संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १७५ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १७५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १७५ Translation - भाषांतर पार्वत्युवाचभगवन्सर्वतत्वज्ञ श्रीविष्णोस्त्वत्प्रसादतःश्रुता नानाविधा धर्मा लोकनिस्तारहेतवः ॥१॥अधुना श्रोतुमिच्छमि गीतामाहात्म्यमप्यहम्श्रुतेन येन देवेश हरौ भक्तिर्विवर्द्धतेतद्वदस्वाधुना देव यद्यहं तव वल्लभा ॥२॥ईश्वर उवाचअतसीपुष्पसंकाशं खगेंद्रासनमच्युतम्शयानं शेषशय्यायां महाविष्णुमुपास्महे ॥३॥कदाचिदासने रम्ये सुखासीनं मुरद्विषम्आनंदयित्री लोकानां लक्ष्मीः पप्रच्छ सादरात् ॥४॥श्रीरुवाचशयालुरसि दुग्धाब्धौ भगवन्केन हेतुनाउदासीन इवैश्वर्यं जगंति स्थापयन्निव ॥५॥ईश्वर उवाचइति देव्या वचः श्रुत्वा मुरभिज्ज्ञानगर्वितम्उवाच श्लक्ष्णया वाचा विस्मयस्मेरलोचनः ॥६॥श्रीभगवानुवाचनाहं सुमुखि निद्रालुर्निजं माहेश्वरं वपुःदृशा तत्वानुवर्त्तिन्या पश्याम्यंतर्निमग्नया ॥७॥कुशाग्रया धिया देवि यदंतर्योगिनो हृदिपश्यंति यच्च वेदानां सारं मीमांसते भृशम् ॥८॥तदेवमक्षरं ज्योतिरात्मरूपमनामयम्अखंडानंद संदोह निष्पादि द्वैतवर्जितम् ॥९॥यदाश्रया जगद्वृत्तिर्यन्मया चानुभूयतेन येन रहितं किंचिज्जगत्तत्वं चराचरम् ॥१०॥निर्मथ्य बहुधालोक्य वेदशास्त्रांबुधिं सुधीःद्वैपायनो यदासाद्य गीताशास्त्रं निसृष्टवान् ॥११॥यदास्थाय महानंदमानंदीकृतमानसःनिद्रालुरिव देवेशि दुग्धाब्धौ प्रतिभामि वै ॥१२॥इति तस्य मुरारातेर्मितमानंदवद्वचःसा हर्षोत्फुल्ललोलाक्षी लक्ष्मी श्रुत्वा विसिस्मिरे ॥१३॥श्रीरुवाचभवानेव हृषीकेश ध्येयोऽसि यमिनां सदातस्मात्त्वत्तः परं यत्तच्छ्रोतुं कौतूहलं हि मे ॥१४॥चराचराणां लोकानां कर्त्ता हर्त्ता स्वयं प्रभुःयथास्थितस्ततोऽन्यत्वं यदि मां बोधयाच्युत ॥१५॥श्रीभगवानुवाचमायामयमिदं देवि वपुर्मे न तु तात्विकम्सृष्टिस्थित्योपसंहारक्रियाजालोपबृंहितम् ॥१६॥अतोऽन्यदात्मनोरूपं द्वैताद्वैतविवर्जितम्भावाभावविनिर्मुक्तमाद्यंतरहितं प्रिये ॥१७॥शुद्धसंवित्प्रभालाभं परानंदैकसुंदरम्रूपमैश्वरमात्मैक्यगम्यं गीतासु कीर्तितम् ॥१८॥इत्याकर्ण्य वचो देवि देवस्यामिततेजसःशंकमाना ह वाक्येषु परस्परविरोधिषु ॥१९॥स्वयं चेत्परमानंदमवाङ्मनसगोचरम्कथं गीता बोधयति इति मे च्छिंधि संशयम् ॥२०॥ईश्वर उवाचश्रियः श्रुत्वा वचोयुक्तमितिहासपुरःसरम्आत्मानुगामिनीं दृष्टिं गीतां बोधितवान्प्रभुः ॥२०॥अहमात्मा परेशानि परापरविभेदतःद्विधा ततः परः साक्षी निर्गुणो निष्कलः शिवः ॥२१॥अपरः पंचवक्त्रोऽहं द्विधा तस्यापि संस्थितिःशब्दार्थभेदतो वाच्यो यथात्माहं महेश्वरः ॥२२॥गीतानां वाक्यरूपेण यन्निरुच्छिद्यते दृढःमदीयपाशबंधोऽयं संसारविषयात्मकः ॥२३॥यदाभ्यासपराधीनौ पंचवक्त्रमहेश्वरौइति तस्य वचः श्रुत्वा गीतासारमहोदधेः ॥२४॥इदं परविभेदेन बुध्यते भवभीरुभिःतमपृच्छदिदं लक्ष्मीरंगप्रत्यंगसंस्थितम् ॥२५॥माहात्म्यं सेतिहासं च सर्वं तस्यै न्यवेदयत्श्रीभगवानुवाचशृणु सुश्रोणि वक्ष्यामि गीतासु स्थितिमात्मनः ॥२६॥वक्त्राणि पंच जानीहि पंचाध्यायाननुक्रमात्दशाध्याया भुजाश्चैक उदरं द्वौ पदांबुजे ॥२७॥एवमष्टादशाध्याया वाङ्मयी मूर्तिरैश्वरीविज्ञेया ज्ञानमात्रेण महापातकनाशिनी ॥२८॥अतोध्यायं तदर्धं वा श्लोकमर्द्धं तदर्धकम्अभ्यस्यति सुमेधा यः सुशर्मेव समुच्यते ॥२९॥श्रीरुवाचसुशर्मा नाम को देव किं जातीयः किमात्मकःकुतस्तस्य च वै मुक्तिः केनाजायत हेतुना ॥३०॥श्रीभगवानुवाचसुशर्मा नाम दुर्मेधाः सीमा पापात्मनामभूत्जातो नात्मविदां वंशे विप्राणां क्रूरकर्मणाम् ॥३१॥न ध्यानं न जपो होमो न चैवातिथिपूजनम्केवलं विषयेष्वेव बलाढ्येनाभिवर्त्तते ॥३२॥कृषिकर्मरतो नित्यं पर्णजीवी सुराप्रियःमांसोपहारी सुचिरं कालमेवं निनाय सः ॥३३॥आनेतुकामः पर्णानि पर्यटनृषिवाटिकाम्ततः स तत्र दष्टोऽभूत्कालसर्पेण मूढधीः ॥३४॥कालधर्मं समासाद्य गत्वा च निरयान्बहून्पुनरागत्य मर्त्येषु बलीवर्दत्वमीयिवान् ॥३५॥पंगुना केन विक्रीतः स स्वजीवनहेतवेनयन्पृष्ठेन शरदः सप्ताष्टौ कष्टतोनयत् ॥३६॥कदाचित्पंगुनासोऽपि चिरमावर्तितो जवात्पपात तरसा भूमौ मूर्च्छां च प्रतिपेदिवान् ॥३७॥विकलांगो विवृत्ताक्षः फेनसंततिमुद्गिरन्न जीवति न मृत्युं वा प्रतिपेदे स्वकर्मणा ॥३८॥कौतुकाकृष्टलोकेऽस्मिंस्तस्मिन्जनसमागमेश्रेयसे तस्य सुकृती कश्चित्पुण्यं वितीर्णवान् ॥३९॥कर्माणि स्वान्यनुस्मृत्य ददुरन्ये च केचनगणिका कापि तत्रस्था लोकयात्रानुवर्तिनी ॥४०॥अज्ञात निजपुण्या सा किंचिदुत्सृष्टवत्यभूत्परेतनगरीमादौ स नीतः कालकिंकरैः ॥४१॥गणिकादत्तपुण्येन पुण्यवानिति मोचितःपुनरागत्य भूर्लोकं कुलशीलवतां गृहे ॥४२॥द्विजन्मनामसौ जज्ञे जातिं स्वामनुसंस्मरन्काले महति जिज्ञासुः श्रेयः स्वाज्ञाननोदनम् ॥४३॥उपेत्य गणिकां दत्तं ख्यापयित्वा स पृष्टवान्आचष्ट मां शुको नित्यं पंजरस्थः पठत्यसौ ॥४४॥तेन पूतांतरात्माहं तत्पुण्यं पर्यकल्पयम्ताभ्यां शुकस्तु पृष्टोऽसौ व्याख्यातुमुपचक्रमे ॥४५॥आख्यायिकां पुरावृत्तां स्मृत्वा जातिं निजामपिशुक उवाचपुरा विद्वानहं भूत्वा वैदुष्य स्मयमोहितः ॥४६॥रागद्वेषेण विद्वत्सु गुणवत्स्वपि मत्सरीकालेनाहं ततः प्रेत्य प्राप्य लोकाञ्जुगुप्सितान् ॥४७॥सोऽहं कीरकुलेऽभूवं सद्गुरावतिनिंदकःकाले धर्मणि दुष्कर्मा पितृभ्यां च वियोजितः ॥४८॥निदाघेऽध्वनिसंतप्ते आनीतो ऋषिपुंगवैःपातितः पंजरस्थोऽहं माश्रमे महदाश्रये ॥४९॥आवर्तयद्भ्यो गीतानामाद्यमध्यायमादरात्श्रुत्वा ऋषिकुमारेभ्यः पाठं चाकरवं मुहुः ॥५०॥एतस्मिन्नंतरे कश्चिद्वागुरिश्चौरकर्मकृत्मामाहृत्य तदाक्रीणादिति वृत्तमुदाहृतम् ॥५१॥श्रीभगवानुवाचअध्यायोऽयं पुराम्नातो येन पापमनोदयम्पूतांतरात्मा येनासौ मोचितश्च द्विजोत्तमः ॥५२॥एवमन्योन्यमाभाष्य तन्माहात्म्यं प्रशस्य चते जपंतोनिशं धीरा मुक्तिं गेहे प्रपेदिरे ॥५३॥तस्मादध्यायमाद्यं यः पठते शृणुते स्मरेत्अभ्यसेत्तस्य न भवेद्भवांभोधिर्दुरुत्तरः ॥५४॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सतीश्वरसंवादे गीतामाहात्म्ये पंचसप्तत्यधिकशततमोऽध्यायः ॥१७५॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP