संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १३५ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १३५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १३५ Translation - भाषांतर श्रीमहादेव उवाचसाभ्रमत्यास्तु माहात्म्यं वक्ष्ये देवि यथातथम्कश्यपो वै मुनिश्रेष्ठस्तपो वै तप्तवान्महत् ॥१अनेकवर्षपर्यंतं तेन तप्तं महत्तपःअर्बुदे पर्वते रम्ये नानाद्रुमसमाकुले ॥२॥तत्र गत्वा तपस्तप्तं ऋषिणा कश्यपेन वैसरस्वती यत्र रम्या पवित्रा पापनाशिनी ॥३॥एकस्मिन्दिवसे देवि गतोऽसौ नैमिषं प्रतितदा ते ऋषयः सर्वे कथां चक्रुरनेकशः ॥४॥तदा तैस्तु द्विजैः सम्यक्पृष्टोऽसौ कश्यपो मुनिःअहो कश्यप नः प्रीत्यै गंगेहानीयतां प्रभो ॥५॥भवन्नाम्ना तु सा गंगा भविष्यति सरिद्वरातेषां वाक्यमुपाकर्ण्य नमस्कृत्य द्विजांश्च तान् ॥६॥आगतो ह्यर्बुदारण्ये सरस्वतीतीरसंनिधौतत्र तप्तं तदा तेन तपः परमदुष्करम् ॥७॥आराधितो ह्यहं तेन कश्यपेन द्विजेन वैप्रत्यक्षोऽहं तदा जातस्तस्य द्विजवरस्य च ॥८॥वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ॥९॥कश्यप उवाचवरं दातुं समर्थोऽसि देवदेव जगत्पतेशिरःस्थिता या गंगेयं पवित्रा पापहारिणी ॥१०॥मम देया विशेषेण महादेव नमोस्तुतेतदा देवि मयोक्तं च गृह्णीष्व त्वं द्विजोत्तम ॥११॥जटामेकां परित्यज्य दत्ता गंगा तदा मयातां गृहीत्वा द्विजश्रेष्ठः स्वस्थानं हर्षतो ययौ ॥१२॥केशरन्ध्रं नाम तीर्थं वासो वै कश्यपस्य चगतस्तत्र तु देवेशि मुनिभिः परिवारितः ॥१३॥कश्यपेन समानीता काश्यपी सा सरिद्वरायस्या दर्शनमात्रेण ब्रह्महा मुच्यते किल ॥१४॥पार्वत्युवाचस्नानमात्रेण किं पुण्यं तत्र तीर्थे वदस्व मेविश्वनाथ कृपालुस्त्वं दयां कुरु ममोपरि ॥१५॥दर्शने किं भवेत्पुण्यं स्नाने किं वद देवराट्महिमा कीदृशो ब्रह्मन्सर्वं त्वं वक्तुमर्हसि ॥१६॥महादेव उवाचमया श्रुतान्यनेकानि तीर्थान्यायतनानि चश्रीविष्णोश्च प्रसादाच्च नद्यः सागरगाः प्रभोः ॥१७॥गंगा च यमुना रेवा तापी चैव महानदीगोदावरी तुंगभद्रा कौशिकी गल्लिका तथा ॥१८॥कावेरी वेदिका भद्रा सरयूः पापहारिणीअन्याश्च विविधा नद्यः सर्वपापहरा भुवि ॥१९॥प्रयागस्तीर्थराजश्च काशी पुष्कर एव चनैमिषारण्यसंज्ञं तु तीर्थं चामरकंटकम् ॥२०॥उत्तमं द्वारकाक्षेत्रमर्बुदारण्यमुत्तमम्एवंविधानि दिव्यानि क्षेत्राणि विविधानि च ॥२१॥श्रुतानि तत्र देवेशि माया विष्णोः प्रसादतःपूर्वं भगीरथेनैव याचितोऽहं तु पार्वति ॥२२॥तदा दत्ता इयं गंगा विष्णोर्लोकमभीप्सुनाकश्यपाय पुनर्दत्ता ऋषीणां वचनान्मया ॥२३॥इयं वै काश्यपी गंगा रोगदोषहरा सदाइयं या कथ्यते लोके युगे वै नामपूर्वकम् ॥२४॥तदहं कथयिष्यामि शृणु सुंदरि तत्वतःकृते कृतवती नाम त्रेतायां गिरिकर्णिका ॥२५॥द्वापरे चंदना नाम कलौ साभ्रमती स्मृतादिनेदिने विशेषेण स्नानार्थं तु नराश्च ये ॥२६॥सर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम्प्लक्षावतरणे तीर्थे सरस्वत्यां तथेश्वरि ॥२७॥केदारे च कुरुक्षेत्रे यत्फलं स्नानतो भवेत्तत्फलं तु नृणां नूनं साभ्रमत्या दिने दिने ॥२८॥भवतीति न संदेहो व्यासस्य वचनं यथानभस्येपरपक्षे तु प्रत्यहं वा सुरेश्वरि ॥२९॥अमावास्यादिने सम्यक्श्राद्धदाने च यत्फलम्नरस्तत्फलमाप्नोति साभ्रमत्यावगाहनात् ॥३०॥कार्तिक्यां कृत्तिकायोगे श्रीस्थले माधवाग्रतःतत्फलं लभते मर्त्यो साभ्रमत्यावगाहनात् ॥३१॥एषा श्रेष्ठतमा देवि सर्वलोकेषु पावनीइयं धन्यतमा देवि पवित्रा ह्यघनाशिनी ॥३२॥यस्यां वै साभ्रमत्यां च एते तिष्ठंति नित्यशःपूर्वं संबंधिनो ये च उत्तरे ये तथा पुनः ॥३३॥पाश्चात्या दाक्षिणात्याश्च सर्वे यांति च नित्यशःतीर्थयात्रामिषेणैव खेटके ब्रह्मसन्निधौ ॥३४॥आयांति सर्वदा देवि कार्तिक्यां च न संशयःतत्र श्राद्धं प्रकुर्वंति तथा वै विप्रभोजनम् ॥३५॥नाना धर्मान्प्रकुर्वंति नानायज्ञांश्च नित्यशःविविधानि च दानानि प्रकुर्वंति जनाः सदा ॥३६॥चतुर्युगेषु सर्वेषु नात्र कार्या विचारणायवक्रीतोऽथ रैभ्यश्च काक्षीवानुशिजस्तथा ॥३७॥भृग्वंगिरास्तथा कण्वो मेधावी च पुनर्वसुःबंदी च गुणसंपन्नः प्राच्यां दिशि उपश्रिताः ॥३८॥उदीच्यां ये महाभागा मधुमत्प्रमुखास्तथासुबंधुश्च महाभागो दत्तात्रेयश्च वीर्यवान् ॥३९॥शिखी दीर्घतमाश्चैव गौतमः कश्यपस्तथाश्वेतकेतुः कहोडश्च पुलहो देवलस्तथा ॥४०॥विश्वामित्र भरद्वाजौ जमदग्निश्च वीर्यवान्ऋचीकपुत्रो गर्गश्च ऋषिरुद्दालकस्तथा ॥४१॥देवशर्माऽथ धौम्यश्च आस्तीकः कश्यपस्तथालोमशो नाभिकेतुश्च लोमहर्षण एव च ॥४२॥ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथावालखिल्यादयो ये च सर्वे गच्छंति तत्र वै ॥४३॥कृतस्नाना निराहाराः सदा विष्णुपरायणाःशंखचक्रगदाधरास्तटे तिष्ठंति नित्यशः ॥४४॥पितृतीर्थं गयानाम सर्वतीर्थवरं शुभम्यत्रास्ते देवदेवेशः स्वयमेव पितामहः ॥४५॥गीतायाः पितृभिर्गाथा श्राद्धभागमपीप्सुभिःएष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥४६॥यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्तथा वाराणसी पुण्या पितॄणां वल्लभा सदा ॥४७॥या चैव मम सांनिध्याद्भुक्तिमुक्तिफलप्रदाममाज्ञया तु देवेशो बिंदुमाधवसंज्ञकः ॥४८॥नित्यं तिष्ठति देवेशि वाराणस्यां विशेषतःअतो धन्यतमा श्रेष्ठा पुरीयं मम सर्वदा ॥४९॥पितॄणां वल्लभं तीर्थं पुण्यं वै विमलेश्वरम्पितृतीर्थं प्रयागं च सर्वतीर्थसमन्वितम् ॥५०॥साभ्रमत्युदके देवि आयांति वचनान्ममवटेश्वरश्च भगवान्माधवेन समन्वितः ॥५१॥दशाश्वमेधकं पुण्यं गंगाद्वारं तथैव चमन्नियोगाच्च देवेशि साभ्रमत्यां वसंति हि ॥५२॥नदाथ ललितादेवी तीर्थं यत्सप्तधारकम्तथा मित्रपदं नाम केदारं शंकरालयम् ॥५३॥गंगासागरमित्याहुः सर्वतीर्थमयं शुभम्तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे ॥५४॥तीर्थं तु नैमिषं नाम आज्ञया मम सर्वदासाभ्रमत्युदके देवि निवसंति न संशयः ॥५५॥श्वेता वल्कलिनी पुण्या ततः श्वेता हिरण्मयीहस्तिमत्यथवार्त्तघ्नी नदी सागरगामिनी ॥५६॥पितॄणां वल्लभा ह्येताः श्राद्धकोटिफलप्रदःतत्र श्राद्धानि देयानि पुत्रैः पितृहिताय वै ॥५७॥पाटलं वाडवाख्यं च नगरं तत्र सुंदरिसाभ्रमत्यां सदा एताः प्राप्ता नद्यो विशेषतः ॥५८॥तत्र स्नानं च दानं च ये कुर्वंति नरा भुविइहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् ॥५९॥जंबूद्वीपं महापुण्यं यत्र पुण्यं विवर्द्धतेतत्रार्याख्यं महापुण्यं सर्वकामफलप्रदम् ॥६०॥नीलकंठमिति ख्यातं तीर्थं नंदह्रदस्तथातथा रुद्रह्रदस्तीर्थं पुण्यं रुद्र महालयम् ॥६१॥मंदाकिनी महापुण्या तथाच्छोदा महानदीसाभ्रमत्यां वहंत्येते स्वात्मना दर्शनीकृते ॥६२॥धूम्रा मित्रपदं तद्वद्वैजनाथं दृषद्वरम्क्षिप्रा नदी महाकालं तथा कालिंजरो गिरिः ॥६३॥गंगोद्भूतं हरोद्भेदं नर्मदाकारमेव चगंगापिंडप्रदानेन समान्याहुर्मनीषिणः ॥६४॥एतानि ब्रह्मतीर्थानि साभ्रमत्युत्तरे तटेगुप्तीकृतानि देवेशि देवैर्ब्रह्मपुरोगमैः ॥६५॥स्मरणादपि लोकानां पापघ्नानि महेश्वरिकिं पुनः श्राद्धदातॄणां मानवानां सुरेश्वरि ॥६६॥ॐकारं पितृतीर्थं च कावेरी कपिलोदकम्संभेदश्चंडवेगायास्तथैवामरकंटकम् ॥६७॥कुरुक्षेत्राच्छतगुणमस्मिन्स्नानादिकं भवेत्वार्तघ्नीसंगमे देवि गणेश्वरपुरःसरम् ॥६८॥साभ्रमत्यां पुरा नीतं गणैस्तीर्थकदंकबम्एष तूद्देशतः प्रोक्तस्तीर्थानां संगमो मया ॥६९॥वागीशापि न शक्नोति तीर्थानां तत्वविस्तरम्सत्यं तीर्थं दयातीर्थं तीर्थमिंद्रियविग्रहः ॥७०॥तस्यास्तीर्थे प्रयत्नेन स्नानं कुर्यान्न संशयःप्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु ॥७१॥तदा स्नानादिकं तीर्थे देवानां प्रीतिदायकम्मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ॥७२॥पितॄणां प्रीतिजननं स्नानपिंडादि तर्पणम्सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥७३॥राक्षसी नाम सा वेला गर्हिता सर्वकर्मसुअह्नो मुहूर्ता विख्याता दशपंच च सर्वदा ॥७४॥तत्राष्टमो मुहूर्तो यः स कालः कुतुपः स्मृतःमध्याह्ने सर्वदा यस्मान्मंदी भवति भास्करः ॥७५॥तस्मादनंतफलदः पितॄणां पिंडदानतःमध्याह्नः खङ्गपात्रं च तथा नेपालकंबलः ॥७६॥रूप्यं दर्भास्तथा गावो दौहित्रं कुतपास्तिलाःपापं कुत्सितमित्याहुस्तस्य संतापकारकाः ॥७७॥अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताःऊर्द्ध्वं मुहूर्तात्कुतुपात्यन्मुहूर्त चतुष्टयम् ॥७८॥महूर्तपंचकं चैतच्छ्राद्धकाले समिष्यतेविष्णोर्देहात्समुद्भूताः कुशाः कृष्णतिलाः स्मृताः ॥७९॥श्राद्धस्य रक्षणार्थाय एवमाहुर्दिवौकसःतिलोदकांजलिर्देयो जलस्थैस्तीर्थवासिभिः ॥८०॥सदर्भहस्तैरेकेन श्राद्धमेवं न हिंस्यतेसाभ्रमत्यां नामधेयैरिति तीर्थप्रवेशनम् ॥८१॥कारयित्वा मया देवि दत्ता वै कश्यपाय चमम भक्तः कश्यपोसौ वल्लभो मम सर्वदा ॥८२॥दत्ता तस्मादियं गंगा पवित्रा पापनाशिनीसाभ्रमत्यां महाभागे तीर्थे वै ब्रह्मचारिके ॥८३॥आत्मानं च प्रतिष्ठाप्य तन्नाम्ना शंकरो ह्यहम्स्थितो लोकहितार्थाय ब्रह्मचारीश संज्ञकः ॥८४॥साभ्रमत्यामुपकंठे ब्रह्मचारीश संज्ञकेकलौ भक्तो विशेषेण पूजनं कुरुते यदा ॥८५॥इहलोके सुखं भुक्त्वा याति शैवं पदं महत्महद्भिर्व्याधिभिश्चैव पीडितो यदि गच्छति ॥८६॥यस्याशु नश्यति व्याधिर्दर्शनाच्च महेश्वरिगत्वा वै तस्य संस्थाने उपवासी जितेंद्रियः ॥८७॥पूजनं कुरुते भक्त्या रात्रौ तिष्ठन्सुनिश्चलःतदाहं योगिरूपेण दर्शनं तस्य यामि हि ॥८८॥ददामि वांच्छितान्कामान्सत्यं सत्यं वराननेममस्थाने विशेषेण समायांति च ये जनाः ॥८९॥तेषां व्याधिप्रशमनं करोमि सुचिरादहम्चतुरशीतिसंज्ञेयो व्याधिः संकथितो मया ॥९०॥स स व्याधिर्विनश्येत दर्शनादेव सुंदरिन लिंगं वर्तते तत्र मामकं नगनंदिनि ॥९१॥स्नानमात्रं तु तत्रैव मामकं नात्र संशयःएकस्मिन्नेव काले तु अस्यां भूमौ महातपाः ॥९२॥राजा वै सूर्यवंशीयो ब्रह्मदत्तस्तु वीर्यवान्तेन राज्ञा तपस्तप्तं बहुकालं सुरेश्वरि ॥९३॥पंचाग्निसाधनं तेन कृतं च बहुधा ततःमासोपवासकादीनि तपस्तप्तान्यनेकशः ॥९४॥एवं बहुतरं कालं राज्ञा तप्तं तपो महत्प्रत्यक्षोऽहं तदा जातो वरार्थं वरवर्णिनि ॥९५॥ब्रह्मदत्त शृणुष्व त्वं महद्वाक्यं नरेश्वरयं यं वांछयसे नित्यं तं तं दद्मि न संशयः ॥९६॥तेनोक्तं मम देवेश वांच्छितं यदि दीयतेएक एव वरो देव दीयतां मम सर्वदा ॥९७॥मम नाम्ना हि देवेश ईश्वरो भुवि जायताम्तेन वाक्येन संतुष्टो वरो दत्तो मयाऽनघे ॥९८॥तदाहं तेन वै सार्द्धं निवसामि सुरेश्वरिअत्र स्थित्वा निराहारो भक्तिं कुर्यादशेषतः ॥९९॥ददामि वांछितान्कामान्यावदिंद्राश्चतुर्दशअत्रागत्य तु ये विप्रा रुद्रजाप्यादिकं च यत् ॥१००॥प्रकुर्वंति विशेषेण तेषां दद्मि शृणुष्व तत्स्त्रीसौख्यं पुत्रसौख्यं च लक्ष्मीवृद्धिकरं पुनः ॥१०१॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP