्पदानि चलति केशवायतनं प्रतिअश्वमेधसमानि स्युः जागरार्थं प्रगच्छतः ॥४९॥पादयोः पतितं यावद्धरण्यां पांशु गच्छताम्तावद्वर्षसहस्राणि जागरो वसते दिवि ॥५०॥तस्माद्गृहात्प्रगंतव्यं जागरे केशवालयेकलौ मलविनाशाय द्वादशीद्वादशीषु च ॥५१॥परापवादसंयुक्तं मनः प्रासाद वर्जितम्शास्त्रहीनमगांधर्वं तथा दीपविवर्जितम् ॥५२॥शक्त्योपचाररहितमुदासीनं सनिंदनम्कलियुक्तं विशेषेण जागरं नवधा मतम् ॥५३॥सशास्त्रं जागरं यच्च नृत्यगांधर्वसंयुतम्सवाद्यं तालासंयुक्तं सदीपं मधुभिर्युतम् ॥५४॥उच्चारैस्तु समायुक्तं यथोक्तैर्भक्तिभावितैःप्रसन्नं तुष्टिजननं संमूढं लोकरंजनम् ॥५५॥गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम्कर्त्तव्यं तत्प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ॥५६॥किं व्रतैर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किम्द्वादशीवासरे प्राप्ते न कुर्याज्जागरं हरेः ॥५७॥प्रवासेन त्यजेद्यस्तु पथिस्विन्नोऽपि वाडवजागरं वासुदेवस्य द्वादश्यां तु समे प्रियः ॥५८॥मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितःव्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत् ॥५९॥न शैवो न च सौरोऽसौ न शाक्तो गणसेवकःयो भुंक्ते वासरे विष्णोर्ज्ञेयः पश्वधिको हि सः ॥६०॥विप्रियं च कृतं तेन दुष्टेनैव च पापिनामद्भक्तिबलमाश्रित्य यो भुंक्ते वै हरेर्दिने ॥६१॥सबाह्याभ्यंतरं देहं वेष्टितं पापकोटिभिःमुच्यंते वासरे विष्णोर्ये कुर्वंति प्रजागरम् ॥६२॥कूर्परं यमदूतानां दत्तं तेन यमस्य चकृत्वा जागरणं विष्णोरविद्धं द्वादशीव्रतम् ॥६३॥स्वर्गापेक्षा मुनिश्रेष्ठ मुक्ता ते नैव संशयःवांछितं नारकं सौख्यं विद्धं कृत्वा हरेर्दिनम् ॥६४॥निहताः पितरस्तेन देवानां वै वधः कृतःदत्तं राज्यं तु दैत्यानां कृत्वा विद्धं हरेर्दिनम् ॥६५॥यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम्गीतं कुर्वन्मुखेनापि दर्शयन्कौतुकान्बहून् ॥६६॥पुरतो वासुदेवस्य रात्रौ जागरणे स्थितःपठन्कृष्णचरित्राणि रंजयन्वैष्णवान्गणान् ॥६७॥मुखेन कुरुते वाद्यं संप्रहृष्टतनूरुहःदर्शयन्विविधान्भृत्यान्स्वेच्छालापान्प्रकारयन् ॥६८॥भावैरेतैर्नरो यस्तु कुरुते जागरे हरेःनिमिषेनिमिषे पुण्यं तीर्थकोटिफलं स्मृतम् ॥६९॥अनुद्विग्नमना यस्तु धूपनीराजनं हरेःकुरुते जागरे रात्रौ सप्तद्वीपाधिपो भवेत् ॥७०॥यानि कानि च पापानि ब्रह्महत्यासमानि चकृष्णा ह जागरात्तानि विलयं यांति खंडशः ॥७१एकतः क्रतवः सर्वे समाप्तवरदक्षिणाःएकतो देवदेवस्य जागरः कृष्णवल्लभः ॥७२॥तत्र काशी पुष्करं च प्रयागं नैमिषं गयाशालग्राममहाक्षेत्रमर्बुदारण्यमेव च ॥७३॥पौष्करं मथुरा तत्र सर्वतीर्थानि चैव हियज्ञा वेदाश्च चत्वारो व्रजंति हरिजागरम् ॥७४॥गंगा सरस्वती तापी यमुना च शतद्रुकाचंद्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै ॥७५॥सरांसि च ह्रदाः सर्वे समुद्राः सर्व एव हिएकादश्यां द्विजश्रेष्ठ गच्छंति कृष्णजागरम् ॥७६॥स्पृहणीया हि देवानां ये नराः कृष्णजागरेनृत्यंति गीतं कुर्वंति वीणावाद्यप्रहर्षिताः ॥७७॥एवं जागरणं कृत्वा संपूज्य च महाहरिम्द्वादश्यां पारणं कृत्वा स्वशक्त्या वैष्णवैः सह ॥७८॥महादेव उवाच-शृणु ब्रह्मन्प्रवक्ष्यामि द्वादशीमाहात्म्यमुत्तमम्द्वादशी तु सदा ज्ञेया पुत्रदा मोक्षदायिनी ॥७९॥प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत्अज्ञानतिमिरांधस्य व्रतेनानेन केशव ॥८०॥प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भवपारणं च ततः कुर्याद्यथासंभवमग्रतः ॥८१॥अत ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधियदा तु द्वादशी स्वल्पा पारणेन भवेद्दिवज ॥८२॥तदा रात्रौ तु कर्त्तव्यं पारणं मुक्तिमिच्छतातदा न रात्रिदोषः स्यान्निषिद्धं न भवेत्क्वचित् ॥८३यदुक्तं निशि न स्नायान्महानिशि न भोजयेत्तत्पूर्वपरयामाभ्यां दिनवत्कर्म कारयेत् ॥८४॥यदा भवति स्वल्पा तु द्वादशी पारणे दिनेउषःकाले द्वयं कुर्यात्प्रातर्मध्याह्निकं तथा ॥८५॥द्वादशी साधिता येन नरेण भुवि सर्वदातस्य पुण्यमहं वक्तुं न समर्थो विशेषतः ॥८६॥साधयित्वाखिलान्कामान्प्राप्नुयुश्च महाजनाःअंबरीषादयः सर्वे ये भक्ता भुवि विश्रुताः ॥८७॥द्वादशीं साधयित्वा तु ते गता विष्णुसद्मनिसत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव ॥८८॥नास्ति विष्णुसमो देवो न तिथिर्द्वादशीसमाअत्र दत्तं च भुक्तं च तथा पूजादिकं च यत् ॥८९॥तत्सर्वं पूर्णतां याति पूजिते माधवे सतिकिं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः ॥९०॥प्रददात्यखिलान्कामान्यावदाभूतसंप्लवम्द्वादश्यां चैव यद्दत्तं तत्सर्वं सफलं भवेत् ॥९१॥कुरुक्षेत्रेषु यद्दत्तं निष्फलं नैव जायतेतद्वच्च द्वादशीदत्तं भवेद्देवर्षिसत्तम ॥९२॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे द्वादशीएकादशीजागरणमहिमानाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : November 18, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP